२१ पारायणवर्णनम्

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

अथ कामयुतानां यत् पुराणश्रवणे फलम् ।
कथयामि समासेन सर्वसिद्धिप्रदायकम् ॥ १ ॥

अत्रिगोत्रोद्भवः कश्चिद्विप्रः सर्वार्थकोविदः ।
त्यक्त्वा स्वधर्मजं कर्म पापकर्मपरोऽभवत् ॥ २ ॥

तं ज्ञात्वा पितरौ तस्य दुःखयुक्तौ बभूवतुः ।
सुशीला सुमुखौ नाम्ना सुमतिं वीक्ष्य दुर्मतिम् ॥ ३ ॥

सुमतिं वीक्ष्य पुत्रं तौ शिक्षयन्तौ निरन्तरम् ।
स तयोर्वचनं दुष्टो न चकार कदाचन ॥ ४ ॥

ततस्तौ दुःखसंयुक्तौ स्थितौ स्वस्याश्रमे कदा ।
साक्षान् मुनिवरस्तत्र भरद्वाजः समाययौ ॥ ५ ॥

सम्पूज्य मुनिशार्दूलं दुःखवन्तावपृच्छताम् ।
पुत्रं सुशीलं कर्तारमुपायं सुखदायकम् ॥ ६ ॥

ततः स करुणाविष्टस्तौ जगाद महामतिः ।
पुत्रस्ते मौद्गलं श्रुत्वा सुशीलोऽयं भविष्यति ॥ ७ ॥

एवमुक्त्वा ययौ स्थानं भरद्वाजो महामुनिः ।
सुमुखः पुत्रसंयुक्तः स्त्रियाऽत्रिं प्रजगाम ह ॥ ८ ॥

तं प्रणम्य महाभागं योगीन्द्रं योगदायकम् ।
पप्रच्छ मौद्गलं कुत्र लभ्यते तद्वदस्व मे ॥ ९ ॥

तस्य तद्वचनं श्रुत्वा हर्षयुक्तो महामुनिः ।
अत्रिः सम्मान्य विप्रेशं जगाद वचनं हितम् ॥ १० ॥

अत्रिरुवाच ।
मा चिन्तां कुरु पुत्र त्वं स्थीयतामाश्रमे मम ।
पारायणं करिष्यामि भाद्रमासेऽहमादरात् ॥ ११ ॥

तत्र त्वं मौद्गलं श्रुत्वा गच्छ पश्चात् स्वमाश्रमम् ।
तथेति सुमुखो हर्षात्तं प्रणम्य चकार ह ॥ १२ ॥

अथ स्वल्पेन कालेन भाद्रनामा समाययौ ।
मासो मुनिगणास्तत्र श्रवणार्थं समाययुः ॥ १३ ॥

क्षत्रियान् वैश्यकान् शूद्रांस्तान् दृष्ट्वा हर्षसंयुतः ।
सुमुखो विधिवत्तत्र शुश्रुवे विधिसंयुतः ॥ १४ ॥

उपोषणपरो भूत्वा पञ्चम्यां ब्राह्मणैः सह ।
चकार पारणं सोऽपि भक्तियुक्तेन चेतसा ॥ १५ ॥

ततस्तस्य सुतः सोऽपि सुमतिः शीलसंयुतः ।
बभूव धर्मसंयुक्तः स्वाचारस्थो महामतिः ॥ १६ ॥

तत् दृष्ट्वा परमाश्चर्यं सस्त्रीकः पुत्रसंयुतः ।
गणेशभजने सक्तो योगिवन्द्यो बभूव ह ॥ १७ ॥

अन्ते गणेश्वरं प्राप्य ब्रह्मीभूतोऽभवत् द्विजः ।
एतत्ते कथितं विप्र शृण्वन्यच्चित्रमुत्तमम् ॥ १८ ॥

तत्र पारायणे कश्चिद् वृषभो दुःखसंयुतः ।
अशक्तत्वात् स्थितो दूरं शुश्रुवे किञ्चिदादरात् ॥ १९ ॥

ममार तत्र तं नेतुं गाणपत्याः समाययुः ।
तान् दृष्ट्वा विस्मिताः सर्वे प्रपच्छुः परिपूज्य वै ॥ २० ॥

विप्राद्या ऊचुः ।
केन पुण्येन युष्माभिर्वृषभो नीयतेऽमराः ।
वदन्तु गाणपवराः स्वानन्दे चित्रमुत्तमम् ॥ २१ ॥

गाणेशा ऊचुः ।
अयं भवत्सन्निधाने पतितो दुःखसंयुतः ।
शुश्राव मौद्गलं पारायणमेव महर्षयः ॥ २२ ॥

मध्ये ममार दुःखेन पीडितोऽतितरां वृषः ।
अधुना ब्रह्मभूतं तं करिष्यामो न संशयः ॥ २३ ॥

मौद्गलस्य पदं श्रुत्वा लोकस्थश्चेन् मृतो भवेत् ।
न तस्य पुनरावृत्तिर्भविष्यति न संशयः ॥ २४ ॥

तेषां तद्वचनं श्रुत्वा हर्षयुक्ता महर्षयः ।
पप्रच्छुस्तान् पुनश्चित्रं संशयेन समन्विताः ॥ २५ ॥

[[६६]]

विप्रा ऊचुः ।
अयं वृषभयोनिस्थो वयं मानवदेहजाः ।
अस्माभिः कथितं सर्वं ज्ञायते वृषभेण न ॥ २६ ॥

वृषभेण यदुक्तं तद्वचनं मानवैः कदा ।
ज्ञायते न विशेषेण योनिभिन्नप्रभावतः ॥ २७ ॥

अयं वृषभयोनिस्थः परं पारायणं कथम् ।
श्रुत्वा स तस्य माहात्म्यं फलभोक्ता भवेत् पराः ॥ २८ ॥

गाणेशा ऊचुः ।
श्रवणं वृषभेणैव कृतं ज्ञानविवर्जितम् ।
अन्यच्छब्दप्रमातृत्वं श्रद्धाहीनेन निश्चितम् ॥ २९ ॥

ज्ञानतोऽज्ञानतो वाऽपि यथा वह्निकणो दहेत् ।
सम्पृष्टश्चेन् महाभागा मौद्गलं तु तथा स्मृतम् ॥ ३० ॥

योगामृतमयं पूर्णं मौद्गलं सर्वसम्मतम् ।
सर्वसिद्धिप्रदं प्रोक्तं ब्रह्मीभूतकरं तथा ॥ ३१ ॥

एवमुक्त्वा ययुः सर्वे गाणेशा गणपालयम् ।
वृषभं गृह्य ते चित्रं ब्राह्मणा विस्मिता जगुः ॥ ३२ ॥

एवं मौद्गलजं चित्रं माहात्म्यं मुनिसत्तम ।
तस्य प्रभावजं तेजो वर्णितुं कः क्षमो भवेत् ॥ ३३ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगमृतार्थशास्त्रे दक्षमुद्गलसंवादे पारायणवर्णनं नामैकविंशतितमोऽध्यायः ॥