॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
आदौ गणेश्वरं स्मृत्वा परं सृष्ट्वा विकल्पकम् ।
तेजस्विनं महाभागाः कथं नेच्छथ तं पुनः ॥ १ ॥
शरणं मां प्रपन्नानां करिष्यामि प्रियं हि वः ।
स्थीयतां सन्निधानेऽत्र विकल्पः किं करिष्यति ॥ २ ॥
महर्षयः कश्यपाद्या मुद्गलेन शिवादयः ।
आश्वासिताः स्थितास्तत्र सुखयुक्ता बभूविरे ॥ ३ ॥
मुद्गलस्याश्रमे तस्य प्रवेशो नैव विद्यते ।
विकल्पस्य महाभाग तेन निःसंशया बभुः ॥ ४ ॥
विकल्पेन च वृत्तान्तो ज्ञातो देवर्षिसम्भवः ।
क्रोधयुक्तः स्वयं हन्तुमाययौ मुद्गलाश्रमम् ॥ ५ ॥
[[७२]]
आगतं तं समालोक्य विकल्पं भयदायकम् ।
देवेन्द्रा मुद्गलं तत्र जगुर्भयसमन्विताः ॥ ६ ॥
देवेन्द्रा ऊचुः ।
विकल्पः क्रोधसंयुक्त आगतः स महामते ।
तवाश्रमेऽधुना विप्र यत्करिष्यसि तत् कुरु ॥ ७ ॥
तेषां वचनमाकर्ण्य मुद्गलस्तानथाब्रवीत् ।
चिन्तां मा कुरुत प्राज्ञा हनिष्यामि विकल्पकम् ॥ ८ ॥
एवमुक्त्वा स्वयं योगी मुद्गलस्तमथाऽऽययौ ।
विकल्पं तेजसा युक्तं सर्वसंशयकारकम् ॥ ९ ॥
उवाच तं महायोगी मुद्गलः परमार्थवित् ।
दयायुक्तः स्वभावेन प्रेरितो गणपेन सः ॥ १० ॥
मुद्गल उवाच ।
किमर्थमागतोऽसि त्वं विकल्पं ब्रूहि साम्प्रतम् ।
तत्र गच्छ रुचिर्यत्र नोचेद्भस्म भविष्यसि ॥ ११ ॥
मुद्गलस्य वचः श्रुत्वा विकल्पः क्रोधसंयुतः ।
जगाद स महाविप्रं प्रदहन्निव तेजसा ॥ १२ ॥
विकल्प उवाच ।
मां दृष्ट्वा विष्णुशम्भ्वाद्या वसिष्ठाद्या महर्षयः ।
संशयेन समायुक्ता बभूवुस्तत्क्षणान् मुने ॥ १३ ॥
त्वां न जानामि योगीन्द्रं स्थितः कुत्रासि वाडव ।
विजेतारं वदसि मां सर्वेषां मूर्खवद्वचः ॥ १४ ॥
मया चराचरं सर्वं मदधीनं कृतं किल ।
अधुना त्वां हनिष्यामि परं मद्द्वेषकारकम् ॥ १५ ॥
त्वया देवेन्द्रमुख्याश्च देवा मुनिसमन्विताः ।
विकल्पेन विहीना वै कृताः कस्माद्वदस्व माम् ॥ १६ ॥
गर्वं हन्तुं समायातं त्वदीयं मुद्गलाश्रमम् ।
जानीहि त्यज सर्वांस्त्वं नोचेद्भस्म भविष्यसि ॥ १७ ॥
विकल्पस्य वचः श्रुत्वा क्रोधयुक्तो महामुनिः ।
सस्मार गणपं चित्ते विकल्पस्य वधाय सः ॥ १८ ॥
तस्य स्मरणमात्रेण चित्तान् मुद्गलयोगिनः ।
अग्निः प्रलयकृत्तत्र निःसृतः सर्वदाहकः ॥ १९ ॥
अग्निर्ययौ महाक्रूरं विकल्पं क्रोधसंयुतः ।
खलं दर्शनमात्रेण दाहयुक्तं चकार सः ॥ २० ॥
ततः शान्त्यर्थमत्यन्तं यत्नं चक्रे स शौनक ।
विकल्पश्च ततोऽत्यन्तमग्निस्तेजोयुतोऽभवत् ॥ २१ ॥
अतिदाहयुतः सोऽपि विकल्पः खेदसंयुतः ।
गर्वं त्यक्त्वा महाविप्रमनमन् मुद्गलं पुरः ॥ २२ ॥
जगाद भयभीतः स रक्ष मां मुनिसत्तम ।
तेजसा ते प्रदग्धं तु शरणागतवत्सल ॥ २३ ॥
शिवविष्णुमुखाः सर्वे विप्रा वासिष्ठमुख्यकाः ।
जिता मया न सन्देहः स्वल्पायासेन योगिप ॥ २४ ॥
त्वं किं साक्षाद्गणेशान आगतोऽसि न संशयः ।
त्वां जेतुं न समर्थोऽहमतस्ते शरणं गतः ॥ २५ ॥
रक्ष रक्ष दयासिन्धो दाहयुक्तं विशेषतः ।
तेजसा ते प्रणष्टं मां ?कृतमागः क्षमस्व मे ॥ २६ ॥
विकल्पं व्याकुलं दृष्ट्वा दयायुक्तो बभूव ह ।
मुद्गलो गणपाज्जातमग्निं शान्तं चकार ह ॥ २७ ॥
ततः सञ्ज्ञासमायुक्तो विकल्पस्तमुवाच ह ।
स्वस्थचित्तः प्रणम्यादौ मुद्गलं योगिनां वरम् ॥ २८ ॥
विकल्प उवाच ।
जितोऽहं च त्वया विप्र रक्षितोऽग्नेर्भयात्तथा ।
अधुना ते समाधीनस्तिष्ठामि त्वत्समीपगः ॥ २९ ॥
स्थानं देहि महाभाग तत्र स्थास्यामि निश्चलः ।
तवाज्ञावशगो भूत्वा तव दासोऽहमञ्जसा ॥ ३० ॥
[[७३]]
तस्य तद्ववचनं श्रुत्वा ध्यानयुक्तो बभूव ह ।
ज्ञात्वा विघ्नेश्वरस्यैव कृत्यं तं स मुदाऽब्रवीत् ॥ ३१ ॥
मुद्गल उवाच ।
योगाकारं गणेशानं न जानन्ति नराधमाः ।
देहधारिसमं तं ये मानयन्ति गुणोद्भवम् ॥ ३२ ॥
तेषां हृदि बहिः स्थित्वा तिष्ठ त्वं सर्वदा मुदा ।
नानासंशयसंयुक्तांस्तान् कुर्वन् सविशेषतः ॥ ३३ ॥
मौद्गलं संशयेनैव युक्तं कुरु मदाज्ञया ।
तेषां हृदि समास्थाय योगिनां गणपद्विषाम् ॥ ३४ ॥
गणेशं योगरूपं ये मानयन्ति विकल्पक ।
योगिनोऽयोगिनो वाऽपि ते त्याज्याः सर्वदा त्वया ॥ ३५ ॥
मौद्गले श्रद्धया युक्ता भविष्यन्ति सदा मुदा ।
गाणेशा योगिनो नान्ये जानीहि मम वाक्यतः ॥ ३६ ॥
एवमुक्त्वा महायोगी मुद्गलो विरराम ह ।
विकल्पस्तं तथेत्युक्त्वा प्रणम्य स्वस्थलं ययौ ॥ ३७ ॥
ततो हर्षयुता देवा मुनयस्तं प्रणम्य च ।
मुद्गलं स्वस्थलं जग्मुः कर्मयुक्ता जना बभुः ॥ ३८ ॥
तदहान् मौद्गलं विप्र सेव्यते नैव जन्तुभिः ।
दोषयुक्तैर्विशेषेण विकल्पेन समन्वितैः ॥ ३९ ॥
कलावत्यन्तभावेन मौद्गलं नष्टकं भवेत् ।
दोषयुक्ता जनास्तत्र भविष्यन्ति गृहे गृहे ॥ ४० ॥
योगिनो मौद्गलं नित्यं सेवन्ते भावसंयुताः ।
गणेशरूपबोधे ये चतुराः सर्वपावनाः ॥ ४१ ॥
नान्ये पाखण्डिनो लुब्धा नाना छद्मधरा भुवि ।
मोहयुक्ता विशेषेण भविष्यन्ति तु मौद्गलम् ॥ ४२ ॥
एवं देवैः कृतो विघ्नो गणेशानेन प्रेरितैः ।
मुनिभिर्मौद्गले तेनाऽभवन् जन्मयुता नराः ॥ ४३ ॥
एतत्ते कथितं सर्वं रहस्यं परमाद्भुतम् ।
शृणुयाच्छ्रावयेद्यस्तु विकल्परहितो भवेत् ॥ ४४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे विकल्पप्रतापखण्डनं नाम पञ्चविंशोऽध्यायः ॥