॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
भीमो नामाऽभवद्वैश्यः सर्वधर्मविवर्जितः ।
अङ्गदेशे महापापी दर्शनात् पुण्यनाशकृत् ॥ १ ॥
स कदाचिद्वने संस्थो बभूवे चौर्यकारणात् ।
तत्राऽऽजगाम राजर्षिः सैन्ययुक्तो विदर्भपः ॥ २ ॥
तं दृष्ट्वा त्यज्य शस्त्राणि भीमः पापपरायणः ।
महावनान्तरं गत्वा तस्थौ प्राणपरीप्सया ॥ ३ ॥
तत्र मेधातिथिर्माघशुक्लप्रतिपदि द्विजः ।
प्रारभ्य मुनिसंयुक्तो मौद्गलं कथितुं रतः ॥ ४ ॥
तत्राऽऽजगाम तान् दृष्ट्वा वैश्यः पापरतो मुने ।
भयात् समीपगस्तेषां संस्थितः शस्त्रवर्जितः ॥ ५ ॥
राजा समाययौ तत्र ननाम मुनिपुङ्गवम् ।
मेधातिथिं ततः सर्वान् मुनीन् भावसमन्वितः ॥ ६ ॥
पुनः प्रणम्य स्वस्थानं ययौ भानुर्विदर्भपः ।
वैश्यो मुनिवने तत्र सुष्वाप विनयान्वितः ॥ ७ ॥
[[७४]]
प्रातः काले पुनः स्नात्वा कृत्वा नित्यक्रियां द्विजाः ।
मौद्गलं श्रोतुकामास्ते आययुर्हषसंयुताः ॥ ८ ॥
तैः साकं भीमवैश्योऽपि राजभीत्या समाययौ ।
शुश्राव मौद्गलं तत्र पुराणं विस्मितोऽभवत् ॥ ९ ॥
मौद्गलस्य पुराणस्य श्रवणेन दुरात्मनः ।
बुद्धिभेदो बभूवाऽपि स तत्रैव स्थितोऽभवत् ॥ १० ॥
विचारमकरोच्चित्ते भीमः पापपरायणः ।
अहो वैश्योऽहमानन्दात् किं करोमि दुरात्मवान् ॥ ११ ॥
पापिनो नरकं यान्ति नरा नास्त्यत्र संशयः ।
नरदेहं समासाद्य धर्मं कुर्यात् स मानवः ॥ १२ ॥
एवं विचार्य तत्रैव मौद्गलश्रवणे रतः ।
त्यक्त्वा स्त्रीपुत्रकाद्यं स गणेशे लालसोऽभवत् ॥ १३ ॥
फाल्गुन्यां पूर्णिमायां तत् पुराणं पूर्णमाभवत् ।
मेधातिथिः प्रतिपदि द्विजान् सम्भोज्य हर्षितः ॥ १४ ॥
स कृत्वा पारणं सर्वान् विसृज्य गणपे रतः ।
नित्यं गणेश्वरं भक्त्या पूज्य भक्तिपरोऽभवत् ॥ १५ ॥
भीमः स्वगृहमागत्य त्यक्त्वा पापात्मकं परम् ।
कर्म स्वधर्मसंयुक्तो बभूव गणपे रतः ॥ १६ ॥
मौद्गलश्रवणेनैव सर्वपापविवर्जितः ।
बभूव धर्मशीलश्च गाणपत्यो महायशाः ॥ १७ ॥
शरीरान्ते गणेशानमगमद्वैश्यजः परम् ।
ब्रह्मभूतो बभूवाऽपि दृष्ट्वा विघ्नेश्वरं मुने ॥ १८ ॥
मौद्गलं सततं श्रुत्वा चैवं नानाजनादयः ।
बभूवुः पुण्यशीलाश्च किल ब्रह्मणि तन्मयाः ॥ १९ ॥
तत्राऽहं कति ते ब्रूयां शक्तो वक्तुं न को भवेत् ।
नानेन सदृशं किञ्चिज्जानीहि त्वं महामुने ॥ २० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे माघादिसार्धमासे मौद्गलपुराणश्रवणमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥