२७ श्रवणमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

महायोगी भाद्रपदे पुलस्त्यो गणपे रतः ।
प्रतिपत्तो गणेशं सम्पूज्यारभत मौद्गलम् ॥ १ ॥

तत्र विप्रादयो विप्र श्रवणार्थं समाययुः ।
यथाविधि जनाः सर्वे शुश्रुवुर्भक्तितत्पराः ॥ २ ॥

अर्थेन संयुतं नित्यं मौद्गलं मुनिसत्तमः ।
कथयामास हर्षेण गणेशार्थविचक्षणः ॥ ३ ॥

तत्र सर्पो बिले संस्थः शुश्राव भयसंयुतः ।
कस्मिंश्चिद्दिवसे विप्र भाग्येन प्रेरितः पुरा ॥ ४ ॥

मुनयः सुष्वुपुः सर्वे रात्रौ सर्पो बहिः शनैः ।
निर्जगाम ययौ मार्गे स्वेच्छया सुखसंयुतः ॥ ५ ॥

[[७५]]

वनस्थो नकुलः कश्चित्तं ददर्श भुजङ्गमम् ।
आययौ हन्तुमावेशात्तयोर्युद्धं बभूव ह ॥ ६ ॥

नकुलेन बलाढ्येन हतं सर्पं वनान्तरे ।
तं गृह्य गाणपाः सद्यो ब्रह्मभूतं प्रचक्रिरे ॥ ७ ॥

तं ज्ञात्वा विस्मिताः सर्वे देवेन्द्राद्या महामते ।
परस्परं समूचुस्ते साश्रुनेत्रा महर्षयः ॥ ८ ॥

अहो मौद्गलमाहात्म्यं वक्तुं सर्वैर्न शक्यते ।
सर्पोऽज्ञानाच्च स श्रुत्वा किञ्चिद्ब्रह्ममयोऽधुना ॥ ९ ॥

सम्पूर्णं मौद्गलं यैस्तु संश्रुतं तैः प्रलभ्यते ।
न ज्ञायते विशेषेण किं विशिष्टमतः परम् ॥ १० ॥

सम्पूर्णं मौद्गलं यैश्च संश्रुतं ते गणेश्वराः ।
ज्ञातव्या लोकनाथा वै पावनार्थं भवन्त्यतः ॥ ११ ॥

नरजन्मधरो यः स्यान् मौद्गलं न शृणोति चेत् ।
वञ्चितो मायया पूर्णो वृथा धिक् तस्य जीवितम् ॥ १२ ॥

विघ्नराज नमस्तुभ्यं देहि जन्म धरातले ।
नित्यं मौद्गलसंसक्तान् कुरु नो मानवान् किल ॥ १३ ॥

धिक् स्वर्गं देवदेवेशान् यत्र कर्मफलं न च ।
क्रियते देवदेवेशैः कर्म तद्व्यर्थतां ययौ ॥ १४ ॥

अहो कीटपतङ्गादि योनौ जन्मधरो भवेत् ।
भारते साधुसङ्गेन ब्रह्मीभूतो भविष्यति ॥ १५ ॥

सर्पोऽयं नरवाक्हीनो न जानाति किमप्यहो ।
मनुष्यवाग्भवं भावं तथा शुश्राव मौद्गलम् ॥ १६ ॥

तेनैव ब्रह्मभूतोऽयं ततः स्वानन्दके पुरे ।
किं पुनर्नरजातिस्थो प्राप्नुयान्न गजाननम् ॥ १७ ॥

एवमुक्त्वाऽमराद्यास्तं स्वं स्वं स्थानकमाययुः ।
अधुना प्रकृतं वच्मि सर्वसौख्यकरं परम् ॥ १८ ॥

आश्विन्यां पूर्णिमायां च तत् समाप्तं बभूव ह ।
मौद्गलं हर्षसंयुक्ताः श्रोतारस्तं पुपूजिरे ॥ १९ ॥

सर्वैः साकं महायोगी पारणं स चकार ह ।
ततः सर्वान् प्रतिपदि विससर्ज महायशाः ॥ २० ॥

तदाज्ञया ययुः सर्वे स्वस्वमाश्रमकं मुने ।
गणेशभजने सक्ता बभूवुः सर्वभावतः ॥ २१ ॥

इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाययुः ।
बभूवुर्ब्रह्मभूतास्ते परं दृष्ट्वा गणेश्वरम् ॥ २२ ॥

इति ते सर्वमाख्यातं यशः सार्धैकमासजम् ।
मौद्गलश्रवणाज्जातं भाद्रमासादिसम्भवम् ॥ २३ ॥

एवं त्वनन्तरूपाश्च जन्तवो ब्रह्म लेभिरे ।
न वक्तुं शक्यते तत्र मौद्गलश्रवणेन वै ॥ २४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादेभाद्रपदादिसार्धैकमास श्रवणमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥