॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
ब्राह्मणः सुमतिर्नाम कुष्ठयुक्तो बभूव ह ।
सम्भूतो गालवे वंशे पीडां लेभे सुदारुणाम् ॥ १ ॥
सर्वाङ्गे भक्षितः कीटैः सदा दुर्गन्धसंयुतः ।
पूयशोणितघर्माद्यैर्व्याप्तः सर्वत्र विप्रप ॥ २ ॥
ततः सोऽपि स्वदेहस्य घातार्थं उद्यतोऽभवत् ।
सस्मार गणपं चित्ते विघ्नहीनार्थमादरात् ॥ ३ ॥
एतस्मिन्नन्तरे तत्राजगाम द्विजसत्तमः ।
धौम्यः सर्वार्थवित् साक्षाज्जातवेदा इवापरः ॥ ४ ॥
तं दृष्ट्वा प्रणनामादौ रुरुदे दुःखसंयुतः ।
सुमतिं तं प्रदृश्यैव धौम्योऽगादीत् स सौख्यदम् ॥ ५ ॥
धौम्य उवाच ।
मा चिन्तां कुरु मा देहघातं कुरु महामते ।
मौद्गलं शृणु भावेन रोगहीनो भविष्यसि ॥ ६ ॥
सर्वसिद्धिकरं पूर्णं ब्रह्मीभूतत्वदायकम् ।
मौद्गलं श्रवणेनैव चल शीघ्रं मया सह ॥ ७ ॥
एवमुक्त्वा जनैस्तस्य तं गृह्य मुनिसत्तमः ।
जगाम पुलहं धौम्यो नानामुनिजनैर्वृतम् ॥ ८ ॥
तत्र ज्येष्ठः समायातो मासः सर्वार्थसिद्धिदः ।
स्वल्पकालेन योगीशः पुलहो हर्षितोऽभवत् ॥ ९ ॥
शुक्लप्रतिपदि पारायणं प्राज्ञः समारभत् ।
मौद्गलस्य पुराणस्य नानाजनसमन्वितः ॥ १० ॥
उपोषणसमायुक्ता बभूवुस्ते महामुने ।
श्रवणे तत्पराः सर्वे पुलहश्च तथाऽभवत् ॥ ११ ॥
सुमतिर्धौम्यसंयुक्तस्तथाभूतो महामतिः ।
गणेशं मनसि ध्यात्वा परं शुश्राव मौद्गलम् ॥ १२ ॥
चतुर्भिर्दिवसैः सोऽपि समाप्तं तच्चकार ह ।
पञ्चम्यां पारणं सर्वैश्चकार गणपे रतः ॥ १३ ॥
सुमतिः कुष्ठहीनः स बभूवे तत्क्षणान् मुदा ।
तं दृष्ट्वा हर्षसंयुक्ता विस्मितास्ते बभूविरे ॥ १४ ॥
धौम्येनानम्य पुलहं स्वाश्रमं स समाययौ ।
तत्र धौम्यं प्रपूज्यादौ जगाद सुमतिर्वचः ॥ १५ ॥
सुमतिरुवाच ।
अस्य देहस्य कर्ता च पिता माता महामुने ।
त्वमेव मे न सन्देहः किं करोमि त्वदीप्सितम् ॥ १६ ॥
देहोऽयं मे मया विप्र तवाधीनः कृतः सदा ।
शाधि मां तदहं नित्यं करिष्यामि विशेषतः ॥ १७ ॥
धौम्य उवाच ।
गणेशं भज भावेन मौद्गलेन समन्वितम् ।
तेन मां कृतकृत्यं त्वं करिष्यसि न संशयः ॥ १८ ॥
एवमुक्त्वा महायोगी धौम्यः स्वाश्रमगोऽभवत् ।
सुमतिर्गणनाथं स मौद्गलेनाऽभजत् सदा ॥ १९ ॥
अन्ते ब्रह्ममयो जातो भुक्त्वा भोगान् यथेप्सितान् ।
एवं ज्येष्ठाभिधे मासे पारायणफलं परम् ॥ २० ॥
अथान्यच्छृणु धर्मज्ञ वृत्तान्तं तत्र सम्भवम् ।
पुलहो हर्षसंयुक्तश्चक्रे पारायणं परम् ॥ २१ ॥
तत्र कश्चित्तु चाण्डाल आययौ स यदृच्छया ।
दूर स्थितः पश्यति स्म किमिदं कौतुकं महत् ॥ २२ ॥
दूरस्थेन श्रुतं तेन श्लोकस्य पदमुत्तमम् ।
एकं सम्पूर्णभावेन भक्तसंरक्षकस्य च ॥ २३ ॥
ततः स विस्मितो भूत्वा जगाम स्वेच्छयेरितः ।
पापकर्मा पुनः पापं चकार विविधं मुने ॥ २४ ॥
मृतं तं यमदूताश्च गृह्य सर्वे त्वरान्विताः ।
जग्मुर्देवं प्रणम्यादौ ददुस्तं पापकारकम् ॥ २५ ॥
[[६९]]
तत्रोवाच महाबुद्धिश्चित्रगुप्तो यमं वचः ।
महापापी महाभाग चाण्डालोऽयं विशेषतः ॥ २६ ॥
न पुण्यस्य कदा लेशश्चाण्डालेन कृतः प्रभो ।
मौद्गलस्य पदं नाथ श्रुतमेकमनेन च ॥ २७ ॥
एतत् सर्वं मया तुभ्यं कथितं तस्य चेष्टितम् ।
कुरु यद्धर्मसंयुक्तं दण्डरूपं महामते ॥ २८ ॥
चित्रगुप्तवचः श्रुत्वा धर्मो ध्यात्वा गजाननम् ।
विचारमकरोच्चित्ते किं करोमि सुखप्रदम् ॥ २९ ॥
एतस्मिन्नन्तरे तत्र सत्या वाक् तमुवाच ह ।
प्रदृश्य नरकानेव चाण्डालाय महामते ॥ ३० ॥
सन्तर्ज्य स्वर्गभूमीषु स्थापयस्व यथा सुखम् ।
तथा चकार संहर्षाद्धर्मराजः प्रतापवान् ॥ ३१ ॥
स्वस्थाने भोगसंयुक्तं कृत्वा तं स्थाप्य सूर्यजः ।
संस्थितस्तत्र चित्रं वै बभूवे परमाद्भुतम् ॥ ३२ ॥
गाणेशास्तं प्रगृह्यैव ययुः स्वानन्दकं पुरम् ।
धर्मादयस्ततः सर्वे विस्मिताः सम्बभूविरे ॥ ३३ ॥
एवमेकपदस्यैव मौद्गलश्लोकगस्य यत् ।
श्रवणेन फलं प्रोक्तमतः किं वर्णयाम्यहम् ॥ ३४ ॥
एवं ज्येष्ठाभिधे मासि श्रुत्वा पारायणं नराः ।
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाययुः ॥ ३५ ॥
तत्र वक्तुं मया विप्र शक्यते न कदाचन ।
वर्षायुतैस्ततस्तुभ्यं कथितं लेशतः परम् ॥ ३६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे ज्येष्ठमासपारायणमाहात्म्यवर्णनं नाम त्रयोविंशोध्यायः ॥