॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
चित्रं त्वं सूत वदसि न श्रुतं कुत्रचिन् मया ।
एकं श्लोकपदं श्रुत्वा नरो ब्रह्ममयोऽभवत् ॥ १ ॥
अहो पापसमाचारश्चाण्डालः श्लोकसम्भवम् ।
मौद्गलस्य पदं श्रुत्वा ब्रह्मभूतो बभूव ह ॥ २ ॥
अतो मौद्गलजं पूर्णं माहात्म्यं कीदृशं भवेत् ।
तद्वदस्व दयासिन्धो सर्वसंशयनाशनम् ॥ ३ ॥
सूत उवाच ।
चाण्डालं गृह्य गाणेशा ययुः स्वनगरं प्रति ।
तत् दृष्ट्वाऽऽश्चर्यसंयुक्तो यमो वेधसमागमत् ॥ ४ ॥
प्रणम्य स विधातारं जगदे वाक्यमुत्तमम् ।
विनयेन समायुक्तस्तेन सम्मानितो यमः ॥ ५ ॥
धर्म उवाच ।
मौद्गलस्य च माहात्म्यमद्भुतं दृश्यते मया ।
न दृष्टं न श्रुतं नाथ कुत्रचित् सर्वसिद्धिदम् ॥ ६ ॥
चाण्डालः पापकर्मा कः श्रुत्वैकं श्लोकजं पदम् ।
ब्रह्मभूतो बभूवाऽपि किमिदं कौतुकं विधे ॥ ७ ॥
एवं सर्वजना ब्रह्मन्नज्ञानेन समन्विताः ।
ज्ञानयुक्ता गमिष्यन्ति स्वानन्दं विविधात्मकाः ॥ ८ ॥
विश्वं चराचरं श्रुत्वा क्षीणं सद्यो भविष्यति ।
अतो यत्नपरो भूत्वा विश्वं रक्ष सुखप्रदम् ॥ ९ ॥
[[७०]]
माहात्म्यं कीदृशं चास्य मौद्गलस्य त्वया कृतम् ।
न ज्ञायते मया स्वामिन् वदाऽपारं किमात्मकम् ॥ १० ॥
धर्मस्य वचनं श्रुत्वा तं जगाद पितामहः ।
निःश्वस्य शृणु विप्रेश वचनं देवपालकम् ॥ ११ ॥
ब्रह्मोवाच ।
गणेशेन स्वभक्त्यर्थं रचितं मौद्गलं परम् ।
भक्त्या सम्प्रार्थितेनेदं सर्वसिद्धिप्रदायकम् ॥ १२ ॥
तस्य माहात्म्यमुख्यं वै को जानाति रवेः सुत ।
किं करोमि न जानामि मौद्गलस्य प्रखण्डनम् ॥ १३ ॥
एवमुक्त्वा स्वयं ब्रह्मा देवान् सस्मार मुख्यकान् ।
विप्रेन्द्रांस्ते समायाताः पप्रच्छुः कारणं परम् ॥ १४ ॥
तेषामग्रे यथावृत्तं कथयामास विस्तरात् ।
धर्मेण संयुतो ब्रह्मा वृत्तान्तं मौद्गले भवम् ॥ १५ ॥
श्रुत्वा ते खेदसंयुक्ता बभूवुर्मुनिसत्तम ।
तत्र विष्णुश्च तान् प्राह विचार्य हितकारकम् ॥ १६ ॥
विष्णुरुवाच ।
तु?लां कुरु विधातस्त्वं मौद्गलेन समं भवेत् ।
साधनेषु यथा सर्वं हितमात्रं भविष्यति ॥ १७ ॥
तच्छ्रुत्वा विविधान्येव साधनानि प्रगृह्य सः ।
एकत्र स्थापयामासैकत्र मौद्गलकं परम् ॥ १८ ॥
तानि सर्वाणि तेनैव न समानि बभूविरे ।
मौद्गलेन महाभाग एकभावप्रधारणात् ॥ १९ ॥
ततः खेदयुताः सर्वे विचारं चक्रुरादरात् ।
मौद्गलेन जितं सर्वं करिष्यामः किमञ्जसा ॥ २० ॥
अस्य सेवनमात्रेण जन्तवो विविधात्मकाः ।
भुक्त्वा भोगान् गमिष्यन्ति यथा ब्रह्मणि योगिनः ॥ २१ ॥
स्वल्पकालेन विश्वं वै नष्टं सर्वं भविष्यति ।
विहारेण विहीनाश्च भवाम ह वयं ततः ॥ २२ ॥
को विघ्नो मौद्गलस्यैव कर्तव्यो येन मानवाः ।
त्यक्त्वा पुराणं देवाद्याः भविष्यन्त्यन्यचेतसः ॥ २३ ॥
ततः शम्भुः स्वयं प्राह भावि यत्तद्भविष्यति ।
मा कुरुध्वं महाविघ्नं मौद्गलस्य विचक्षणाः ॥ २४ ॥
अस्मै विघ्नप्रदाने तु क्रोधयुक्तो गजाननः ।
सन्धक्ष्यति जगत् सर्वं सेश्वरं नात्र संशयः ॥ २५ ॥
शिवस्य वचनं श्रुत्वा भययुक्ताः सुरर्षयः ।
बभूवुस्तत्र जीवस्तानुवाच गणपं स्मरन् ॥ २६ ॥
बृहस्पतिरुवाच ।
गणेशेन महेशाद्या इदं रचितमुत्तमम् ।
विश्वं नानास्वभावस्थं मौद्गलं तु न संशयः ॥ २७ ॥
मौद्गले गणनाथस्य वचनं वर्तते परम् ।
महालयान्तमेवेदं विश्वं भाति निरन्तरम् ॥ २८ ॥
अन्यच्च मौद्गलस्यैव कदा विघ्नं भविष्यति ।
तदेव न भवेन्मिथ्या वचनं मुनिसत्तमाः ॥ २९ ॥
अतो गणेश्वरं प्रार्थ्य विघ्नं कुरुत देवपाः ।
मौद्गलस्य गणेशानः क्षुब्धो नात्र भविष्यति ॥ ३० ॥
बृहस्पतेर्वचः श्रुत्वा देवा हर्षसमन्विताः ।
मुनयस्तं महाभागं साधु साध्वब्रुवन् वचः ॥ ३१ ॥
ततस्तं विघ्नराजं ते तुष्टुवुः करसम्पुटाः ।
नानास्तोत्रैर्गणाध्यक्षं प्रसन्नं चक्रुरादरात् ॥ ३२ ॥
जगाद तान् स्वयं देवः खवाणीमयरूपधृक् ।
सृष्ट्वा विकल्पं देवेशा भविष्यथ सुखे रताः ॥ ३३ ॥
ततो ब्रह्मा गणेशानं स्मृत्वाऽसृजत तत्क्षणात् ।
विकल्पं संशयाकारं महातेजोयुतं खलम् ॥ ३४ ॥
[[७१]]
तं दृष्ट्वा देवमुख्या ये देवा विप्रादयोऽपरे ।
सद्यस्ते संशयेनैव युक्ता विप्र बभूविरे ॥ ३५ ॥
किं मौद्गलेन विघ्नेशः प्रसन्नो वा भविष्यति ।
गणेशो ब्रह्मणां नाथः कथं देहधरोऽभवत् ॥ ३६ ॥
रुच्यर्थं कथितं सर्वं वेदादिषु न संशयः ।
ब्रह्म ब्रह्मणि संस्थं तत् सर्वमान्यं विशेषतः ॥ ३७ ॥
एवमुक्त्वा ययुः सर्वे स्वे स्वे स्थाने महामुने ।
मोहिता मायया तस्य विकल्पस्य महाद्भुतम् ॥ ३८ ॥
किमर्थमागताः सर्वे किं कृतं सस्मरुर्न ते ।
विकल्पेन समायुक्ता बभूवुर्भ्रान्तचेतसः ॥ ३९ ॥
ततस्ते मौद्गलं त्यक्त्वा स्थिताः सर्वे विशेषतः ।
नानाभावपरा विप्र चक्रुः स्वस्वक्रियां पुनः ॥ ४० ॥
विकल्पस्तान् विलोक्यैव हर्षयुक्तो बभूव ह ।
प्रससार त्रिलोकेषु नानासंशयकारकः ॥ ४१ ॥
तेन सर्वे जनास्त्यक्त्वा मौद्गलं विप्र संस्थिताः ।
एवं क्रमेण नष्टं तत् पुराणं प्रबभूव ह ॥ ४२ ॥
अन्यानि तु पुराणानि वेदाः सर्वाणि मुख्यकाः ।
नष्टानि नष्टवत् कुत्र स्थितानि स्वल्पभावतः ॥ ४३ ॥
ततः कर्मविहीनं तु बभूव सचराचरम् ।
देवा दुःखयुताः सर्वे विकल्पं योद्धुमाययुः ॥ ४४ ॥
विकल्पेन जिताः सर्वे नष्टवीर्या बभूविरे ।
ततो गजाननं देवं तुष्टुवुस्तद्वधाय ते ॥ ४५ ॥
पुनराकाशवाणीस्थो जगादैतान् गजाननः ।
मुद्गलाज्ञावशा भूत्वा क्रियां कुरुत मा चिरम् ॥ ४६ ॥
विकल्पो वशगस्तेन भविष्यति न संशयः ।
एवमुक्त्वा गणाधीशो विरराम च शौनक ॥ ४७ ॥
ततस्ते हर्षसंयुक्ताः शिवविष्णुमुखाऽमराः ।
कश्यपाद्या ययुस्तं तु मुद्गलं योगिनां वरम् ॥ ४८ ॥
प्रणम्य भावसंयुक्ताः पप्रच्छुः करसम्पुटाः ।
विकल्पजयदं पूर्णमुपायं स्वहितप्रदम् ॥ ४९ ॥
तेषां वचनमाकर्ण्य प्रहस्याऽऽपूज्य तान् स्वयम् ।
जगाद वचनं योगी मुद्गलो मायया युतान् ॥ ५० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुगलसंवादे विकल्पविजयो नाम चतुर्विंशोऽध्यायः ॥