॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
एतत्ते कथितं सर्वं रहस्यं परमं मया ।
गणेशस्य प्रजानाथ समासेन शुभप्रदम् ॥ १ ॥
अतो भज गणाध्यक्षं सर्वेप्सितमवाप्स्यसि ।
मा शोकं कुरु दक्ष त्वं यज्ञध्वंसभवं परम् ॥ २ ॥
सूत उवाच ।
एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् ।
विधियुक्तं विधानेन मुनिर्दक्षाय मुद्गलः ॥ ३ ॥
तेन सम्पूजितो योगी ह्यभवद्गन्तुमुद्यतः ।
तस्मिन् काले गणाध्यक्षः प्रकटोऽभूच्छुभप्रदः ॥ ४ ॥
मूषकोपरिसंस्थं तं सिद्धिबुद्धिसमन्वितम् ।
पाशाङ्कुशरदैर्युक्तमभयं धारकं प्रभुम् ॥ ५ ॥
गजास्यं रक्तवस्त्रैः सञ्छादितं भूषणैर्युतम् ।
नाभिशेषं गणैर्युक्तं प्रमोदाद्यैः सुसेवितम् ॥ ६ ॥
त्रिनेत्रमेकदन्तं च महाकुक्षिं परात्परम् ।
दृष्ट्वा समागतं दक्षो मुद्गलो हर्षितोऽभवत् ॥ ७ ॥
उत्थाय सर्वसंयुक्तो ननाम द्विरदाननम् ।
दक्षश्च मुद्गलो विप्रो दण्डवत् पृथिवीतले ॥ ८ ॥
ततोऽतिहर्षसंयुक्तो दक्षस्तं प्रजगाद ह ।
गणेशं भक्तिसंयुक्तः सरोमाञ्चोऽश्रुसंयुतः ॥ ९ ॥
दक्ष उवाच ।
धन्योऽहं सर्वभावैश्च दर्शनात्ते गजानन ।
वेदान्तागोचरोऽसि त्वं ब्रह्मरूपः समागतः ॥ १० ॥
धन्योऽयं मुद्गलो योगी पुराणं धन्यमुत्तमम् ।
मौद्गलं येन विघ्नेशो मया प्राप्तः परात्परः ॥ ११ ॥
मुद्गलेन समाख्यातं भक्त्याधीनो गजाननः ।
तदद्य सत्यरूपं यन् मया ज्ञातं प्रमाणतः ॥ १२ ॥
मुद्गलस्यैव भक्त्या त्वं मोहितः सहसाऽऽगतः ।
त्वत्तः श्रेष्ठो गणेशान मुद्गलो नात्र संशयः ॥ १३ ॥
एवं प्रवदतस्तस्य दक्षस्यासीन् महात्मनः ।
भक्ते रसः समुत्पन्नो ननर्त स हि विह्वलः ॥ १४ ॥
भ्रान्तस्तन्न स्म जानाति कृत्यं विघ्नेश्वराय सः ।
जय हेरम्ब विघ्नेश गणेश मूषकध्वज ॥ १५ ॥
गजानन परेशान जय लम्बोदर प्रभो ।
उच्चरन् सास्त्रनेत्रश्च देहातीत इवाऽभवत् ॥ १६ ॥
एतस्मिन्नन्तरे सर्वे समाजग्मुः सुरेश्वराः ।
शिवविष्णुमुखास्तत्रागतं ज्ञात्वा गजाननम् ॥ १७ ॥
मुनयो भृगुमुख्याश्च नारदाद्याः सुरर्षयः ।
शुकाद्याः सनकाद्याश्च कपिलाद्या महामुने ॥ १८ ॥
वसवः साध्यरुद्राश्च गन्धर्वाप्सरसस्तथा ।
अश्विनौ शेषमुख्याश्च नागाः पर्वतनायकाः ॥ १९ ॥
सिद्धाश्चारणमुख्याद्या असुरा धर्मपालकाः ।
विद्याधराः कामदुधा गावो विप्रा अनेकशः ॥ २० ॥
प्रणेमुर्गणराजं ते हर्षयुक्ताः प्रतुष्टुवुः ।
भक्तियुक्ता विशेषेणात्मानं धन्यं च मेनिरे ॥ २१ ॥
ततः स मुद्गलो योगी विस्मितः प्रबभूव ह ।
पुराणश्रवणस्यैतत् दृष्ट्वा फलमनन्तकम् ॥ २२ ॥
बोधयामास दक्षं स ततो दक्षोऽतिहर्षितः ।
हर्षं नियम्य विघ्नेशं यथाविधि पुपूज ह ॥ २३ ॥
ततो देवेश्वरान् देवान् विप्रादीन् योगिमुख्यकान् ।
पूजयित्वा पुनः सोऽपि प्रणनाम गजाननम् ॥ २४ ॥
साश्रुनेत्रः प्रतुष्टाव भक्तिनम्रात्मकन्धरः ।
अनु तं देवविप्राद्यास्तुष्टुवुस्तं परेश्वरम् ॥ २५ ॥
सदेवर्षिर्दक्ष उवाच ।
नमस्ते गणेशाय सर्वात्मने ते सदा भक्तिमोहेन मोहात्मकाय ।
महेशादिदेवैः शुकाद्यैः स्तुताय ह्ययोगाय संयोगधारिन्नमस्ते ॥ २६ ॥
[[५७]]
गजाननाय वै तुभ्यं नमः परशुपाणये ।
गदाधराय शङ्खं वै धारिणे ते नमो नमः ॥ २७ ॥
विघ्नेशाय परेशाय महाविघ्नविदारिणे ।
अनाथाय सनाथाय हेरम्बाय नमो नमः ॥ २८ ॥
नमो नमस्तेऽस्तु महोदराय स्वभक्तसंरक्षणतत्पराय ।
अभक्तकामान् विनिहन्तृकाय सदा सुशान्तिप्रद ते नमो वै ॥ २९ ॥
ब्रह्मेशाय नमस्तुभ्यं सदा स्वानन्दवासिने ।
सिद्धिबुद्धिवरायैव मूषकध्वजिने नमः ॥ ३० ॥
दैत्यमस्तकधाराय दितिपुत्राय ते नमः ।
कण्ठाधो देवकायाय नमो सुरसुराय ते ॥ ३१ ॥
योगाय सर्वात्मकसर्वपूज्य मायाविनां मोहकराय तुभ्यम् ।
मायाप्रचालाय सुसिद्धिदाय धर्मस्थपालाय तु शूलपाणे ॥ ३२ ॥
अनन्तलीलया नाथ स्वयं खेलसि मायया ।
तत्र किं वर्णयाम्येवाऽतो ब्रवीमि नमो नमः ॥ ३३ ॥
सदा योगस्वरूपाय भक्तिभावप्रदाय ते ।
भक्तिप्रियाय पूर्णाय भक्तवत्सल ते नमः ॥ ३४ ॥
प्रसीद पाहि विघ्नेश दासं ते भक्तिलालसम् ।
मां मुद्गलस्य शिष्यं वै भक्तराजस्य मानद ॥ ३५ ॥
एवमुक्त्वा गणेशानं प्रणनाम प्रजापतिः ।
अनु तं देवविप्राद्याः प्रणेमुस्तं परात्परम् ॥ ३६ ॥
तमुत्थाप्य गणाधीशो जगाद वच उत्तमम् ।
दक्षं मुद्गलमालोक्य स्वभक्तं भक्तपालकः ॥ ३७ ॥
श्रीगणेश उवाच ।
वरान् वृणु प्रजानाथ दास्ये ते तुष्टिमागतः ।
श्रवणेन पुराणस्य स्तोत्रेण मनसीप्सितान् ॥ ३८ ॥
त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ॥ ३९ ॥
ब्रह्मप्रदं सुशान्तेश्च दायकं भक्तिवर्धनम् ।
भविष्यति महाप्राज्ञ परं मत्प्रीतिवर्धनम् ॥ ४० ॥
गणेशवचनं श्रुत्वा दक्षो हर्षसमन्वितः ।
प्रणम्य तं जगादाऽथ भक्तिनम्रात्मकन्धरः ॥ ४१ ॥
दक्ष उवाच ।
वरदोऽसि गणाध्यक्ष तदा ते भक्तिमुत्तमाम् ।
देहि मे यच्च कृत्यं तदादिशेः करवाणि किम् ॥ ४२ ॥
तच्छ्रुत्वा गणनाथस्तं जगाद वच उत्तमम् ।
ज्ञात्वा भक्तिप्रियं दक्षं हृष्टरोमा महामुने ॥ ४३ ॥
श्रीगणेश उवाच ।
मदीयां भक्तिमत्यन्तं करिष्यसि महामते ।
दक्षाऽद्यप्रभृति प्राज्ञो भविष्यसि यथार्थगः ॥ ४४ ॥
यज्ञं कुरु महेशेन मया ध्वस्तं समन्वितः ।
किञ्चित् ?कृष्टं प्रदत्तं ते शापैः शैवैः सुखी भव ॥ ४५ ॥
योगशान्तियुतो नित्यं मां भजिष्यसि सर्वदा ।
सर्वमान्यः सर्वमुख्यो भविष्यसि प्रजापतिः ॥ ४६ ॥
एवमुक्त्वा गणेशानो विरराम च शौनक ।
दक्षो हृष्टमना भूत्वा स चक्रे यज्ञमुत्तमम् ॥ ४७ ॥
सम्पूज्यादौ गणाध्यक्षं ततः शम्भुमुखान् सुरान् ।
मुनीन्नागादिकान् सर्वान् विससर्ज सुहर्षितः ॥ ४८ ॥
ततो मुद्गलविप्रेशं पूजयन् भक्तिसंयुतः ।
उवाच तं सरोमाञ्चो दक्षो दक्षगणाग्रणीः ॥ ४९ ॥
दक्ष उवाच ।
किं ददामि महायोगिन् शिष्योऽहं ते नमाम्यतः ।
शरीरं पादपद्मे ते समर्पितमिदं प्रभो ॥ ५० ॥
ततो दक्षं समानन्द्य मुद्गलः प्रययौ मुने ।
स्वाश्रमं गाणपत्यैः संसेवितं गणपप्रियः ॥ ५१ ॥
इदं दक्षस्य माहात्म्यं कथितं ते समासतः ।
मुद्गलस्य तथा श्रेष्ठं सर्वसिद्धिप्रदायकम् ॥ ५२ ॥
पुराणं मौद्गलं पूर्णं कथितं योगभावितम् ।
सर्वमान्यं विशेषेण सर्वसंशयनाशनम् ॥ ५३ ॥
पुराणश्रवणस्यापि फलं प्रोक्तं मया परम् ।
श्रवणेन प्रजानाथो दक्षो दक्षो बभूव ह ॥ ५४ ॥
अधुनाऽहं गमिष्या?मि स्वाश्रमं विप्रनायक ।
त्वदाज्ञया वद स्वामिन् किं करोमि हितं पुनः ॥ ५५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते दक्षसिद्धिप्राप्तिवर्णनं नाम सप्तदशोऽध्यायः ॥