१४ नानामतैक्ययोगः

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

वक्ष्यामि भावनां चैकां वेदशास्त्रार्थसंयुताम् ।
नानामतभयं त्यक्त्वा तया योगी भवेन्नरः ॥ १ ॥

चैतन्यं न्यायशास्त्रज्ञा वदन्ति ब्रह्ममुख्यकम् ।
चैतन्येन युताः सर्वे स्वस्वकार्यपरायणाः ॥ २ ॥

सर्वप्रकाशकत्वात्तच्चैतन्यं ब्रह्मसञ्ज्ञितम् ।
चैतन्येन यदा त्यक्तं तदा नाशमुपैष्यति ॥ ३ ॥

पञ्चचित्तात्मयोगेन चैतन्यं ब्रह्मसञ्ज्ञितम् ।
भवत्यत्र न सन्देहः शब्दार्थानामनेकतः ॥ ४ ॥

तार्किकाः प्रवदन्त्येव सर्वाभेदं परं मतम् ।
ब्रह्मवेदान्तवादेषु विद्यते शास्त्रसम्मतौ ॥ ५ ॥

पञ्चचित्तमया भेदा अभेदा योगिना कृताः ।
योग एकार्थभावाख्यो भवत्यर्थप्रमाणतः ॥ ६ ॥

धर्मशास्त्रविदः सर्वे बोधान्नैव परं पदम् ।
ब्रह्म बोधमयं मुख्यं भावाभावविवर्जितम् ॥ ७ ॥

[[४९]]

पञ्चचित्तगतो धर्मस्त्यक्तव्यस्तेन योगकः ।
धर्मो भवेन्न सन्देहो ब्रह्मधर्मधरः प्रभुः ॥ ८ ॥

साङ्ख्या वदन्ति साङ्ख्यं यद्ब्रह्म सङ्ख्याविवर्जितम् ।
विबोधान्न परं ब्रह्म खेलहीनप्रभावतः ॥ ९ ॥

तत्र पञ्चविधं चित्तं परं योगेन सङ्ख्यया ।
हीनं तदेव भवति योगाख्यं शब्दमानतः ॥ १० ॥

मीमांसका वदन्त्येव स्वसंवेद्यं परं मतम् ।
कारणं ब्रह्म तत्रान्यन्नास्ति ब्रह्मणि संस्थितम् ॥ ११ ॥

पञ्चचित्तं परित्यज्य ब्रह्मरूपं करोति तत् ।
मीमांसया स्वयं योगी योगवाच्यं भवेत् परम् ॥ १२ ॥

एवं नानामतैर्युक्ता वदन्ति शास्त्रभेदतः ।
ब्रह्म नानाविधं दक्ष तदेवं योगगं भवेत् ॥ १३ ॥

शक्तिर्ब्रह्मेति शाक्ता वै ते वदन्ति न तत्परम् ।
संयोगो द्वन्द्वयोर्यत्र तदेवं योगगं भवेत् ॥ १४ ॥

शक्तिः पञ्चमचित्तङ्गा सा ब्रह्मणि समागता ।
परिगृह्य निरोधाख्यं चित्तं देवी ततः स्मृता ॥ १५ ॥

सौरं ब्रह्मेति सौराश्च वदन्ति तु परात्परम् ।
तस्मात्परं न विद्येत सर्वाधारप्रमाणतः ॥ १६ ॥

भेदात्मकं स सञ्जीव्य नित्यं तिष्ठति चादरात् ।
तेन योगमयः सूर्यो भवत्यत्र न संशयः ॥ १७ ॥

वदन्ति विष्णुर्ब्रह्मेति मुख्यं यद्वैष्णवा जनाः ।
तस्मात् परं पदं नास्ति सदानन्दप्रमाणतः ॥ १८ ॥

चित्तं यत् पञ्चमं तत्र मोहं त्यक्त्वा तदात्मकम् ।
ब्रह्मयोगे भवेद्योग आनन्दो नात्र संशयः ॥ १९ ॥

शैवाः शैवं परं ब्रह्म वदन्ति मुख्यभावतः ।
वेदे तस्मात् परं नास्ति किञ्चिन् मोहविहीनकम् ॥ २० ॥

निरोधं त्रिविधं दक्ष पराधीनं न संशयः ।
तत्रस्थं योगरूपाख्यं स्वाधीनं योगगं भवेत् ॥ २१ ॥

एवं नानामतैर्युक्ता स्वस्वदेवपरायणाः ।
वदन्ति तत् प्रमाणं वै शब्दानामर्थभावतः ॥ २२ ॥

अनेकार्थमयाः शब्दास्तेषु किं किं न सम्भवेत् ।
सर्वे योगार्थवाच्या वै जायन्ते योगिनः क्रमात् ॥ २३ ॥

अन्नप्राणादिकाः शब्दा एवं ब्रह्मप्रवाचकाः ।
ते सर्वे योगदा दक्ष भवन्ति ब्रह्मधारणात् ॥ २४ ॥

वेदान्तमथ वक्ष्यामि सर्वमान्यं विशेषतः ।
शास्त्राणि च तदङ्गानि तत्प्रमाणानि सर्वदा ॥ २५ ॥

यः सर्वं सर्वभावेषु युतो जानाति मायया ।
मायाहीनप्रभावेण योगस्तिष्ठति नित्यदा ॥ २६ ॥

तदेव ब्रह्ममुख्यं तु सर्वेभ्यो नात्र संशयः ।
ब्रह्मभ्य ऋग्जगादैव प्रज्ञानं योगगं स्मृतम् ॥ २७ ॥

पञ्चचित्तभवं सर्वं यो जानाति तदेव सः ।
योगस्तद्गतभावैः संवर्जितो भवति प्रभुः ॥ २८ ॥

अहं ब्रह्मेति यद्ब्रह्म सर्वदोषविवर्जितम् ।
सदैवं यजुषा प्रोक्तं मुख्यं वै परतः परम् ॥ २९ ॥

पञ्चचित्तभवा भेदास्तेष्वेवं भेदवर्जितम् ।
योगं विद्धि प्रजानाथ योगशास्त्रप्रमाणतः ॥ ३० ॥

मायामोहयुतं यच्च मायामोहविवर्जितम् ।
तयोर्योगे परं ब्रह्म साम्ना सङ्कथितं किल ॥ ३१ ॥

मायामोहयुतं ब्रह्म स्वानन्दाख्यं ततः परम् ।
अयोगं मायया हीनं तयोर्योगे तु योगगम् ॥ ३२ ॥

ब्रह्म ब्रह्मणि संस्थं यन्मनोवाणीमयं न तत् ।
मनोवाणीविहीनं नाथर्ववेदो जगाद ह ॥ ३३ ॥

मनोवाणीमयः प्रोक्तः सम्प्रज्ञातो न संशयः ।
असम्प्रज्ञातकस्ताभ्यां हीनो योगस्तयोः परः ॥ ३४ ॥

एवं वेदार्थयुक्तानि महावाक्यानि मानद ।
योगाख्यानि विशेषेण जानीया योगसेवया ॥ ३५ ॥

कर्मादयः समाख्याताः शब्दा ब्रह्ममया बुधैः ।
भवन्ति योगसञ्ज्ञस्थास्ते सर्वे योगिनां मते ॥ ३६ ॥

सर्वशास्त्रमतैक्यं ते कथितं शब्दधारणात् ।
तज्ज्ञात्वा मोहहीनः स सदा भवति मानवः ॥ ३७ ॥

॥ ॐ तत्सदिति श्रीमदात्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रेचित्तभूमिनिरोधेन नानामतैक्ययोगो नाम चतुर्दशोऽध्यायः ॥॥ इति योगगीतासूपनिषत्सु सुगमासु दशमोऽध्यायः ॥