२८ मुद्गलदक्षसंवादेमहोदरचरितमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

ब्राह्मणो वन्ध्यभावेन पीडितः कर्मणा पुरा ।
गार्ग्यवंशभवः कोऽपि नाम्ना शम्भुरितीरितः ॥ १ ॥

नानोपायाः कृतास्तेन वान्ध्यदोषप्रहारिणः ।
तथापि तस्य पुत्रो वा पुत्री द्विज बभूव न ॥ २ ॥

ततोऽतिदुःखसंयुक्तो गौतमं स जगाम ह ।
सस्त्रीकः पुत्रकामार्थं तं ननाम महामतिम् ॥ ३ ॥

गौतमेन मुनीन्द्रेण सत्कृतः शम्भुरावसत् ।
सेवार्थं स्वगुरोस्तत्र यत्नयुक्तो बभूव ह ॥ ४ ॥

एकदा सुखमासीनं गौतमं तं च भक्तितः ।
जगाद पुत्रप्राप्त्यर्थं वचनं स्वहितावहम् ॥ ५ ॥

शम्भुरुवाच ।
नाना यत्नाः कृताः स्वामिन् पुत्रप्राप्त्यर्थमादरात् ।
लभ्यते नैव सन्तानो मया किं वद कारणम् ॥ ६ ॥

येनोपायेन मे पुत्रो भविष्यति महामते ।
तमुपायं वद स्वामिन् करिष्यामि त्वदाज्ञया ॥ ७ ॥

त्वं गुरुर्मे परा काष्ठा परं त्वत्तो न विद्यते ।
तारयस्व महाभाग वान्ध्यदोषसमन्वितम् ॥ ८ ॥

तस्य तद्वचनं श्रुत्वा तं जगाद महामुनिः ।
गौतमः सर्वतत्त्वज्ञः शम्भुं दुःखसमन्वितम् ॥ ९ ॥

गौतम उवाच ।

मा कुरुष्व वृथा चिन्तां तव पुत्रा द्विजोत्तम ।
भविष्यन्ति त्रयः प्राज्ञा वेदज्ञा गणपप्रियाः ॥ १० ॥

शृणु त्वं मौद्गलं मत्तः सर्वसिद्धिप्रदायकम् ।
तेनानन्तभवस्थं ते पापं नश्येच्च तत्क्षणात् ॥ ११ ॥

पुण्यराशिः स्वयं साक्षाद्भविष्यसि च तारकः ।
अन्येषां नात्र सन्देहः सर्वसिद्धियुतस्तथा ॥ १२ ॥

अन्ते गणेश्वरं प्राप्य ब्रह्मीभूतो भविष्यसि ।
तिष्ठात्र ज्येष्ठमासेऽहं कथयिष्यामि मौद्गलम् ॥ १३ ॥

एवं तस्य वचः श्रुत्वा हर्षयुक्तो बभूव ह ।
सुशीलया स्त्रिया सा?र्द्धं तत्रैवं संस्थितोऽभवत् ॥ १४ ॥

ततः स्वल्पे गते काले ज्येष्ठमासः समाययौ ।
अन्ये मुनिगणास्तत्र श्रवणार्थं समाययुः ॥ १५ ॥

तान् दृष्ट्वा स्त्रीसमायुक्तः शम्भुश्चातीव हर्षितः ।
विधियुक्ततया सर्वे श्रोतारस्तत्परा बभुः ॥ १६ ॥

ज्येष्ठे शुक्ले प्रतिपदि गौतमो योगिनां वरः ।
समारभत् स हर्षेण मौद्गलं सर्वसिद्धिदम् ॥ १७ ॥

व्याख्यां चकार सर्वज्ञो मौद्गलस्य यथार्थतः ।
तच्छ्रुत्वा विस्मिताः सर्वे बभूवुः श्रवणे रताः ॥ १८ ॥

नित्यं नियमसंयुक्ताः शुश्रुवुर्भक्तिसंयुताः ।
तत्र कस्मिन् दिने विप्र बभूव परमाद्भुतम् ॥ १९ ॥

गर्दभस्तत्र दैवेन ह्याययौ त्वतिदुःखितः ।
ज्वरेण पीडितोऽत्यन्तं दूरे तस्थौ महामुने ॥ २० ॥

शुश्राव मौद्गलस्यैव श्लोकं ज्ञानविवर्जितः ।
पीडाहीनो बभूवाऽपि तत्र किञ्चित् स रासभः ॥ २१ ॥

हृदा समन्वितो भूत्वा तस्थौ श्रवणलालसः ।
ततो गौतमविप्रेण समाप्तं तत्कृतं मुदा ॥ २२ ॥

सर्वे स्वस्वक्रियां चक्रुः पुनः प्रातः समाययुः ।
गर्दभो दुःखहीनः स बभूवे तत्क्षणान् मुने ॥ २३ ॥

स ययौ स्वेच्छया युक्तः कालवेगान् ममार सः ।
तस्मिन् काले च तं नेतुं गाणेशाः प्रययुर्मुदा ॥ २४ ॥

तं गृह्य ब्रह्मभूतं ते चक्रुः श्रवणपुण्यतः ।
तं दृष्ट्वा देवविप्राद्याः स्वर्गस्था विस्मयं ययुः ॥ २५ ॥

[[७७]]

अथो शृणु महाभाग गौतमो हर्षनिर्भरः ।
आषाढ्यां पूर्णिमायां स समाप्तं तच्चकार ह ॥ २६ ॥

द्विजाद्यैः स प्रतिपदि चक्रे वै पारणं पुरा ।
सर्वे हर्षयुतास्तं ते नत्वा स्वस्वाश्रमं ययुः ॥ २७ ॥

शम्भुः सुशीलया सार्धं जगाम स्वाश्रयं ततः ।
गणेशमभजन्नित्यं ज्ञात्वा योगवपुर्धरम् ॥ २८ ॥

ततः स्वल्पे गते काले सुशीला गर्भसंयुता ।
बभूव तां प्रदृश्यैवाभवच्छम्भुः सुविस्मितः ॥ २९ ॥

ततः शुभे मुहूर्ते सा सुषुवे पुत्रमुत्तमम् ।
सर्वलक्षणसंयुक्तं सुता एवं त्रयोऽभवन् ॥ ३० ॥

वेदज्ञान् सर्वमान्यांश्च गाणपत्यपरायणान् ।
तान् दृष्ट्वा विस्मितः शम्भुर्गुरुं सस्मार गौतमम् ॥ ३१ ॥

मौद्गले तत्परः सोऽपि बभूवे नित्यमादरात् ।
अन्ते विघ्नेश्वरं प्राप तल्लीनः प्रबभूव ह ॥ ३२ ॥

नाना जना गणेशानं लेभिरे मौद्गलस्य च ।
श्रवणेन च पाठेन मुने तेषु कति ब्रुवे ॥ ३३ ॥

एतत्ते कथितं विप्र ज्येष्ठात् सा?र्द्धैकमासके ।
मौद्गलश्रवणस्यैव माहात्म्यं स्वल्पभावतः ॥ ३४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादेमहोदरचरितमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः॥