१६ भक्तिरहस्यवर्णनयोगः

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।

धन्योऽहं कृतकृत्योऽहं कृतस्त्वद्य महामते ।
त्वदाज्ञावशगः स्वामिन् गुप्तं ग्रन्थं करोमि ते ॥ १ ॥

अधुना वद मे भक्तिं गणेशस्य तया परम् ।
भजिष्यामि विशेषेण सदा भक्तिपरायणः ॥ २ ॥

मुद्गल उवाच ।

साङ्ख्ययोगौ प्रजानाथ शृणु ते कथयाम्यहम् ।
ताभ्यां युक्तस्ततो भक्तिं करिष्यसि परां मुदा ॥ ३ ॥

चित्तं पञ्चविधं प्रोक्तं पञ्चसङ्ख्याविवर्जितम् ।
कुरु चिन्तामणौ लीनभावेन त्वं सुयोगतः ॥ ४ ॥

एतत् साङ्ख्यं समाख्यातं गणेशाभेददायकम् ।
तेन योगी भवेत् सद्यः शान्तियुक्तो विशेषतः ॥ ५ ॥

पञ्चचित्तोद्भवेषु त्वं भोगेष्वसि सुसंस्थितः ।
बिम्बरूपेण तान् भुङ्क्ष्व शान्त्या रससमन्वितः ॥ ६ ॥

चित्तेषु चित्तभूतेषु कर्म ज्ञानादिकं भवेत् ।
तद्गणेशार्पणं सर्वं कुरु त्वं नित्यमादरात् ॥ ७ ॥

स्वधर्मसंस्थितं देहं चित्तं शान्तिसमन्वितम् ।
कुरुष्व सततं दक्ष ब्रह्मभावपरायणः ॥ ८ ॥

अयं योगः समाख्यातः शास्त्रे वै सर्वसम्मतः ।
वेदेषु च पुराणेषु ब्रह्मभूयप्रदायकः ॥ ९ ॥

साङ्ख्ययोगौ समाराध्य भजस्व गणनायकम् ।
योगाकारं समाध्याय तन्निष्ठस्तत्परायणः ॥ १० ॥

श्रवणं गणनाथस्य गुणानां नित्यमादरात् ।
कीर्तनं तस्य तद्वत्त्वं कुरुष्वैतद्रसैर्युतम् ॥ ११ ॥

[[५४]]

गाणेशस्य च भावस्य विस्मृतिं मा कुरु प्रभो ।
गणेशपादजं मोहं धारयेः सत्यभावतः ॥ १२ ॥

साङ्गं गणेश्वरस्यैव कुरु सर्वं विशेषतः ।
गणेशान्न परं श्रेष्ठं तस्मात्तन्निष्ठको भव ॥ १३ ॥

गाणपत्यस्य मार्गस्य सेवनं कुरु सर्वदा ।
साक्षिरूपं गणेशानं ज्ञात्वा हृत्स्थं भजस्व च ॥ १४ ॥

गणेशान्नैव भिन्नोऽहं भावयस्व निरन्तरम् ।
एवं नवप्रकारैस्तं भज त्वं भक्तिसंयुतः ॥ १५ ॥

बाह्यान्तरं गणेशार्थं कुरु त्वं कर्म चादरात् ।
नवधा खण्डभावेन पूर्णभक्तो भविष्यसि ॥ १६ ॥

अथो चतुर्विधां भक्तिं कथयामि शृणुष्व ताम् ।
कायिकां वाचिकां पूर्णां मानसीं नित्यदा कुरु ॥ १७ ॥

तथा सांसर्गिकिं दक्ष तस्याश्चिह्नं वदाम्यहम् ।
गणेशार्थं सदा देहश्रमं कुरु महामते ॥ १८ ॥

गणेशभावहीनां यां वाचं मा त्वं वदस्व ताम् ।
गणेशचिन्तनं तद्वद्गणेशे भावकस्य वा ॥ १९ ॥

गणेशभक्तियुक्तानां सङ्गतिं कुरु सर्वदा ।
एवं भजस्व भक्त्या त्वं भक्तराजो भविष्यसि ॥ २० ॥

भक्तिः सा द्विविधा दक्ष मानवैः क्रियते परा ।
पाखण्डसंयुता पूर्णा देवप्रीत्यर्थमेव वा ॥ २१ ॥

देहे विषयभोगार्थं भजनं सम्प्रवर्तते ।
पाखण्डिनां सदा दक्ष लोकमोहकरं परम् ॥ २२ ॥

पाखण्डभजनस्यैव चिह्नं मुख्यं वदाम्यहम् ।
तच्छृणु त्वं हितार्थाय लोकानां लोकतारक ॥ २३ ॥

सर्वाहङ्कारनिर्मुक्तः पाखण्डी दृश्यते जनैः ।
जना मोहयुता येन भवन्ति भजनं यतः ॥ २४ ॥

यत्र येषां रुचिर्दक्ष यादृशी तादृशं सदा ।
करोति तत्र यत्नेन सर्वभावं प्रदर्शयन् ॥ २५ ॥

येनैव विषयाणां च प्राप्तिः सञ्जायते परा ।
तादृशं भजनं तस्य परं भवति सर्वदा ॥ २६ ॥

अथवा चैकनिष्ठः स भवति देवतत्परः ।
स्वदेवभक्तान् सम्मोह्य भुङ्क्ते दुष्टोऽर्थलालसः ॥ २७ ॥

स्वदेवभजने सक्ता जनाः स्वल्पमतो बहु ।
तेषां रुचिप्रमाणेन भवति भजनं यतः ॥ २८ ॥

जनानां मोहदा भक्तिः कथिता ते प्रजापते ।
पाखण्डिभिः सदा पूर्णा सेव्यते सा रुचिप्रदा ॥ २९ ॥

पाखण्डसंयुता नित्यं भक्तिं कुर्वन्ति शाश्वतीम् ।
चाण्डालास्ते मताः शास्त्रे देवानां दुःखदायकाः ॥ ३० ॥

सत्यसङ्कल्पसिद्ध्या ते संयुतं देवमुत्तमम् ।
सङ्गृह्य भिक्षुकं दुष्टाः कुर्वतेऽधः प्रगामिनः ॥ ३१ ॥

अथ देवप्रियां भक्तिं शृणुष्व सुसमाहितः ।
विचार्य हृदये भक्तिं कुरुते देवतुष्टये ॥ ३२ ॥

सदा देवपरो भूत्वा भजतेऽनन्यमानसः ।
लोकानां तत्र सम्भूयाद्रुचिर्वा ह्यरुचिः कदा ॥ ३३ ॥

लोका निन्दन्ति तं भक्तमुत्तमाश्च स्तुवन्ति वा ।
ताननादृत्य देवस्य प्रीत्यर्थं भजते सदा ॥ ३४ ॥

स्वकीये हृदये सोऽपि विचार्य कुरुते सदा ।
भक्तिं यां तां प्रजानाति देवस्तस्य हृदि स्थितः ॥ ३५ ॥

यदा दैवस्य मार्गस्यापमानं वा ह्यनादरम् ।
कुर्वन्ति तान् परित्यज्य तदा भजति सर्वदा ॥ ३६ ॥

लोकानां रुचिदं तस्य भजनं जायते कदा ।
कदा तेषां विरुद्धं वा भक्त्या तद्देवतुष्टिदम् ॥ ३७ ॥

[[५५]]

अनेन विधिना दक्ष भजस्व गणनायकम् ।
गाणपत्यो न सन्देहो भविष्यसि परात् परः ॥ ३८ ॥

पञ्च चित्तेषु यज्ज्ञानं तद्विद्धि विषयात्मकम् ।
तत्र रुचिविहीनस्त्वं भजस्व गणनायकम् ॥ ३९ ॥

सदा गणेश्वरे दक्ष रसोत्पत्तिः प्रजायते ।
चित्तस्य नान्यभावेषु यस्य भक्तः स उच्यते ॥ ४० ॥

एतद्भक्तिरहस्यं ते कथितं भक्तिदायकम् ।
समासेन भजस्वैव गणेशं ब्रह्मनायकम् ॥ ४१ ॥

इमं योगं नरो यस्तु शृणुयाच्छ्रावयेत् परम् ।
योगिभ्यो वाऽन्यजन्तुभ्यः स ईप्सितमवाप्नुयात् ॥ ४२ ॥

नानेन सदृशं किञ्चिद्योगदं शास्त्रसम्मतम् ।
अस्य श्रवणमात्रेण ब्रह्मीभूतो भवेन्नरः ॥ ४३ ॥

महापापोपपापेभ्यो मुच्यते पठनात् किल ।
श्रवणादस्य योगस्यान्ते ब्रह्म प्राप्नुयात् परम् ॥ ४४ ॥

पुत्रपौत्रादिसंयुक्तो धनधान्यसमन्वितः ।
आरोग्यादिसमायुक्तो लभेदन्ते परं पदम् ॥ ४५ ॥

सकामको लभेद्भोगान् पठनादस्य निश्चितम् ।
अन्ते ब्रह्ममयो भावी श्रवणान्नात्र संशयः ॥ ४६ ॥

योगगीतां पठेद्यस्तु निष्कामः शृणुयादथो ।
स विघ्नहीनतां प्राप्य ब्रह्मीभूतो भविष्यति ॥ ४७ ॥

योगगीतां पठेद्यस्तु स भवेत् शान्तिसंयुतः ।
शृणुयाद्ब्रह्मभूतश्च ज्ञानवान् स्थितिसंयुतः ॥ ४८ ॥

कर्मनिष्ठैरियं सेव्या तपोनिष्ठैः प्रजापते ।
तत्तत्सिद्धिसमायुक्तैरिहान्ते ब्रह्म चाप्यते ॥ ४९ ॥

नित्यं पठेदिमां गीतां स गणेशो धरातले ।
दर्शनात् पावनो नॄणां सर्वसिद्धिप्रदायकः ॥ ५० ॥

एककालं द्विकालं वा त्रिकालं यः पठेदिमाम् ।
कृत्वाऽवश्यं गणेशानं स भवेत् सर्वदायकः ॥ ५१ ॥

शुक्लकृष्णचतुर्थ्योस्तु पेठदेतां नरोत्तमः ।
स भुक्त्वा सकलान् भोगानन्ते ब्रह्म लभेत् परम् ॥ ५२ ॥

अथवा शुक्लजायां स चतुर्थ्यां भाद्रमाघयोः ।
ज्येष्ठे माघे च कृष्णायां पठेदीप्सितमाप्नुयात् ॥ ५३ ॥

अथवा गणराजस्य तीर्थक्षेत्रादिके गतः ।
पठेदिमां सुभावेन स ईप्सितमवाप्नुयात् ॥ ५४ ॥

वेदशास्त्रपुराणेषु यत् सारं समुदाहृतम् ।
योगगीतामयं तुभ्यं सर्वसिद्धिप्रदायकम् ॥ ५५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रेचित्तभूमिनिरोधेन भक्तिरहस्यवर्णनयोगो नाम षोडशोऽध्यायः ॥॥ इति योगगीतासूपनिषत्सु सुगमासु द्वादशोऽध्यायः ॥

॥ श्रीगजाननार्पणमस्तु ॥

॥ गीताश्लोकसङ्ख्या ॥ ९९८ ॥