॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
नानातपःपरः कुत्सः साक्षाद् द्विजवरोऽभवत् ।
तपसा शुद्धभावः स ब्रह्मश्रद्धापरायणः ॥ १ ॥
शमी दमपरो भूत्वा जडोन्मत्तादिकं परम् ।
चचार स ततः शाक्तेऽभवत् ब्रह्मणि तन्मयः ॥ २ ॥
नामरूपात्मकानां तद्ब्रह्मासत्सञ्ज्ञकं मतम् ।
तज्ज्ञात्वा शान्तिहीनश्च बभूवे खेदसंयुतः ॥ ३ ॥
तत्रागतं स योगीन्द्रं याज्ञवल्क्यं प्रतापिनम् ।
ननाम तं महाभागं कुत्सो धर्मविदुत्तमः ॥ ४ ॥
सम्पूज्य हर्षसंयुक्तः प्रपच्छ विनयान्वितः ।
वद योगं महायोगिन् शान्तिदं योगिनां मतम् ॥ ५ ॥
याज्ञवल्क्य उवाच ।
पञ्चचित्तमयी बुद्धिः संयोगायोगरूपिणी ।
तस्यां भ्रान्तिप्रदा सिद्धिर्नानासिद्धिप्रदर्शिनी ॥ ६ ॥
तत्र बिम्बं गणेशस्य पतितं मोहधारकम् ।
बिम्बभावं परित्यज्य ब्रह्मीभूतो भविष्यसि ॥ ७ ॥
तदर्थं वक्रतुण्डस्याऽऽराधनं कुरु सर्वदा ।
तेन शान्तिसमायुक्तो भविष्यसि न संशयः ॥ ८ ॥
बिम्बं मायायुतं प्रोक्तं मोहितं सिद्धिबुद्धिगम् ।
तद्भावं हन्ति तुण्डेन तेनायं वक्रतुण्डकः ॥ ९ ॥
[[८१]]
मायासुखं नराकारं तस्माद्वक्रं परं मुखम् ।
तयोर्ब्रह्मसमायोगे वक्रतुण्डोऽयमुच्यते ॥ १० ॥
कण्ठाधो मायया युक्तो मस्तकं तद्विवर्जितम् ।
वक्राख्यं तस्य विप्रेश तेनाऽयं वक्रतुण्डकः ॥ ११ ॥
अनेनार्थेन संयुक्तं वक्रतुण्डं भजस्व च ।
तेन शान्तिसमायुक्तो गाणपत्यो भविष्यसि ॥ १२ ॥
एवमुक्त्वा ययौ योगी याज्ञवल्क्यो महायशाः ।
कुत्सो हर्षसमायुक्तो वक्रतुण्डपरोऽभवत् ॥ १३ ॥
ततः स्वल्पेन कालेन शान्तिं लेभे महामुनिः ।
गाणपत्यस्वभावेनाभजत्तं वक्रतुण्डकम् ॥ १४ ॥
कुत्सो नित्यं महायोगी वक्रतुण्डचरित्रकम् ।
खण्डं पपाठ भक्त्या स मौद्गलस्य सुहर्षितः ॥ १५ ॥
तस्य गेहे कदाचित्तु अगमत् शूलसंयुतः ।
भगन्दरयुतः पापी द्विज आङ्गिरसोद्भवः ॥ १६ ॥
दुःखयुक्तो ननामाऽसौ कुत्सं योगविदां वरम् ।
स्नात्वा सुष्वाप विप्रेश तत्सान्निध्येऽतिदुःखितः ॥ १७ ॥
कुत्सो गणेशं सम्पूज्याऽपठत्तं वक्रतुण्डगम् ।
चरितं सोऽपि शुश्रावानायासेन गृहे स्थितः ॥ १८ ॥
सम्पूर्णे संश्रुते तत्र रोगहीनो बभूव ह ।
प्रणम्याङ्गिरसस्तं च ययौ स्थानं स्वकीयकम् ॥ १९ ॥
भुक्त्वा स विविधान् भोगान् जगामान्ते गणेश्वरम् ।
चित्रमाङ्गिरसोद्भूतं पश्य शौनक ते नमः ॥ २० ॥
एवं नाना जनाः सिद्धिं ययुः श्रवणमात्रतः ।
वक्रतुण्डचरित्रस्य मौद्गलस्थस्य मानद ॥ २१ ॥
तत्रैवं कति ते ब्रूयां मया वक्तुं न शक्यते ।
अतः सङ्क्षेपतः प्रोक्तं माहात्म्यं श्रवणे भवम् ॥ २२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे वक्रतुण्डचरितश्रवणमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥