३० मौद्गलनित्यश्रवणमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

राजाऽभूच्चाक्षुषे कश्चिन् सुमेधो नाम धारकः ।
नानाधर्मपरो यज्वा दाता मानी महाबलः ॥ १ ॥

सर्वशास्त्रार्थतत्त्वज्ञो द्विजदेवातिथिप्रियः ।
सप्तद्वीपाधिपो भूत्वा स चक्रे राज्यमुत्तमम् ॥ २ ॥

एवं राज्यपरो राजा सर्वेषां हितकारकः ।
वान्ध्यदोषसमायुक्तो बभूवातीव दुःखितः ॥ ३ ॥

नानोपायांश्चकाराऽसौ पुत्रप्राप्त्यर्थमादरात् ।
नालभत् पुत्रमानन्ददायकं दुःखितोऽभवत् ॥ ४ ॥

पत्न्या विचार्य राजाऽसौ त्यक्त्वा राज्यं तया सह ।
प्रधानेषु वनं घोरं ययौ शोकसमन्वितः ॥ ५ ॥

बभ्राम भ्रान्तचित्तोऽसौ सुमेधा यत्र तत्र च ।
ततो महावनं राजा ददर्श भयदायकम् ॥ ६ ॥

मरणे निश्चयं कृत्वा प्रविवेश महावनम् ।
तत्र व्याला मृगा व्याघ्राः पपलुस्तं निरीक्ष्य ते ॥ ७ ॥

ततो राजा प्रियायुक्तो बभ्राम भ्रान्तवद्यथा ।
तत्र क्रतुं ददर्शापि महायोगीन्द्रमुत्तमम् ॥ ८ ॥

कृताञ्जलिः स्त्रिया विप्रं प्रणनाम पुरः स्थितः ।
तुष्टाव तं विधेः पुत्रं तेजोयुक्तं प्रजापतिम् ॥ ९ ॥

सन्तुष्टस्तं महीपालं समाश्वास्य जगाद ह ।
दुःखं किं ते महीपाल किमर्थं वद चागतः ॥ १० ॥

राजा तस्मै स्ववृत्तान्तं कथयामास विस्तरात् ।
तच्छ्रुत्वा ध्यानसंयुक्तो बभूव मुनिसत्तमः ॥ ११ ॥

जगाद नृपतिं विप्र क्रतुस्तं हर्षयन्निव ।
मौद्गलं शृणु राजंस्त्वं पुत्रयुक्तो भविष्यसि ॥ १२ ॥

मुदितो राजशार्दूलस्तं प्रणम्य तदाज्ञया ।
ययौ स्वनगरं चित्रं पुरोहितमुवाच ह ॥ १३ ॥

श्रुत्वा वृत्तं गुरुस्तस्य शाण्डिल्यः सर्वशास्त्रवित् ।
जगाद तं महीपालं हर्षनिर्भरमानसः ॥ १४ ॥

शाण्डिल्य उवाच ।

मौद्गलं चानयिष्यामि सर्वसिद्धिप्रदायकम् ।
श्रावयिष्यामि ते राजन् मा चिन्तां कुरु निश्चितम् ॥ १५ ॥

एवमुक्त्वा ययौ सोऽपि क्रतुं योगीन्द्रवन्दितम् ।
तं प्रणम्य यथान्यायं मौद्गलं श्रुतवान् परम् ॥ १६ ॥

लेखयित्वा स्वयं विप्रः शाण्डिल्यः सर्वतत्त्ववित् ।
ययौ सुमेधसं भूपं जगाद वचनं हितम् ॥ १७ ॥

शाण्डिल्य उवाच ।

मौद्गलेन समं राजन्न किञ्चिद्वर्तते परम् ।
शास्त्रं योगीन्द्रवन्द्यं तत् सर्वसिद्धिप्रदायकम् ॥ १८ ॥

क्रतोः प्रसादमाहात्म्यान् मया ज्ञातमिदं परम् ।
शृणु नित्यं महाराज मौद्गलं सर्वमुद्गलम् ॥ १९ ॥

एवमुक्त्वा स्वयं विप्रः समारभत हर्षितः ।
मौद्गलं तं प्रणम्याऽऽदौ जगाद नृपसत्तमः ॥ २० ॥

सुमेधा उवाच ।

मुहूर्तं पश्य विप्रेश शुभदं तत्पुनः प्रभो ।
मौद्गलं कथयस्व त्वं सर्वसिद्धिकरं परम् ॥ २१ ॥

शाण्डिल्य उवाच ।

क्षणभङ्गुरदेहोऽयं न विश्वास्यो महीपते ।
विघ्नराजं स्मर त्वं वै तेन कालः शुभो भवेत् ॥ २२ ॥

गाणेशं नृपशार्दूल यत्किञ्चित् सर्वसिद्धिदम् ।
तत्र द्विविधभावेन स नरोत्तम आचरेत् ॥ २३ ॥

मुहूर्तं शुभमालोक्याथवा तं गणपं स्मरन् ।
समारभेन्न सन्देहो मान्यत्वं तु विचारय ॥ २४ ॥

एवमुक्तो नृपस्तेन तथेत्युक्त्वा स्त्रिया सह ।
शुश्राव मौद्गलं नित्यं शाण्डिल्याद्धर्मसंयुतः ॥ २५ ॥

ततः स्वल्पे गते काले गर्भयुक्तां निरीक्ष्य ताम् ।
पत्नीं महीपतिः सर्वैर्हर्षयुक्तो बभूव ह ॥ २६ ॥

पुत्रं सा सुषुवे साध्वी सर्वलक्षणसंयुतम् ।
राजा नित्यं सुहर्षेण शुश्रुवे मौद्गलं परम् ॥ २७ ॥

तदेकनिष्ठभावस्थो बभूवे नित्यमादरात् ।
अन्ते नगरसंयुक्तो जगाम गणपं परम् ॥ २८ ॥

तत्र दृष्ट्वा गणेशानं ब्रह्मीभूतो बभूव ह ।
जनैः सार्द्धं सुमेधास्तु पुराणश्रवणेन वै ॥ २९ ॥

शाण्डिल्योऽपि वनं गत्वा नित्यं विघ्नेशमाभजत् ।
गणेशाग्रे पुराणं स कथयामास मौद्गलम् ॥ ३० ॥

नित्यं भावसमायुक्तो मौद्गले तत्परोऽभवत् ।
शान्तियोगयुतो भूत्वाऽसेवत्तं गणनायकम् ॥ ३१ ॥

सर्वत्र सर्वमान्यः स बभूव ब्राह्मणाग्रणीः ।
अन्ते गणेश्वरं प्राप योगिवन्द्यो महायशाः ॥ ३२ ॥

तस्याश्रमो गणेशस्य क्षेत्रमाभूच्च सिद्धिदम् ।
दर्शनाद्यैर्महाविप्र सर्वसौख्यकरं परम् ॥ ३३ ॥

एवं नित्यजपे सक्ता मौद्गलस्य महामुने ।
इह भुक्त्वा प्रभोगांस्ते ब्रह्मभूता बभूविरे ॥ ३४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे मौद्गलनित्यश्रवणमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥