२९ मौद्गलश्रवणमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

राजाऽऽसीत् पुण्ड्रदेशस्य सुग्रीवः सर्वशास्त्रवित् ।
नानाधर्मपरः सोऽपि शास्त्रार्थज्ञो विचक्षणः ॥ १ ॥

तस्य देशे ह्यनावृष्टिर्बभूवे दुःखवर्धिनी ।
न ववर्ष कदा मेघस्ततो राजाऽतिदुःखितः ॥ २ ॥

इन्द्रस्य वरुणस्यैवानुष्ठाने तत्परोऽभवत् ।
ब्राह्मणैर्नित्यमत्यन्तं तोषयामास मेघपम् ॥ ३ ॥

ततो वै नव वर्षापि मेघः पापेन चेरितः ।
वीक्ष्यातिदुःखसंयुक्तः सुग्रीवोऽभूत्ततो नृपः ॥ ४ ॥

राजा राज्यं परित्यज विश्वामित्रं जगाम ह ।
पप्रच्छ तं प्रणम्याऽसौ मेघवृष्टिकरं परम् ॥ ५ ॥

तेन सङ्कथितं विप्र मौद्गलं शृणु भूमिप ।
देशे वृष्टिश्च सम्पूर्णा भविष्यति न संशयः ॥ ६ ॥

ततो राजा द्विजैस्तत्र लेखयित्वा च मौद्गलम् ।
ययौ स्वनगरं हृष्टस्तच्छुश्राव महामतिः ॥ ७ ॥

जनैः सार्धं समीपस्थैस्ततो वृष्टिर्बभूव ह ।
प्रारब्धे मौद्गले तत्र तत् दृष्ट्वा विस्मितो नृपः ॥ ८ ॥

सर्वे हर्षयुता लोका जाता पुण्ड्रनिवासिनः ।
राजा गणेश्वरं नित्यमभजद्भक्तिसंयुतः ॥ ९ ॥

[[७८]]

भाद्रे शुद्धप्रतिपदि समारभ्य स मौद्गलम् ।
शुश्राव नित्यमानन्दात् पुराणं सर्वसिद्धिदम् ॥ १० ॥

पुनर्भाद्रपदं प्राप्य परां शुक्लचतुर्थिकाम् ।
समाप्तं तत् स पञ्चम्यां चक्रे वै हर्षसंयुतः ॥ ११ ॥

अतिसंहर्षितो राजा श्रावणं प्राप्य सौख्यदम् ।
शुक्लप्रतिपदि प्राज्ञैः प्रारभन्मौद्गलं पुनः ॥ १२ ॥

नित्यं शुश्राव सुग्रीवो गाणपत्यपरायणः ।
आषाढ्यां स समाप्तं तदमायां प्रचकार ह ॥ १३ ॥

पुनः प्रारभ्य सुग्रीवो जनैः श्रेष्ठैः समन्वितः ।
शुश्राव वर्षमध्ये स एवं वार्षिकमाचरत् ॥ १४ ॥

प्रतिवर्षं महाभक्त्या शुश्रुवुः सर्वनागराः ।
भक्तियुक्ता गणेशानमभजन् दुःखवर्जिताः ॥ १५ ॥

न तत्र वान्ध्यदोषेण युक्तः कश्चिद्बभूव ह ।
न रोगशोकसंयुक्तः सुग्रीवे राज्यकर्तरि ॥ १६ ॥

सर्वसम्पत्समायुक्ता जनास्तत्र बभूविरे ।
रोगदोषादिभिर्भावैर्हीनाश्च भयवर्जिताः ॥ १७ ॥

ततः सर्वैः स राजर्षिर्जगाम नगरस्थितैः ।
गणेशं ब्रह्मभूतस्तैर्बभूवे परमद्युतिः ॥ १८ ॥

गच्छतो निजलोकं वै तस्याङ्गाद्वायुनाऽपरे ।
स्पृष्टा रौरवसंस्थास्ते पीडाहीना बभूविरे ॥ १९ ॥

तान् गृह्य गाणपा विप्र ब्रह्मीभूतान् प्रचक्रिरे ।
यमाद्या विस्मिताः सर्वे प्रशशंसुश्च मौद्गलम् ॥ २० ॥

विप्रवार्षिकमेवं ते कथितं श्रवणस्य यत् ।
मौद्गलस्य हि माहात्म्यं सर्वसिद्धिप्रदायकम् ॥ २१ ॥

सुग्रीवदेशगः कश्चिच्छ्रुत्वा वृत्तान्तमद्भुतम् ।
कुष्ठयुक्तो ययौ तत्र पुराणश्रवणार्थतः ॥ २२ ॥

वार्षिकं राजशार्दूलो समारभत भक्तितः ।
सोऽपि नित्यं प्रशुश्राव कुष्ठनाशार्थमुत्तमम् ॥ २३ ॥

श्रुत्वा कुष्ठविहीनः स बभूवे हर्षसंयुतः ।
जगाम स्वगृहं पद्भ्यां गृहकार्यरतोऽभवत् ॥ २४ ॥

भुक्त्वा भोगान् मनोज्ञान् सोऽन्ते जगाम गजाननम् ।
ब्रह्मीभूतो बभूवाऽपि श्रवणस्य फलेन वै ॥ २५ ॥

एवं सकृत् समाश्रुत्य मौद्गलं विविधा जनाः ।
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाययुः ॥ २६ ॥

तत्रैव कति ते ब्रूयां नालं वर्षशतैरपि ।
अतः सङ्क्षेपतः प्रोक्तं वर्षश्रवणजं फलम् ॥ २७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे वर्षेण मौद्गलश्रवणमाहात्म्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥

[[३०]]