१३ क्षेत्रक्षेत्रज्ञज्ञानयोगः

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।

क्षेत्रं वद महाभाग क्षेत्रज्ञं च तयोः परम् ।
सर्वगं ब्रह्म यत् प्रोक्तं येन ज्ञानं तयोर्भवेत् ॥ १ ॥

मुद्गल उवाच ।

देहं क्षेत्रमयं विद्धि देही क्षेत्रज्ञमञ्जसा ।
तयोर्योगे महद्ब्रह्म स्वत उत्थानसञ्ज्ञितम् ॥ २ ॥

भूतानि पञ्चतन्मात्राः पञ्च ज्ञानेन्द्रियाणि तु ।
कर्मेन्द्रियाणि पञ्चैव वायवः पञ्च देवताः ॥ ३ ॥

इन्द्रियाणां दशैवाऽपि द्वेष इच्छा धृतिस्तथा ।
अव्यक्तं चेतना दुःखं सुखं मोहनमेव च ॥ ४ ॥

चित्तं बुद्धिः स्थूलसूक्ष्मे कारणं च तुरीयकम् ।
एतेषां योगभावे यत् क्षेत्रं तत् कथितं बुधैः ॥ ५ ॥

सदैकभावरूपश्च भेदैः संवर्जितः परः ।
क्षेत्रज्ञः क्षेत्रमास्थाय सर्वान्तर्यामितां दधे ॥ ६ ॥

तयोर्योगे परं ब्रह्म दृश्यादृश्यविवर्जितम् ।
दृश्यादृश्यमयं पूर्णं बोधरूपं प्रजापते ॥ ७ ॥

स्थूलसूक्ष्मसमात्माख्यैर्भावैर्माया विशेषतः ।
क्षेत्रज्ञं मोह्यस्वाधीनं करोति नित्यमादरात् ॥ ८ ॥

चतुर्भेदैर्विशेषेण मोहितोऽत्यन्तमेव सः ।
अहं देहस्वरूपाख्यो मन्यते सततं मुधा ॥ ९ ॥

ततः क्षेत्रस्य भोगार्थं नानाकर्मपरायणः ।
त्रिगुणेषु भ्रमेणैव भ्रमतेऽहम्ममात्मकः ॥ १० ॥

ततस्तमोगुणं त्यक्त्वा राजसं धारयेन्नरः ।
राजसं च ततस्त्यक्त्वा सात्त्विकः सम्भवेत् क्रमात् ॥ ११ ॥

ततस्तुरीयमाश्रित्य गणेशं स भजेत् परम् ।
सर्वगं पञ्चमं साध्यं ब्रह्मीभूतो भवेन्नरः ॥ १२ ॥

इह सौख्यप्रदं यच्च कर्म सञ्जायते सदा ।
पापरूपमयं तेन ज्ञायते न कदाचन ॥ १३ ॥

देहभोगकरं पूर्णं शिश्नोदरपरायणम् ।
तामसं तद्विजानीहि चान्ते नरकदं भवेत् ॥ १४ ॥

तत्र तामससंयुक्ता भुक्त्वा दुःखं महाद्भुतम् ।
पुना रोगादिसंयुक्ता भवन्ति नीचयोनिषु ॥ १५ ॥

[[४६]]

काणमूकादिदोषैस्ते संयुक्ताः पापचेतसः ।
दरिद्रादिसमायुक्ता भोगैर्हीना भवन्त्यपि ॥ १६ ॥

पुनः पापसमाचारा भवन्ति यदि मानवाः ।
अन्ते यमस्य गेहे ते नरकस्थाः पुनः पुनः ॥ १७ ॥

अतस्तमोगुणस्थं स्वभावं त्यक्त्वा च मानवाः ।
धर्मार्थधृतिसंयुक्ता यतन्ते दैवयोगतः ॥ १८ ॥

विद्धि राजसगं भावं नरा भुवि सकामकम् ।
सततं कर्म कुर्वन्ति भोगदं धर्मसंयुताः ॥ १९ ॥

वासनासंयुतं कर्म स्वधर्मस्थं भवेत्किल ।
तदेव राजसं विद्धि नानाभावगतं परम् ॥ २० ॥

राजसाः सर्वभोगं तु भुक्त्वा पुनः पतन्त्यपि ।
इह ये यादृशं कर्म कु?र्वते तादृशं फलम् ॥ २१ ॥

अथवा स्वल्पभावेन कृतं राजससम्भवम् ।
कर्म तेन नरा भूमौ भवन्ते तत्क्षणात् पुनः ॥ २२ ॥

अथवा विविधास्ते ते योनिषु सम्भवन्त्यपि ।
नीचोच्चासु विशेषेण जन्ममृत्युपरायणाः ॥ २३ ॥

राजसानां प्रजानाथ नरको नैव विद्यते ।
स्थावरं जङ्गमं श्रित्वा भवन्ते जन्मसंयुताः ॥ २४ ॥

तत्र दुःखं सुखं नाना भुञ्जते नात्र संशयः ।
एवं राजसगं सर्वं कथितं ते समासतः ॥ २५ ॥

अतः परं प्रवक्ष्यामि सात्विकं कामवर्जितम् ।
स्वधर्मस्था जना विद्धि तत्कुर्वन्ति निरन्तरम् ॥ २६ ॥

ब्रह्मार्पणतया यद्यद्भवति कर्म धर्मजम् ।
नानाविधं परं तत्तत् स्वात्त्विकं विद्धि मानद ॥ २७ ॥

तेन शुक्लगतिं श्रित्य गच्छन्ति मोक्षमञ्जसा ।
अतः सत्त्वगुणेनैव युक्ता भवन्ति मानवाः ॥ २८ ॥

अतः परं तुरीयं ते कथयामि समासतः ।
रसहीनस्वभावेन चित्तं देहसमन्वितम् ॥ २९ ॥

तदा भवति चेत्तुर्यं कर्म सञ्जायते परम् ।
नानाविधं जगत् सर्वं ब्रह्माकारं न संशयः ॥ ३० ॥

यद्यत्तेन कृतं कर्म तदेव ब्रह्मदं भवेत् ।
स्तुतिनिन्दादिकं किञ्चिन्नैव तत्र प्रकीर्तितम् ॥ ३१ ॥

देवभक्तादिकं दक्ष नैव तुर्ये प्रतिष्ठितम् ।
ब्रह्मणि समभावेन वर्तते सर्वदा स्वयम् ॥ ३२ ॥

अन्तरे सर्वभावेषु पश्यति विश्वरूपिणम् ।
तदा तुरीयगं कर्म क्वचिद्भवति नान्यथा ॥ ३३ ॥

एवं सर्वसमत्वेन यद्भवेत्तत्तुरीयकम् ।
कर्म प्रारब्धयोगेन ब्रह्मणो रसभावतः ॥ ३४ ॥

अन्तेऽस्मितामये तेन लीनो भवति मानवः ।
महाकारणभावेन भवेत् त्रिगुणचालकः ॥ ३५ ॥

अतः परमहं कर्म कैवल्यं कथयामि ते ।
निषेधविधिहीनं यद्भवते कर्म स्वेच्छया ॥ ३६ ॥

ब्रह्मभूयमयं विद्धि पञ्चमं योगिसम्मतम् ।
कर्ता देहो न सन्देहस्तुरीयं प्रेरकं मतम् ॥ ३७ ॥

कुतस्तत्र व्यवस्थाख्यं तुरीयं वर्तते परे ।
चतुर्विधं येन सृष्टमिदं सर्वं स्वलीलया ॥ ३८ ॥

स एव कर्तृभावेन कारयितृप्रभावतः ।
तत्र तिष्ठति कोऽहं तु कुतो ब्रह्मविचारतः ॥ ३९ ॥

नाहं नरो न वै ब्रह्म मया साध्यं निरन्तरम् ।
भ्रान्त्या सर्वं न सन्देहो दृश्यते मायया मयि ॥ ४० ॥

स्वेच्छया खेलति ब्रह्म चतुर्भेदमयं परम् ।
शुभाशुभं तस्य नास्ति वृथाऽहन्तां त्यजेन्नरः ॥ ४१ ॥

[[४७]]

अनेनानुभवेनैव शान्त्या संवर्तते नरः ।
रसं सर्वत्र सन्त्यज्य ब्रह्मणो रसधारकः ॥ ४२ ॥

एवं चतुर्विधे भावे स्थितं देहिस्वरूपकम् ।
देहभ्रान्तिविहीनं तत्कृत्वा सोऽहम्परो भवेत् ॥ ४३ ॥

एवं क्रमेण योगीन्द्रो भवेद्योगान्नरोत्तमः ।
कथितं विस्तरात् सर्वं क्षेत्रक्षेत्रज्ञसाधनम् ॥ ४४ ॥

अथ वर्णाश्रमाचारं शृणु सर्वसुखप्रदम् ।
येन धर्मार्थकामांश्च लभेन् मोक्षं नरोत्तमः ॥ ४५ ॥

चित्तेन्द्रियाणि वश्यानि क्षमार्जवतपांसि च ।
शौचं श्रुतिस्मृतीनां वै ज्ञानं यत्र प्रतिष्ठति ॥ ४६ ॥

वेदाधारविहीनं यन्न करोति कदाचन ।
सदा ब्रह्मपरो यस्माद्ब्राह्मणः स च संस्मृतः ॥ ४७ ॥

शौर्यं दाक्ष्यं तथा दार्ढ्यं युद्धे सम्मुखता सदा ।
शरण्यरक्षणं नित्यं प्रभुत्वं दण्डधारणम् ॥ ४८ ॥

धृतिः क्षात्रं सदा तेजश्चित्तमौदार्यसंयुतम् ।
सुनीत्या पालनं पञ्च कर्मयुक्तः स बाहुजः ॥ ४९ ॥

क्रयविक्रयकौ नित्यं वस्तूनां भूमिकर्षणम् ।
गवां पालनकं त्रेधा कर्मयुक्तः स वैश्यकः ॥ ५० ॥

त्रिवर्णसेवनं दानं नाममन्त्रं जपेत् परम् ।
पुराणश्रवणं शौद्रं कर्म पौराणिकं द्विजात् ॥ ५१ ॥

अन्त्यजानां पुराणोक्तं कर्म विप्रमुखोद्गतम् ।
नैव शूद्रसमं चान्यदस्पर्शत्वं द्विजादिषु ॥ ५२ ॥

कृतोपवीतको विप्रः क्षत्रियो वैश्य एव यः ।
वेदादिकं समभ्यस्यन् ब्रह्मचर्ययुतो भवेत् ॥ ५३ ॥

भिक्षाशनो भवेन्नित्यं गुरोराज्ञावशानुगः ।
गायत्रीं सञ्जपेन्नित्यं त्रिकालेषु च रोमधृक् ॥ ५४ ॥

सायं प्रातश्च जुहुयात् हविर्नित्यं जितेन्द्रियः ।
षोडशाब्दं द्वादशाब्दं ब्रह्मचर्यं चरेत् परम् ॥ ५५ ॥

पञ्चयज्ञपरो नित्यं नैमित्तं स समाचरेत् ।
कृतदारः प्रजार्थं स ऋतुगामी भवेद् गृही ॥ ५६ ॥

स्त्रीसङ्गं सम्परित्यज्य स्त्रिया युक्तो वसेद्वनम् ।
वन्येन सर्वकर्माणि कुर्यान्नित्यं तपः परम् ॥ ५७ ॥

नखलोमयुतश्चैव न ग्रामेषु प्रवेशयेत् ।
कुर्यादेवं वानप्रस्थो वायुभक्ष्यादिकं चरेत् ॥ ५८ ॥

मनसाऽपि स्मरेन्नैव स्त्रीसङ्गं न्याससंयुतः ।
चित्तनिग्रहसंयुक्तो भिक्षाशी सततं नरः ॥ ५९ ॥

कपर्दिकादिकं किञ्चिन्न स्पृशेत् स कदाचन ।
ब्रह्मणि ब्रह्मभूतत्वं तदर्थं श्रमयेत् सदा ॥ ६० ॥

साक्षिवद् देहसंस्थोऽपि मौनादिदण्डधारकः ।
अथवा दण्डहीनः स ज्ञानदण्डधरो भवेत् ॥ ६१ ॥

एवं सन्न्यासकं कृत्वा सदा तिष्ठेद्यतात्मवान् ।
मुक्तिमार्गमयं शास्त्रं स्पृशेन्नान्यद्विनिश्चितम् ॥ ६२ ॥

वर्णाश्रमविहीनश्चेद्योगी पञ्चमगः स्मृतः ।
विधिनिषेधहीनः स यथा विनायको भवेत् ॥ ६३ ॥

एतत्ते सर्वमाख्यातं स्वधर्माचरणादिकम् ।
येनैव प्राप्यते योगो नरेण ब्रह्मदायकः ॥ ६४ ॥

दक्ष उवाच ।

धर्मार्थकाममोक्षाणां स्वरूपं वद मानद ।
ब्रह्मीभूतस्य भिन्नं मे भ्रमनाशकरं परम् ॥ ६५ ॥

केचिद्धर्मं महाश्रेष्ठमर्थं कामं तु मोक्षकम् ।
परात्परं वदन्त्येव ब्रह्मभूयं तथाऽपरे ॥ ६६ ॥

मुद्गल उवाच ।

धर्मेण ब्रह्मलोकश्च लभ्यते मानवैः परः ।
ब्रह्मा सर्वसमानश्च स्वधर्माख्यः प्रकीर्तितः ॥ ६७ ॥

अर्थः समर्थभावाख्य ईशलोकप्रदायकः ।
ईश्वरान्न समर्थोऽन्यः पश्य ब्रह्माण्डमण्डले ॥ ६८ ॥

कामो भोगात्मकः प्रोक्तो विष्णुलोकप्रदायकः ।
स लक्ष्मीपतिराख्यातो नानाकामप्रदः प्रभुः ॥ ६९ ॥

मुक्तिः सौरात्मिका प्रोक्ता सूर्यः पुरुष उच्यते ।
शुक्लमार्गधरः पूर्णः साक्षात् साक्षी विभावसुः ॥ ७० ॥

ब्रह्मीभूतमयः प्रोक्तः स्वानन्दः पूर्णयोगदः ।
वदन्ति न परं लोकं स्वानन्दाद्वेदवादिनः ॥ ७१ ॥

अन्यच्छृणु प्रजानाथ पञ्चैते योगदायकाः ।
योगार्थवाचकाः सर्वे तत्र भेदं वदाम्यहम् ॥ ७२ ॥

योगधर्मेण योगश्च लभ्यते मानवैः परः ।
न योगादपरः श्रेष्ठस्तेनार्थोऽयं प्रकीर्त्यते ॥ ७३ ॥

योगकामेन योगोऽयं लभ्यते सर्वभावतः ।
मायाया वरणं त्यक्त्वा मोक्षयोगः प्रकीर्त्यते ॥ ७४ ॥

ब्रह्म ब्रह्मणि वेदेषु कथितं नात्र संशयः ।
तत्र योगेन योगी यो ब्रह्मीभूतः स वै स्मृतः ॥ ७५ ॥

धर्मार्थकाममोक्षाख्या योगशास्त्रे विशेषतः ।
भिन्ना मायामयाः प्रोक्ता ब्रह्मीभूतस्तु पञ्चमः ॥ ७६ ॥

ब्रह्मणि ब्रह्मभूतो यो योगी एव स उच्यते ।
न भिन्नः सर्वथा तस्माद्ब्रह्मणो ब्रह्मगः परः ॥ ७७ ॥

॥ ॐ तत्सदिति श्रीमदात्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रेचित्तभूमिनिरोधेन क्षेत्रक्षेत्रज्ञज्ञानयोगो नाम त्रयोदशोऽध्यायः ॥॥ इति योगगीतासूपनिषत्सु सुगमासु नवमोऽध्यायः ॥