॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
श्रुत्वा मौद्गलकं पूर्णं के के सिद्धिं प्रलेभिरे ।
तेषां चरित्रमेवं मे ब्रूहि सूत समासतः ॥ १ ॥
सूत उवाच ।
आदौ मुद्गलयोगीशाच्छ्रुत्वा दक्षो महामतिः ।
स सर्वदोषहीनश्च बभूवे शान्तिधारकः ॥ २ ॥
ततो दक्षेण विघ्नेश नियमः स कृतो भवेत् ।
मौद्गलं नित्यमेवेदं पठनीयं निरन्तरम् ॥ ३ ॥
अवकाशानुसारेण अजपन्नित्यमादरात् ।
अध्यायादेस्तथा तत्र नियमं न चकार ह ॥ ४ ॥
भाद्रशुक्लप्रतिपदि प्रारभ्योपोषणान्वितः ।
चतुर्थ्यां तत् समाप्तं पारायणं स चकार ह ॥ ५ ॥
एवं माघे तथा पारायणं ज्येष्ठे महामतिः ।
चकार देवविप्राद्यैः संयुतो वार्षिकं परम् ॥ ६ ॥
एवं क्रमेण भक्त्या स गजाननपरायणः ।
मौद्गलं सेवतेऽद्यापि गाणपत्यस्वभाववान् ॥ ७ ॥
तेनैव बोधिताः सर्वे वसिष्ठाद्या महामुने ।
सेवन्ते मौद्गलं नित्यं प्रजापतय आदरात् ॥ ८ ॥
तैश्चान्ये बोधिता विप्रा योगमार्गपरायणाः ।
नानाभावसमायुक्ता असेवन्निदमुत्तमम् ॥ ९ ॥
[[५०]]
एवं परम्पराप्राप्तं विदुः सर्वे च जन्तवः ।
नानाभावसमायुक्ता असेवन् मौद्गलं परम् ॥ १० ॥
दक्षयज्ञे समायातैः शिवविष्णुमुखामरैः ।
तैर्ज्ञातं मौद्गलं पूर्णं योगदं सर्वसिद्धिदम् ॥ ११ ॥
यज्ञं समाप्य सर्वे ते स्वं स्वं धाम ययुर्मुदा ।
ततः शिवेन योगीशः प्रार्थितस्तत्र मुद्गलः ॥ १२ ॥
पुराणश्रवणार्थं स प्रणम्यापूज्य भक्तितः ।
तुष्टस्तेन समायुक्तो जगाम शिवमन्दिरम् ॥ १३ ॥
ततः पुराणमाहात्म्यं ज्ञात्वा विष्णुमुखाऽमराः ।
आययुः श्रवणार्थं ते कैलासं पर्वतेश्वरम् ॥ १४ ॥
शिवेन संयुताः सर्वे ब्रह्माद्याः शुश्रुवुः परम् ।
पुराणं मौद्गलं पूर्णं मुद्गलाद्योगिसागरात् ॥ १५ ॥
वर्षेणैकेन ते श्रुत्वा पुपूजुस्तं शिवादयः ।
विसृज्य मेनिरे सर्वे सस्त्रीकाः कृतकृत्यताम् ॥ १६ ॥
गणेश्वरस्य तत्रांशः शिवपुत्रः स्थितोऽभवत् ।
स एव मौद्गलं नित्यं जजाप गणपप्रियः ॥ १७ ॥
मूर्तिस्थं गणनाथं स पूज्य नित्यं महायशाः ।
तत्सन्निधानगो भूत्वा जजाप त्विदमुत्तमम् ॥ १८ ॥
विश्वनाथः शिवः साक्षात् काश्यां नित्यं महामुने ।
जजाप नियमे संस्थो ढुण्ढिराजस्य सन्निधौ ॥ १९ ॥
माघे शुक्लप्रतिपदि प्रारभ्योपोषणान्वितः ।
चतुर्थ्यां तत् समाप्तं पारायणं स चकार ह ॥ २० ॥
तथा भाद्रपदे मासि मुद्गलः शुकसंयुतः ।
मयूरेशस्य सान्निध्ये चक्रे पारायणं मुदा ॥ २१ ॥
नित्यं जजाप भावेन गाणपत्यैः समन्वितः ।
महाभक्तश्च सर्वेषां तारकस्तारकाकृतिः ॥ २२ ॥
ज्येष्ठे मासि स्वयं पारायणं शेषश्चकार ह ।
मूषकस्थस्य सान्निध्ये नागासुरसमन्वितः ॥ २३ ॥
जजाप नित्यमेवं स सर्वभावसमन्वितः ।
भक्तियुक्तो महाभक्तः सर्वेषां हितकारकः ॥ २४ ॥
तथा दत्तः स्वयं साक्षाज्ज्ञानेशस्य प्रतुष्टये ।
ज्येष्ठे परायणं पूर्णं चक्रेऽसौ भक्तिसंयुतः ॥ २५ ॥
नित्यं जपपरो भूत्वा जजाप त्विदमुत्तमम् ।
नानायोगिसमायुक्तः शङ्करेण समन्वितः ॥ २६ ॥
विष्णुर्भानुर्विधिः शक्तिरिन्द्रश्चाग्निमुखाऽमराः ।
नित्यं स्वस्वगृहे संस्थाः सेवन्ते मौद्गलं परम् ॥ २७ ॥
कश्यपाद्या मुनीन्द्राश्च मुनयः सिद्धमुख्यकाः ।
कपिलाद्या इदं नित्यं सेवन्ते भक्तिसंयुताः ॥ २८ ॥
सनकाद्याश्च संवर्तो योगिनो नव एव च ।
नित्यं जपपराः पूर्णं सेवन्ते मौद्गलं मुदा ॥ २९ ॥
नारदो गानसंयुक्तश्चचार भुवनेषु च ।
गायन्नित्यमिदं विप्र मौद्गलं योगशान्तिदम् ॥ ३० ॥
एवं नाना जनाः सर्वे मनवश्व महर्षयः ।
सेवन्ते नित्यमेवेदं सर्वसिद्धिप्रदायकम् ॥ ३१ ॥
व्यासः स्वयं महाभागः सेवते नित्यमादरात् ।
गाणेशं मौद्गलं चैव भक्तिभावसमन्वितः ॥ ३२ ॥
एवं मया न शक्यं तत् कथितुं मुनिसत्तम ।
भाग्यवन्तो विशेषज्ञाः सेवन्ते मौद्गलं सदा ॥ ३३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे पुराणप्रशस्तिमाहात्म्यवर्णनं नाम विंशोऽध्यायः ॥
[[६५]]