१२ शुक्लकृष्णगतियोगः

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।

शुक्लां कृष्णां गतिं ब्रूहि याभ्यां मुक्तिमवाप्नुयात् ।
संसारं च तथा योगिन् दयया सर्वतारक ॥ १ ॥

मुद्गल उवाच ।

कर्मत्वं त्रिविधं विद्धि कर्माकर्मविकर्मगम् ।
स्वधर्मवर्जितं सर्वं कर्म विकर्मसञ्ज्ञकम् ॥ २ ॥

स्वधर्मसंयुतं कर्म भोगवासनया युतम् ।
कर्मसञ्ज्ञं विजानीहि कृष्णगतिपदप्रदम् ॥ ३ ॥

ब्रह्मार्पणतया कर्म स्वधर्मस्थं भवेत् परम् ।
शुक्लगतिमयं विद्धि मुक्तिदं तदकर्मकम् ॥ ४ ॥

आग्नेयं ज्योतिरयनमुत्तराख्यं दिवा तथा ।
शुक्लगतिमयं सर्वं जानीहि मुक्तिदायकम् ॥ ५ ॥

चान्द्रं ज्योति?र्धूमरात्री? दक्षिणायनमेव यत् ।
कृष्णगतिस्वरूपं तज्जानीहि ?जनिमृत्युदम् ॥ ६ ॥

तयोर्भेदं प्रवक्ष्यामि लोकानां हितकाम्यया ।
येन द्वैधं परित्यज्य ब्रह्मणि निरतो भवेत् ॥ ७ ॥

नि:कामिकं कर्म कृत्वा मृतो नरो यदा भवेत् ।
रात्रौ स दक्षिणार्के वा न तं गृह्णन्ति देवताः ॥ ८ ॥

देवभोगांस्तिरस्कृत्य ब्रह्मार्पणपरायणम् ।
नरं तं किं करिष्यन्ति देवाः स्वर्गसुखप्रदाः ॥ ९ ॥

अतो दाहे? स वै दक्ष अग्निज्योतिःस्थगो भवेत् ।
दिवसे समनुप्राप्ते दिवा दैवतगस्तथा ॥ १० ॥

उत्तरायणसम्भूते स गच्छेद्भानुमण्डले ।
प्रलये मण्डलस्यैव नाशे पुरुषगो भवेत् ॥ ११ ॥

महाप्रलयवेलायां प्रकृतेः पुरुषस्य च ।
नाशे ब्रह्मणि गच्छेत् स ब्रह्मभूतो भवेत्ततः ॥ १२ ॥

सकामकं कर्म कृत्वा दिवसे उत्तरायणे ।
मृतं नरं न तं भानुर्गृह्णाति कामनायुतम् ॥ १३ ॥

सदाघे धूमसंस्थश्च यदा रात्रिः समागता ।
तदा तस्यां समाश्रित्य तथा तिष्ठेत् प्रजापते ॥ १४ ॥

दक्षिणायनमानन्दादागतं वीक्ष्य तत्क्षणात् ।
विमानवरमारुह्य गच्छेत् स्वर्गं विहायसा ॥ १५ ॥

चान्द्रं ज्योतिः समाश्रित्य भोगान् भुङ्क्ते स्वकर्मजान् ।
कर्मप्रमाणमार्गेण नानास्वर्गपरायणः ॥ १६ ॥

विधिं तत्र प्रवक्ष्यामि चन्द्रकलासमुद्भवम् ।
अमृतं देवलोकेषु स्वर्गेषु भोगदं परम् ॥ १७ ॥

इह कर्म कृतं पूर्णं नरैस्तदमृतात्मकम् ।
भवति चन्द्रगं सर्वं तेन कलायुतो भवेत् ॥ १८ ॥

शुक्लपक्षे क्रमेणायमेकैककलया प्रभुः ।
वृद्धियुक्तः स्वयम्पूर्णः पूर्णिमायां प्रदृश्यते ॥ १९ ॥

कृष्णपक्षे सुराः सर्वे क्रमेणामृतभोजिनः ।
पिबन्ति चन्द्रसंस्थं तदमृतं तृप्तिकारकम् ॥ २० ॥

तेन तृप्तियुताः सर्वे भवन्ति मासमानतः ।
अमायां पतितश्चन्द्र ओषधीषु न संशयः ॥ २१ ॥

अत ओषधयश्छेद्या नरेण नैव निश्चितम् ।
अमायां चन्द्रसंयोगयुक्ताः सुखपरायणाः ॥ २२ ॥

अतश्चन्द्रभवं सर्वममृतं देवभूमिषु ।
चान्द्रः स्वर्ग इति प्रोक्तस्तेनैवं वेदवादिभिः ॥ २३ ॥

देवानां विविधानां स कर्म कृत्वा सकामकम् ।
कर्माङ्गदेवमभ्यर्च्य गच्छेत् समर्प्य तत्क्रियाम् ॥ २४ ॥

तत्तल्लोकसुखं भुक्त्वा नानाभोगसमन्वितम् ।
भोगान्ते पुनरेवाऽसौ मेघमण्डलगो भवेत् ॥ २५ ॥

तत्र जलमयो भूत्वा पतेद् वृष्ट्या स भूमिषु ।
तत ओषधिगो भूत्वा भवेदन्नमयस्ततः ॥ २६ ॥

[[४३]]

ततो वीर्यं समाश्रित्य गच्छेत् स जठरे स्त्रियः ।
तत्र तत्त्वानि तं दक्ष आविशन्ति न संशयः ॥ २७ ॥

क्षेत्रज्ञः संस्थितस्तत्र तत्त्वैः क्षेत्रं विनिर्ममे ।
विधिं तस्य प्रवक्ष्यामि गर्भोपनिषदि भवम् ॥ २८ ॥

तत्रैकदिवसेनैव स्त्रीवीर्ये रक्तसंश्रिते ।
तस्मिन् सम्मिलनं कृत्वा तदाकारो भवेन्नरः ॥ २९ ॥

ततस्त्रिदिवसैः सोऽपि फेनरूपो भवेन्नरः ।
?बुहुदः पञ्चदिवसैः पेशी सप्तदिनैस्तथा ॥ ३० ॥

ततश्चतुर्दशैः सोऽपि दिवसैः फुल्लतां गतः ।
पञ्चविंशतिभिस्तत्र मांसरूपो भवेत् स्वयम् ॥ ३१ ॥

मासेन कठिनत्वं स प्रगच्छेत्तत्र संस्थितः ।
द्विमासाभ्यां शिरो युक्तो भवेत्तत्र प्रजापते ॥ ३२ ॥

त्रिमासैः कण्ठसंयुक्तश्चतुर्मासैस्त्वचा युतः ।
पञ्चमासैर्भवेज्जन्तुरिन्द्रियैः संयुतः क्रमात् ॥ ३३ ॥

अवयवादिसंयुक्तो नखरोमसमन्वितः ।
भवेन् मुखेन संयुक्तो मासैः षड्भिर्न संशयः ॥ ३४ ॥

तत इन्द्रियसम्भूतं ज्ञानं भवेत् क्रमेण वै ।
षण्मासैः परिपूर्णैश्चाऽऽकृतिः पूर्णा भवेत् परा ॥ ३५ ॥

पूर्वकर्मानुसारेण यादृशी योनिराभवेत् ।
तादृशाकृतिसंयुक्त इन्द्रियैश्च समन्वितः ॥ ३६ ॥

सप्तमासैर्भवेज्जन्तुश्चेतनया समन्वितः ।
उदरे प्रचरेत् सोऽपि मातुर्दुःखसमन्वितः ॥ ३७ ॥

अवकाशविहीनः स पीडितो जन्तुभिः सदा ।
मूर्च्छां गच्छेत् पुनः सञ्ज्ञां कोमलोऽतीव मानवः ॥ ३८ ॥

अष्टमासैस्ततस्तत्र बुद्धियुक्तो भवेन्नरः ।
साङ्ख्ययोगपरो भूत्वा ध्यायेद्ब्रह्म सनातनम् ॥ ३९ ॥

अतिसङ्कोचभावेन पीडितो जन्तुभिस्तथा ।
मातुर्भक्ष्यान्नदोषैः स वेदनासंयुतो भवेत् ॥ ४० ॥

गर्भदुःखं स विज्ञाय तन्निवृत्त्यर्थमादरात् ।
साङ्ख्ययोगपरो भूत्वा भजेत्तं गणनायकम् ॥ ४१ ॥

ततस्तत्र भवेत्तस्य ज्ञानं परमसौख्यदम् ।
तेनानन्तभवानां स दृष्ट्वा दुःखं निवृत्तिगः ॥ ४२ ॥

अनन्यमनसा देवं स्तुयात् स्तोत्रैर्महामतिः ।
गर्भवासप्रशान्त्यर्थं ब्रह्म भूयार्थमादरात् ॥ ४३ ॥

गर्भ उवाच ।

नमस्ते गणनाथाय ब्रह्मणे ब्रह्मरूपिणे ।
अनाथानां प्रणाथाय विघ्नेशाय नमो नमः ॥ ४४ ॥

ज्येष्ठराजाय देवाय देवदेवेशमूर्तये ।
अनादये परेशाय चादिपूज्याय ते नमः ॥ ४५ ॥

सर्वपूज्याय सर्वेषां सर्वरूपाय ते नमः ।
सर्वादये परब्रह्मन् सर्वेशाय नमो नमः ॥ ४६ ॥

गजाकारस्वरूपाय गजाकारमयाय ते ।
गजमस्तकधाराय गजेशाय नमो नमः ॥ ४७ ॥

आदिमध्यान्तभावाय स्वानन्दपतये नमः ।
आदिमध्यान्तहीनाय त्वादिमध्यान्तगाय ते ॥ ४८ ॥

सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे ।
सिद्धिबुद्धिमयायैव ब्रह्मेशाय नमो नमः ॥ ४९ ॥

शिवाय शक्तये चैव विष्णवे भानुरूपिणे ।
मायिनां मायया नाथ मोहदाय नमो नमः ॥ ५० ॥

किं स्तौमि त्वां गणाधीश यत्र वेदादयोऽपरे ।
योगिनः शान्तिमापन्ना अतस्त्वां प्रणमाम्यहम् ॥ ५१ ॥

रक्ष मां गर्भदुःखात्त्वं त्वामेव शरणागतम् ।
जन्ममृत्युविहीनं वै कुरुष्व ते पदप्रियम् ॥ ५२ ॥

एवं संस्तुतवन्तं तं नवमासादनन्तरम् ।
प्रसूतिजो महावायुर्बहिः कुर्यान्नरं क्षणात् ॥ ५३ ॥

वायुना चालितः सोऽपि मुमूर्च्छ दुःखसंयुतः ।
सङ्कीर्णाङ्गः पतेज्जन्तुर्धरण्यां योनिमार्गतः ॥ ५४ ॥

भवेत् स सावधानोऽत्र विस्मृतो ज्ञानमुत्तमम् ।
बालभावधरः कुर्याद्रोदनं धरणीतले ॥ ५५ ॥

फलहीनं भवेत् सर्वं गर्भागारकृतं महत् ।
ज्ञानादिकमतो भूमौ साधयेत् सर्वमञ्जसा ॥ ५६ ॥

न साधितं नरेणात्र कर्मभूमौ प्रजापते ।
ज्ञानादिकं तदा सोऽपि गर्भजं दुःखमश्नुते ॥ ५७ ॥

एवं कृष्णा गतिश्चैव कथिता ते विशेषतः ।
जन्ममृत्युकरी जन्तोः सुखदुःखप्रदायिनी ॥ ५८ ॥

इदं गर्भकृतं स्तोत्रं यः पठिष्यति मानवः ।
स भुक्त्वा सकलान् भोगानन्ते स्वानन्दगो भवेत् ॥ ५९ ॥

न कदाचिल्लभेत् सोऽपि गर्भवासं प्रजापते ।
अतो विशेषतो जन्तुर्निरन्तरमिदं जपेत् ॥ ६० ॥

अधुना कथयिष्यामि ह्यन्यमर्थं सुखप्रदम् ।
शुक्लकृष्णगतिसंस्थं येन ज्ञानं तयोर्भवेत् ॥ ६१ ॥

?भक्तिमुक्तिप्रलोभार्थं नरः कुर्यान्निरन्तरम् ।
कर्म स्वधर्मसंयुक्तो नानादैवं स योगवित् ॥ ६२ ॥

उत्तरायणगे भानौ दिवसे वा मृतो भवेत् ।
स चाग्निलोकमासाद्य तपोयुक्तो भवेत् सदा ॥ ६३ ॥

तत्र भोगेप्सुतां ज्वाल्य गच्छेच्छक्तिं महामतिः ।
तत्राभिमानमृत्सृज्य गच्छेत् दिवं दिवाकरम् ॥ ६४ ॥

अतिध्यानेन संयुक्तस्तत्रात्मानं स चिन्तयेत् ।
अन्तरात्मानमुत्सृज्य गच्छेद्विकुण्ठमेव च ॥ ६५ ॥

तत्रानन्दं परित्यज्य शिवं गच्छेन्न संशयः ।
तत्र साक्षित्वमुत्सृज्य गच्छेत् स्वानन्दमञ्जसा ॥ ६६ ॥

तत्र गणेश्वरं दृष्ट्वा ब्रह्मीभूतो नरो भवेत् ।
शुक्लगतिप्रभावेण कथितं ते प्रजापते ॥ ६७ ॥

यदा दक्षिणगे भानौ रात्रौ वा स मृतो भवेत् ।
भुक्तिमुक्तिपरः सोऽपि गच्छेत् स्वर्गं ततो नरः ॥ ६८ ॥

नानास्वर्गफलं भुक्त्वा स्वकर्मनिर्मितं नरः ।
पुनः पतेद्विधे भूमौ तत्र मोक्षरुचिर्भवेत् ॥ ६९ ॥

ततः शुक्लां समाश्रित्य मोक्षं गच्छेत् स योगवित् ।
एवं जानीहि भो दक्ष गत्योर्मार्गं पुरातनम् ॥ ७० ॥

यदैकदेवतां श्रित्वा तद्भक्तस्तत्परः सदा ।
उपासनाविधानेन स्वधर्मस्थो भजेत् स ताम् ॥ ७१ ॥

स मृतः स्वेष्टदेवस्य लोकं गच्छेन्न संशयः ।
तत्क्षणाच्चन्द्रसूर्याख्यौ मार्गौ नैव प्रकीर्तितौ ॥ ७२ ॥

तत्र भोगान् प्रभुञ्जानः स पतेदिह निश्चितम् ।
त्रिगुणात्ममया देवास्तेषां नाशे प्रजापते ॥ ७३ ॥

यदा गणेश्वरं सोऽपि भजेदत्रैव मानवः ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मीभूतो भविष्यति ॥ ७४ ॥

स्वानन्दो नाशहीनश्च सदा ब्रह्मसुखप्रदः ।
अतः स्वानन्दमाश्रित्य ब्रह्मीभूतो भविष्यति ॥ ७५ ॥

मरणे ?दाघहीनश्चेत्तेजस्तत्त्वं समाश्रितः ।
अथवा धूम्रतत्त्वं स शुक्लकृष्णगतिश्रितः ॥ ७६ ॥

पूर्ववत् सर्वमाख्यातं तस्य सर्वं प्रजापते ।
एवं विस्तरतो गत्योः कथितं ते प्रजापते ॥ ७७ ॥

[[१३]]

अतो गणेश्वरं दक्ष समाश्रय हितप्रदम् ।
योगक्षेमं स ते कुर्यादनन्यचेतसः सदा ॥ ७८ ॥

न शुक्ला नैव कृष्णा ते भविष्यति गतिः कदा ।
ब्रह्मभूयमयं भावं प्राप्स्यसे नात्र संशयः ॥ ७९ ॥

॥ ॐ तत्सदिति श्रीमदात्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रेचित्तभूमिनिरोधेन शुक्लकृष्णगतियोगो नाम द्वादशोऽध्यायः ॥॥ इति योगगीतासूपनिषत्सु सुगमासु अष्टमोऽध्यायः ॥