॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
क्षत्रियो माधवः कश्चिन् मालवे सम्बभूव ह ।
अवन्तीनगरीपालः स्वधर्मनिरतः सदा ॥ १ ॥
काम्बोजः कर्णको राजा तत्र युद्धार्थमाययौ ।
जित्वा भूपमवन्त्यां वै राज्यं चक्रे स हर्षितः ॥ २ ॥
सस्त्रीकः पुत्रसंयुक्तः प्रधानैर्वीरमुख्यकैः ।
बभ्राम स वने राजा यत्र तत्र सुदुःखितः ॥ ३ ॥
ततो महावनं वीरो ददर्श व्याघ्रसंयुतम् ।
नानापशुयुतं तत्र प्रविवेश सुदुःखितः ॥ ४ ॥
दृष्ट्वा मुनिवरं तत्र कश्यपं सर्वदायकम् ।
प्रणनाम स साष्टाङ्गं स रुरोद हि विह्वलः ॥ ५ ॥
तं तथा दुःखसंयुक्तं दृष्ट्वा पप्रच्छ कश्यपः ।
जगाद स यथापूर्वं वृत्तान्तं शोकसङ्कुलः ॥ ६ ॥
ततस्तं कश्यपः प्राह मा कुरु त्वं महीपते ।
चिन्तां शृणु स्वराज्यस्य प्रापकं तत् कुरुष्व च ॥ ७ ॥
समीपे माघमासः समागतश्च शृणुष्व तत् ।
मौद्गलं सिद्धिदं पारायणं पूर्णं करोम्यहम् ॥ ८ ॥
तस्य तद्वचनं श्रुत्वा हर्षयुक्तश्च माधवः ।
सर्वैः साकं स्थितस्तत्र पुराणश्रवणाय सः ॥ ९ ॥
तथा मुनिगणाद्यांश्च श्रवणार्थं समागतान् ।
क्षत्रियाद्यान् स तान् दृष्ट्वा हर्षयुक्तो बभूव ह ॥ १० ॥
विनायकं प्रतिपदि तदा पूज्य महामुनिः ।
उपोषणसमायुक्तः शुक्ले स्त्रीभिः समारभत् ॥ ११ ॥
पारायणं मौद्गलस्य मण्डपे विधिसंयुतः ।
भक्तियुक्तो महायोगी कश्यपः सर्वतत्त्ववित् ॥ १२ ॥
[[६७]]
तत्र चित्रं समुत्पन्नं तच्छृणुष्व महामुने ।
नकुलो भूमिसंस्थश्च शुश्राव भयसङ्कुलः ॥ १३ ॥
अकस्माद् दुःखसंयुक्तो ममार स च गाणपाः ।
आययुस्तान् समालोक्य मुनिः पप्रच्छ कश्यपः ॥ १४ ॥
कश्यप उवाच ।
किमर्थमागता नाथाः कार्यं वदत चोत्तमम् ।
वयं दासा गणेशस्य करिष्यामो जवान्विताः ॥ १५ ॥
कश्यपस्य वचः श्रुत्वा जगुस्तं गणपप्रियाः ।
नकुलं भूमिसंस्थं तु मृतं नेतुं समागताः ॥ १६ ॥
पारायणस्य विप्रेश मौद्गलस्याधुना द्विज ।
अध्यायः संश्रुतः पूर्णोऽज्ञानतो नकुलेन वै ॥ १७ ॥
द्वितीयेऽत्र समारब्धे ज्वरेण बहुपीडितः ।
मृतोऽधुना ब्रह्मभूतं करिष्यामो वयं किल ॥ १८ ॥
मौद्गलं सिद्धिदं पूर्णं श्रुतं तेन महात्मना ।
अन्ते तेन प्रभावेण जानीहि मुनिसत्तम ॥ १९ ॥
तेषां वचनमाकर्ण्य कश्यपः सर्वसंयुतः ।
विस्मितस्तान् प्रणम्यैव पारायणपरोऽभवत् ॥ २० ॥
गाणेशा नकुलं गृह्य ययुः स्वानन्दकं पुरम् ।
गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूतो बभूव सः ॥ २१ ॥
चतुर्भिर्दिवसैः पारायणं योगी महामतिः ।
कृत्वा समाप्तं विघ्नेशं पूजयामास यत्नतः ॥ २२ ॥
ततः स पारणं चक्रे पञ्चम्यां सर्वसंयुतः ।
षष्ठ्यां स्वं स्वं स्थलं जग्मुर्ब्राह्मणाद्या महामुने ॥ २३ ॥
माधवस्तं प्रणम्यादौ प्रधानादिभिरावृतः ।
निर्जगाम ततः सोऽपि महाराष्ट्रं समाययौ ॥ २४ ॥
तत्र तस्य सखा राजा भद्रको बलसंयुतः ।
राज्यं चकार देशस्य स्वकीयस्य महाबलः ॥ २५ ॥
तेन सार्धं पुनः सोऽपि माधवः शस्त्रधारकः ।
सैन्येन संयुतः क्रुद्धः सङ्ग्रामाय समाययौ ॥ २६ ॥
गणेशं मनसि स्मृत्वा कश्यपं स्वगुरुं परम् ।
जिग्ये काम्बोजराजं तं युद्धं कृत्वा सुदारुणम् ॥ २७ ॥
पपाल भयसंयुक्तोऽभवत् कर्णः पराजितः ।
माधवः स्वस्य राज्यं तु चकार स सुहृद्गणः ॥ २८ ॥
भोगान्नानाविधान् राजा बुभुजे पुत्रपौत्रवान् ।
गणेशमभजन्नित्यं मौद्गलं तत्तथाऽशृणोत् ॥ २९ ॥
अन्ते जगाम विघ्नेशं ब्रह्मीभूतो बभूव ह ।
पारायणस्य संश्रावमाहात्म्यात् स नरोत्तमः ॥ ३० ॥
एवं नाना जना विप्र सिद्धिं प्राप्ता न शक्यते ।
वक्तुं केनापि कोऽहं तु मौद्गलश्रवणेन वै ॥ ३१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे माघपारायणचरितवर्णनं नाम द्वाविंशोऽध्यायः ॥