१९ पुराणश्रवणादिविधिवर्णनम्

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

शुचिः स्वधर्मनिष्ठः स एकभुक्तपरायणः ।
ब्रह्मचर्यसमायुक्तो रात्रौ सुप्यात्तथा भुवि ॥ १ ॥

अनृतादिकमेवं सन्त्यजेत् सर्वं समाहितः ।
हविष्यान्नं च भुक्त्वा तु शृणुयादिदमुत्तमम् ॥ २ ॥

गणेशसन्निधाने वै वने वा स्वगृहे स्थितः ।
शृणुयान् मौद्गलं पूर्णं योगभक्तिपरायणः ॥ ३ ॥

अथवा कामनायुक्तो निःकामो वा भवेन्नरः ।
शृणुयान्नियमे संस्थः स सद्यश्च फलं लभेत् ॥ ४ ॥

यत्र वक्ता भवेदस्य तत्र गत्वा महामतिः ।
शृणुयादथवा विप्र पुराणमिदमुत्तमम् ॥ ५ ॥

ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा शृणुयादिदम् ।
शूद्रश्चेत् ब्राह्मणं कञ्चित् पुरस्कृत्य समाहितः ॥ ६ ॥

भाद्रशुक्लप्रतिपदमारभ्य च चतुर्दिनम् ।
पारायणं मौद्गलस्य श्रोतव्यं तैरुपोषितैः ॥ ७ ॥

माघसञ्ज्ञे तथा मासे तथा ज्येष्ठे प्रकीर्तितम् ।
पारायणं मौद्गलस्य श्रोतव्यं सर्वसिद्धये ॥ ८ ॥

अथवा भाद्रमासस्य प्रतिपत्तः समारभेत् ।
आश्विन्यां पूर्णिमायां तत् पुराणं च समापयेत् ॥ ९ ॥

एवं माघे तया ज्येष्ठे सार्धमासैकमानतः ।
श्रोतव्यं मौद्गलं पूर्णं सर्वभावपरायणैः ॥ १० ॥

अथवा भाद्रमासे च प्रतिपत्तः समारभेत् ।
पुराणं मौद्गलं विप्र शृणुयाद्वर्षमात्रतः ॥ ११ ॥

पुनर्भाद्रपदं प्राप्य चैकभुक्तपरायणः ।
प्रतिपद्यां निराहारो भवेद्यावच्चतुर्थिका ॥ १२ ॥

पञ्चम्यां मौद्गलं पूर्णं समापयतु तन्नरः ।
एवं श्रुत्वा फलं सद्यो लभेदीप्सितमञ्जसा ॥ १३ ॥

विधिं तत्र प्रवक्ष्यामि मण्डपं कारयेन्नरः ।
तोरणादिसमायुक्तं नानाशोभासमन्वितम् ॥ १४ ॥

आदौ गणेश्वरं तत्र पूजयेत् पुस्तकं ततः ।
ततो मुद्गलविप्रेन्द्रं शुकं योगविशारदम् ॥ १५ ॥

पठते मौद्गलं तत्र संस्थितौ शुकमुद्गलौ ।
ततः पौराणिकं शान्तं पूजयेद्भावसंयुतः ॥ १६ ॥

ततः श्रोतृगणान् पूज्य प्रार्थयेत् स्नेहसंयुतः ।
पौराणिकं ततः पुण्यं शृणुयादिदमुत्तमम् ॥ १७ ॥

अर्थेन संयुतं सर्वं मौद्गलं शृणुयान्नरः ।
सर्वार्थनिपुणस्तेन सर्वसिद्धियुतो भवेत् ॥ १८ ॥

यदा चतुर्दिनैः श्राव्यं तदार्थपरिवर्जितम् ।
पारायणं समाख्यातं सर्वसिद्धिप्रदायकम् ॥ १९ ॥

नित्यमुत्सवसंयुक्तो भवेद्धर्मपरायणः ।
नानादानरतो भूत्वा ब्राह्मणादींश्च भोजयेत् ॥ २० ॥

गणेशप्रीतये सर्वं कुर्याद्धीमान्निरन्तरम् ।
विदित्वा धन्यमात्मानं शृणुयादिदमुत्तमम् ॥ २१ ॥

अन्ते गणेश्वरं सोऽपि पुराणं पूजयेत् परैः ।
राजोपचारकाद्यैस्तु भक्तिभावसमन्वितः ॥ २२ ॥

ततः पौराणिकं पूज्य तोषयेत्तं धनादिभिः ।
रत्नाद्यैर्हर्षसंयुक्तः प्रार्थयेन्नम्रकन्धरः ॥ २३ ॥

तारितोऽहं त्वया नाथ पुराणश्रावकेन वै ।
अधुना कृतकृत्योऽहं जातस्ते पाददर्शनात् ॥ २४ ॥

एवं प्रार्थ्य नमस्कृत्य ततः सर्वान् समागतान् ।
दक्षिणाद्यैः समातोष्य ततस्तं स विसर्जयेत् ॥ २५ ॥

पौराणिकं ततो भूयः समानीय महायशाः ।
श्रोतॄनन्यान् द्विजादींश्च भोजयेन् मोदकादिभिः ॥ २६ ॥

[[६३]]

ततस्तान् स नमस्कृत्य पारणं यः समाचरेत् ।
एवमीप्सितकं प्राप्येहान्ते ब्रह्ममयो भवेत् ॥ २७ ॥

अथवा मौद्गलं विप्र शृणुयान्नित्यमादरात् ।
यथेच्छया समायुक्तः स्वेच्छाभोजनकारकः ॥ २८ ॥

ब्रह्मचर्यादिहीनः स भक्तिभावसमन्वितः ।
गणेशप्रीतये हर्षात् सर्वसिद्धिं लभेत् पराम् ॥ २९ ॥

अकिञ्चनोऽपि विप्रेश शृणुयाद्भक्तिसंयुतः ।
यथाशक्तिविधानेन स पूजादिकमाचरेत् ॥ ३० ॥

शमीमन्दारदूर्वाद्यैरथवा यः समर्चयेत् ।
फलं सर्वं लभेत् सोऽपि पूजादानादिजं परम् ॥ ३१ ॥

यादृशो विभवः स्वस्य तादृशं स समाचरेत् ।
तेन विघ्नेश्वरः प्रीतो भवेत् सर्वप्रदायकः ॥ ३२ ॥

श्लोकार्धं श्लोकपादं वा पदं श्लोकस्थमेव वा ।
शृणुयान्मौद्गलस्यापि स धन्यो नात्र संशयः ॥ ३३ ॥

किं पुनः श्रद्धया युक्तः पुराणं शृणुयात् परम् ।
सम्पूर्णं तस्य विप्रेश सफलं जननं भवेत् ॥ ३४ ॥

नित्यं यः शृणुयाद्भक्त्या सर्वमाप्य स विप्रप ।
दर्शनात् सर्वजन्तूनां तारको भवति प्रभुः ॥ ३५ ॥

यथा गणेश्वरो देवस्तथाऽसौ नात्र संशयः ।
ब्रह्मीभूत इव प्राज्ञस्तिष्ठेद्वै भूमिमण्डले ॥ ३६ ॥

एतत्ते सर्वमाख्यातं सविधिश्रवणं परम् ।
पठनं तु पुराणस्य मौद्गलस्य समासतः ॥ ३७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे पुराणश्रवणादिविधिवर्णनं नाम एकोनविंशोऽध्यायः ॥