१० विभूतियोगः

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।

विभूतीर्वद योगीश गणेशस्य महात्मनः ।
या ज्ञात्वा ताः समाराध्य गणेशज्ञो भवेन्नरः ॥ १ ॥

मुद्गल उवाच ।

अपारा गणनाथस्य विभूतयो न संशयः ।
ता न शक्ताः कथयितुं भवन्ति शङ्करादयः ॥ २ ॥

क्षणे क्षणे गणेशानो नानाखेलपरायणः ।
विभूतिभिर्जगत्सर्वं भावयति परात्परः ॥ ३ ॥

लोकेषु तत्त्वमुख्येषु जगत्सु ब्रह्मसु प्रभोः ।
ये श्रेष्ठास्तस्य ते सर्वे विभूतिपदधारकाः ॥ ४ ॥

कल्पे कल्ये विभूतीनामवतारा असङ्ख्यकाः ।
गणेशस्य तथा दक्ष तान् वक्तुं कः क्षमो भवेत् ॥ ५ ॥

अतः सङ्क्षेपतस्तुभ्यं कथयिष्यामि ताः शृणु ।
विभूतीर्गणनाथस्य नानासिद्धिप्रदायिनीः ॥ ६ ॥

जगत्सु ब्रह्मसु प्राज्ञ योगरूपो गजाननः ।
कथं न भिन्नभावाख्यं वर्तते वर्णयाम्यहम् ॥ ७ ॥

मायाभ्यां संयुतः सोऽपि नानावेषप्रधारकः ।
अयोगिनामिदं हृद्यं सत्यं सम्भासते सदा ॥ ८ ॥

मायायुक्तप्रभावेण किं किं गजाननस्य च ।
न सम्भवेदहं मायां समाश्रित्य वदामि ताः ॥ ९ ॥

[[३७]]

कलांशाः कलया युक्ताः कलांशांशाः कलात्मकाः ।
तेषामंशधरा ये ते सर्वे विभूतिधारकाः ॥ १० ॥

एवमेव गणेशानः पृष्टश्च नारदेन सः ।
जगाद ताः शृणुष्व त्वं विभूतीः परमाद्भुताः ॥ ११ ॥

श्रीगणेश उवाच ।

पूर्णो योगेषु सर्वेषु चित्तरोधमयः परः ।
मायाहीनप्रभावाणामयोगोऽहं महामुने ॥ १२ ॥

स्वानन्दो निजभूतेषु तुर्येष्वव्यक्तसञ्ज्ञितः ।
आनन्दसमभावेषु जीवेष्वात्माहमञ्जसा ॥ १३ ॥

नानाभेदेषु ब्रह्माहमसद्रूपप्रधारकम् ।
सत्येषु साङ्ख्यरूपोऽहं बोधः खेलकरेषु च ॥ १४ ॥

देहाभिमानयुक्तेषु सदैकोऽहं महामते ।
देहेषु बिन्दुरूपोऽहं चेतनासु गुणेश्वरः ॥ १५ ॥

कोशेष्वानन्दकोशोऽहं विज्ञानं सूक्ष्मजातिषु ।
विवेकेषु मनश्चाहं चालकेषु समीरणः ॥ १६ ॥

स्थूलेष्वन्नस्वरूपोऽहं समष्टिषु तथेश्वरः ।
व्यष्टिषु प्राज्ञरूपोऽहमणुषु च महाविराट् ॥ १७ ॥

इन्द्रियेषु मनश्चाहं भूतेष्वाकाशसञ्ज्ञितः ।
तन्मात्राणामहं शब्दो ज्ञाताहं देवतासु च ॥ १८ ॥

तत्त्वेषु विविधेष्वेव महत्तत्त्वमहं परम् ।
गुणेषु गुणपोऽहं तु पालकेषु जनार्दनः ॥ १९ ॥

हरः संहारकर्तॄणां स्रष्टॄणां प्रपितामहः ।
कर्मणामर्यमाऽऽत्माऽहं मोहकानां च शक्तिका ॥ २० ॥

देवानां मघवाऽहं तु आदित्यानां विनायकः ।
तेजसां भानुरूपोऽहममृतेषु विधुः परः ॥ २१ ॥

अग्निः प्रतापदेष्वेव धर्मः समप्रवृत्तिषु ।
यमो यमवतां चाहं रक्षसां निर्ऋतिः स्वयम् ॥ २२ ॥

जलेषु वरुणोऽहं तु बलवत्सु समीरणः ।
निधीनां धनदाताऽहं रुद्राणां शङ्करः प्रभुः ॥ २३ ॥

कामो धनुर्धराणां च रतिर्भोगेषु भोगदा ।
नागेशानामहं शेषः सर्पाणां तक्षकः स्वयम् ॥ २४ ॥

नागानां वासुकिर्नाम जम्बुर्द्वीपेषु सर्वदः ।
स्वादूदकः समुद्राणां पर्वतेषु हि मेरुकः ॥ २५ ॥

पितॄणां यमरूपोऽहं वृक्षेषु शमिका मता ।
देववृक्षेषु मन्दारस्तरूणां कामदायकः ॥ २६ ॥

धेनूनां कामधेनुर्या दूर्वा चौषधिषु प्रभुः ।
पक्षिषु तु मयूरोऽहं मृगाणां सिंहरूपधृक् ॥ २७ ॥

मासानां श्रावणश्चाहं चौराणां मूषकाधिपः ।
वाहनेष्वश्ववाहोऽहं सिद्धिरैश्वर्यदेषु च ॥ २८ ॥

विद्यासु बुद्धिरूपोऽहं चित्तं प्रकाशकारिणाम् ।
अहं मनश्च वेगानां मोहदेष्वभिमानकः ॥ २९ ॥

नराधिपो नराणां तु वर्णेषु ब्राह्मणोह्यहम् ।
आश्रमेषु तुरीयोऽहं पोषकेषु गृहस्थकः ॥ ३० ॥

त्यागिनामवधूतोऽहं तिथीनां च चतुर्थिका ।
प्रजापतिषु दक्षोऽहं ब्रह्मर्षिषु भृगुस्तथा ॥ ३१ ॥

नारदो दैवतर्षीणां दत्तोऽवधूतरूपिणाम् ।
कपिलस्तत्त्वविज्ञानां योगिनां शुक एव यः ॥ ३२ ॥

जनकोऽहं विदेहानां निःसङ्गेषु महामुने ।
सनकादय एवाऽहं ज्ञानिनां बादरायणः ॥ ३३ ॥

वसिष्ठः कर्मकर्तॄणां गाणपत्येषु मुद्गलः ।
भ्रूशुण्डी चैकनिष्ठेषु ब्रह्मिष्ठानां बृहस्पतिः ॥ ३४ ॥

अन्नानां तिलरूपोऽहं गव्यानां घृतमञ्जसा ।
मधु सर्वरसानां च मकरो जलजात्मनाम् ॥ ३५ ॥

कौमण्डली नदीनां च तीर्थेषु गाणपं परम् ।
क्षेत्राणां मयूरक्षेत्रं काशिराजः सुबुद्धिषु ॥ ३६ ॥

मयूरेशोऽवताराणां गार्ग्य उपासकात्मनाम् ।
ध्याननिष्ठेषु सर्वेषु गृत्समदोऽहमेव च ॥ ३७ ॥

सुबोधौ दैत्यजातीनां ज्ञानारिर्द्वेषकारिणाम् ।
दुर्जयेषु मनश्चाहं वर्णेष्वोङ्कार एव सः ॥ ३८ ॥

शुक्रोहं भाविकेष्वेव त्रिशिराः शुद्धचेतसाम् ।
उपदेशप्रदातॄणां याज्ञवल्क्यः प्रतापवान् ॥ ३९ ॥

पौराणिकेषु सूतोऽहं श्रोतॄणां शौनको मुनिः ।
सेनानीनामहं स्कन्दो विष्णुर्यशस्विनामहम् ॥ ४० ॥

पापेष्वनृतरूपोऽहं कलहो भेदधारिणाम् ।
प्राप्तिषु लोभरूपोऽहं मणीनां चिन्तितार्थदः ॥ ४१ ॥

ज्ञानं पवित्रं भावानां सामगायकधर्मिणाम् ।
वेदेष्वथर्वसञ्ज्ञोऽहं शस्त्रेषु परशुः परः ॥ ४२ ॥

निर्लेपानामहं साक्षी राजश्रीषु गजस्तथा ।
विषयो भ्रान्तिदानां च रम्भा ह्यप्सरसामहम् ॥ ४३ ॥

गन्धर्वाणां चित्ररथो वैद्यानां वैद्यनायकः ।
धन्वन्तरिस्तु भिषजां समुद्रः सरसात्मनाम् ॥ ४४ ॥

स्रोतसां जाह्नवी विप्र मन्त्राणामेकवर्णजः ।
सूक्तेषु ब्राह्मणस्पत्यं यज्ञेषु ज्ञानरूपधृक् ॥ ४२ ॥

प्राणेषु तु समानोऽहं शक्तिः शक्तिमतामहम् ।
बृहदारण्यकं विद्धि नानोपनिषदां परम् ॥ ४६ ॥

शास्त्रेषु योगशास्त्रं च पुराणेषु च मौद्गलम् ।
अरण्यानां महारण्यं दण्डकाख्यमहं परम् ॥ ४७ ॥

नियन्तॄणामहं दण्डो मायाऽहं भावकारिणाम् ।
स्मृतीनां याज्ञवल्क्यस्य स्मृतिरेव परा मता ॥ ४८ ॥

गायत्री छन्दसां विप्र स्वानन्दो नगरात्मनाम् ।
व्याकरणमङ्गभूतेषु कलासु योगदा ह्यहम् ॥ ४९ ॥

नीतिज्ञेषु तथा काव्यो वृषभो भूमिधारिणाम् ।
नन्दिकेशो गवां चाहं नग्नो भैरवभाविनाम् ॥ ५० ॥

एवं नानाविधाऽऽकारा विभूतीर्गणपस्य या ।
कथितुं नैव शक्या सा सारा सङ्कथिता मया ॥ ५१ ॥

यद्यच्छ्रेष्ठतमं विप्र सा विभूतिर्न संशयः ।
लोकेषु गणराजस्य तां भावय विशेषतः ॥ ५२ ॥

मुद्गल उवाच ।

एवमुक्त्वा गणेशानो विरराम प्रजापते ।
नारदस्तं प्रणम्यैव जगाम तादृशोऽभवत् ॥ ५३ ॥

य इमां श्रावयेद्दक्ष शृणुयाद्वा प्रयत्नतः ।
न मोहं स लभेत् क्वापि ज्ञात्वा सामर्थ्यजं महः ॥ ५४ ॥

अपारमहिमायुक्ता जीवाश्च परमेश्वराः ।
ते सर्वे विघ्नराजस्य विभूतिपदधारकाः ॥ ५५ ॥

एवं ज्ञात्वा गणेशानं ये भजन्ति मनीषिणः ।
ते सर्वे ब्रह्मभूताश्च भविष्यन्ति प्रजापते ॥ ५६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रेचित्तभूमिनिरोधेन विभूतियोगो नाम दशमोऽध्यायः ॥॥ इति योगगीतासूपनिषत्सु सुगमासु षष्ठोऽध्यायः ॥

[[३९]]