०९ क्रमयोगवर्णनम्

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।

चित्तं चञ्चलमत्यन्तं विषयेषु परायणम् ।
दुर्ग्रहं शान्तिसंयुक्तं न भवेन् मुनिसत्तम ॥ १ ॥

अतो योगस्य प्राप्त्यर्थं सिद्ध्यर्थं सुगमं ततः ।
उपायं वद चित्तस्य जयार्थं वाऽपरं प्रभो ॥ २ ॥

मुद्गल उवाच ।

पञ्चचित्तेषु यद्बिम्बं स्थितं भ्रान्त्या समन्वितम् ।
चिन्तामणेः समाख्यातं तस्यैव भजनं चरेत् ॥ ३ ॥

तेन चित्तं जयेद्योगी नान्यं पश्यामि भो विधे ।
विना चित्तजयं योगदायकं नात्र संशयः ॥ ४ ॥

दक्ष उवाच ।

सुगमं वद मार्गं मे सर्वेभ्यो ब्रह्मदायकम् ।
संसेव्य जन्तवः सर्वे ब्रह्मीभूता भवन्ति वै ॥ ५ ॥

मुद्गल उवाच ।

अज्ञानेन समायुक्तो नरो विषयलम्पटः ।
शिश्नोदरपरो नित्यं योगं नेच्छति कर्हिचित् ॥ ६ ॥

तस्य सकामिकं कर्म सुखदं बोधयेत् परम् ।
अलभ्यप्रापकं हृद्यमाचरेल्लोभसंयुतः ॥ ७ ॥

अलभ्यलभ्यलोभेन त्यक्त्वा पापं महाखलः ।
सत्कर्मनिरतो भूत्वा चरेत् पुण्यं निरन्तरम् ॥ ८ ॥

ततस्तेनैकभावेन पापं नश्येन्निरन्तरम् ।
शुद्धोऽत्यन्तं नरः कुर्यात् कर्म कामयुतं परम् ॥ ९ ॥

समाप्नुयात्ततोऽलभ्यं हृद्यं चेत् पुनरेव सः ।
विश्वासेन समायुक्तः कुर्यात् कर्म विशेषतः ॥ १० ॥

अथवा नैव सम्प्राप्तमलभ्यं तेन तं तदा ।
उपादिशेद्विशेषेणाधिकं सत्कर्म चाचर ॥ ११ ॥

अनन्तजन्मभिः पापं त्वया कृतमसंशयम् ।
अपारमन्तरायो भवति ते तद्विघातकम् ॥ १२ ॥

एवं कर्मपरः सोऽपि दुःखितोऽत्यन्तमाचरेत् ।
पापनाशार्थमानन्दात्तेन शुद्धान्तरो भवेत् ॥ १३ ॥

सत्कामिकपरस्यास्य कर्मात्यन्तप्रभावतः ।
तस्य बुद्धिर्भवेत् दक्ष निःकामिकपरायणा ॥ १४ ॥

जन्ममृत्युप्रदा भोगा भुक्ता विविधजन्मसु ।
अपारसुखदं ब्रह्म न प्राप्तं देहधारिणा ॥ १५ ॥

अलभ्यं न मया प्राप्तं प्रारब्धाधीनतोऽथवा ।
प्रारब्धं चालितुं कोऽपि न समर्थो भविष्यति ॥ १६ ॥

अतो निःकामिकं कर्म करोमि नित्यमादरात् ।
जन्ममृत्युविहीनोऽहं भविष्यामि न संशयः ॥ १७ ॥

ब्रह्मसुखमपारं यल्लब्ध्वा ब्रह्मपरायणः ।
ब्रह्मीभूतो भविष्यामि यत्नं करोमि तत्परः ॥ १८ ॥

एवं धार्य परित्यज्य कामान् सेवेत् स पञ्चकान् ।
देवान् गणेशमुख्यांश्च मुक्तिमार्गपरायणः ॥ १९ ॥

सालोक्यादिभवं सौख्यमिच्छति नित्यमादरात् ।
क्रमेण तपसा युक्तो प्रभवेन् मानवस्ततः ॥ २० ॥

विभूतिर्ब्रह्मणः प्रोक्ता नानारूपा प्रजापते ।
तत्र तस्य रमेच्चित्तमैश्वर्यैर्युक्तभावतः ॥ २१ ॥

इमे समर्थरूपा वै ब्रह्मणः परमात्मनः ।
अंशतेजोधरास्तस्य सर्वाधीशा भवन्त्यतः ॥ २२ ॥

एवं सर्वत्र सञ्चिन्त्य तेषां पूजापरो भवेत् ।
लभेत्तत् कृपया दक्ष चित्तशुद्धिं नरोत्तमः ॥ २३ ॥

विचारेण गणेशानं ज्ञात्वा सम्पूर्णमञ्जसा ।
सर्वपूज्यादिचिह्नैस्तं श्रेष्ठं तत्र रतो भवेत् ॥ २४ ॥

ज्ञात्वा स्वानन्दनाथं तं स्वानन्दार्थं विशेषतः ।
प्रभजेद्गणराजं स निष्कामभक्तिसंयुतः ॥ २५ ॥

ततोऽहर्निशमत्यन्तं भजेत्तत्तपसा युतः ।
मोक्षार्थं सर्वभावेन विरक्तो विषयादिषु ॥ २६ ॥

[[३३]]

गणेशकृपया तस्य चित्तशुद्धिर्भवेत् परा ।
तया सर्वस्वभावेन भजेत्तं गणनायकम् ॥ २७ ॥

विश्वं चराचरं सर्वं जानीयात्तत्स्वरूपकम् ।
सर्वेषां हितभावेन भजेत्तं द्विरदाननम् ॥ २८ ॥

कस्यापि सम्भवेत् दुःखं तादृशं प्रचरेन्न सः ।
सहन् सन् द्वन्द्वजं भावमार्जवेन समन्वितः ॥ २९ ॥

देवकार्यं विना साधुर्न छिन्द्यात् स कदाचन ।
पत्रादिकं विशेषेण विश्वरूपपरायणः ॥ ३० ॥

एकान्ते निर्जने स्थाने स्थित्वा ध्यात्वा गजाननम् ।
पूजयेद्भक्तिसंयुक्तो ध्यानं कुर्याद्विशेषतः ॥ ३१ ॥

अनन्यमनसा देवं भजेत्तं भावधारकः ।
शमदमपरो भूत्वा चित्तनिग्रहमाचरेत् ॥ ३२ ॥

दुर्जयं चित्तमत्यन्तं ज्ञात्वा वायुनिबन्धतः ।
प्राणायामपरो भूत्वा जयेत्तन्नात्र संशयः ॥ ३३ ॥

अथ वायुनिरोधस्य वदामि मार्गमुत्तमम् ।
येन पापं परित्यज्य शुद्धचित्तो नरो भवेत् ॥ ३४ ॥

पूरयेद्वामनासायां वायुं तस्माच्चतुर्गुणम् ।
धारणं तस्य कुर्यात् स स्वोदरे नियतो भवेत् ॥ ३५ ॥

पूरकाद् द्विगुणं कुर्याद्रेचकं च प्रजापते ।
पुनर्नसा दक्षिणया पूरयेत् कुम्भकं चरेत् ॥ ३६ ॥

वामया रेचकं चैव पुनः पुनर्निरन्तरम् ।
प्राणायामं चरेद् धीमान् पापहीनो नरो भवेत् ॥ ३७ ॥

एवं त्रैकालिकं कुर्यात् प्राणायामं विशेषतः ।
नातिनिरोधसंयुक्तं वायुं हठसमन्वितः ॥ ३८ ॥

अतिहठेन संरुद्धो वायू ?रोमभ्य एव च ।
निःसृत्य कुष्ठसंयुक्तं तं करोति न संशयः ॥ ३९ ॥

नाभिमूलस्थिता नाडी इडा च पिङ्गलाऽपरा ।
सुषुम्णा तत्र रोधेन मार्गो भवति निर्मलः ॥ ४० ॥

अपानो नाभिमूलस्थो ह्यधो गच्छति सर्वदा ।
प्राण ऊर्ध्वं तथा जन्तोर्नाडीभिः प्रेरितः सदा ॥ ४१ ॥

मार्गरोधनभावेन नाड्यां मार्गो भविष्यति ।
वायुर्मूलं समाश्रित्य तिष्ठति क्रमतस्ततः ॥ ४२ ॥

तत्र लघ्वक्षराण्येव द्वादशापि प्रतिष्ठति ।
वायुश्चेत् स लघुः प्रोक्तः प्राणायामश्च योगिभिः ॥ ४३ ॥

ततो द्विगुणतस्तिष्ठेद्यदा वायुः सुरोधितः ।
मध्यमः स समाख्यातस्त्रिगुणादुत्तमोत्तमः ॥ ४४ ॥

एवं प्राणमपानं च स्वमूले सन्नयेद् बुधः ।
तयो रोधनभावेन मूलगौ तौ भविष्यतः ॥ ४५ ॥

एवं क्रमेण मूलेऽयं वायुर्मुहूर्तं संस्थितः ।
तदा समानगा नाडी भिद्यते तत्र संस्थिता ॥ ४६ ॥

सा सुषुम्णा समाख्याता तत्र सम्मिलितौ क्रमात् ।
प्राणापानौ समौ भूत्वा तद्रूपौ तौ भविष्यतः ॥ ४७ ॥

त्रिकालज्ञः स्वयं सिद्धो भविष्यति नरोत्तमः ।
वायुसाधनपात्रत्वं प्राप्य तेजःसमन्वितः ॥ ४८ ॥

ततः स्वाधीनतां यातौ प्राणापानौ विशेषतः ।
स नयिष्यति तौ यत्र क्रमात्तत्र गमिष्यतः ॥ ४९ ॥

ततो ध्यानपरो भूत्वा षट्चक्रभेदने रतः ।
चक्रस्थं स्वस्वरूपं स पश्येत्तद्वायुना गतः ॥ ५० ॥

एवं क्रमेण योगीन्द्रो गच्छेद्भेद्य प्रजापते ।
सहस्रारे स चक्राणि तत्र पश्येद्गजाननम् ॥ ५१ ॥

[[९]]

तत्र क्रमेण वायुं संस्थापयेत् सुसमाधिना ।
वायुना संयुतस्तिष्ठेत् पश्यन् विघ्नेश्वरं परम् ॥ ५२ ॥

क्रमाद्वायुबलेनैवं शुद्धचित्तो भविष्यति ।
पश्येत् सर्वत्र भावेषु स्थितं ब्रह्म सनातनम् ॥ ५३ ॥

ततः स्वाधीनतायुक्तः प्रभवेत् स्वेन तेजसा ।
यं यमिच्छेत् स तं तं तु सद्यो वै सफलं भवेत् ॥ ५४ ॥

किञ्चिदिच्छेन्न यो योगी तदा योगमवाप्नुयात् ।
नो चेच्छन्दरतो भूत्वा भोगयुक्तः पुनः पतेत् ॥ ५५ ॥

साधनं द्विविधं प्रोक्तं क्रियारूपं प्रजापते ।
बाह्यं कर्मस्वरूपाख्यं तपोयुक्तं स्वधर्मजम् ॥ ५६ ॥

आन्तरं वायुरोधाख्यं सर्वसिद्धिप्रदायकम् ।
ताभ्यां चित्तं विनिर्गृह्य स्ववशं कारयेन्नरः ॥ ५७ ॥

बाह्यकर्मरताज्जन्तोरान्तरं शीघ्रसिद्धिदम् ।
सहस्राधिकभावाख्यं प्रोक्तं योगीन्द्रमुख्यकैः ॥ ५८ ॥

अतः परं तृतीयं ते साधनं कथयाम्यहम् ।
येन योगीन्द्रसेव्यः स ध्रुवं भवति मानवः ॥ ५९ ॥

चित्तशुद्धेश्च कार्यार्थं कर्म द्विविधमुच्यते ।
शुद्धचित्तो नरः पश्चात् सम्पश्येद्ब्रह्म शाश्वतम् ॥ ६० ॥

सर्वत्र पूर्णभावेन संस्थितं परमव्ययम् ।
अवयवादिभिर्हीनं तत्र लीनो भवेत् स्वयम् ॥ ६१ ॥

एतावान् फलादाताऽयं क्रियायोगः प्रकीर्तितः ।
बाह्यान्तरात्मकः पूर्णस्ततोऽन्यत् साधनं चरेत् ॥ ६२ ॥

चित्तं रसयुतं कुत्र जायते योगिनः परम् ।
तज्जयेद्ब्रह्मभावेन शमदमपरायणः ॥ ६३ ॥

स्वधर्मसंयुतो भूत्वा देहनिर्वाहकं चरेत् ।
देहस्य शमनं तच्च जायते स दमः स्मृतः ॥ ६४ ॥

विषयार्थं मनस्तस्य सङ्कल्पं यत् समाचरेत् ।
तन्नेच्छेच्चित्तमागृह्य कुर्याद्ब्रह्मपरायणम् ॥ ६५ ॥

अयं शमः समाख्यातस्तेन चित्तं भवेत् परम् ।
स्वाधीनं सर्वभावं च त्यक्त्वा ब्रह्मपरं भवेत् ॥ ६६ ॥

शनैः शनैरुपरमेद्विषयेभ्यो महात्मवान् ।
धृतिं योगमयीं धृत्वा भवेद्योगी स मानवः ॥ ६७ ॥

कर्ममार्गं परित्यज्य द्विविधं योगिसत्तमः ।
ध्यानयोगपरो भूत्वा तिष्ठेन्नित्यं वदामि तम् ॥ ६८ ॥

मनोवाणीविहीनं यद्ब्रह्म तत्र समाचरेत् ।
ध्यानं सङ्कल्पत्यागाख्यं विषयेषु निरन्तरम् ॥ ६९ ॥

यो यश्चित्तेन सङ्कल्पः क्रियते विषयेषु च ।
तत्तत्सङ्कल्पहीनं स कारयेद्योगतत्परः ॥ ७० ॥

एवं चित्तं नरस्यैव स्वाधीनं जायते सदा ।
यदा धर्तुं स नो शक्तस्तदान्यदाचरेद्बुधः ॥ ७१ ॥

देहेन्द्रियाणि सङ्गृह्य तिष्ठेद्भुमौ महायशाः ।
न चलेत् स्थाणुवत् सोऽपि क्रियां नैव समाचरेत् ॥ ७२ ॥

तत्र यन्मिलितं चान्नं जलपानादिकं चरेत् ।
परेच्छया समायुक्तः सदा तिष्ठेन् महायशाः ॥ ७३ ॥

केनापि जलपानादि न दत्तं तादृशो वसेत् ।
न तदर्थं श्रमेत् सोऽपि नेच्छेत् प्रारब्धधारकः ॥ ७४ ॥

सर्पवृश्चिकव्याघ्राद्यैः पीडितो यदि मानवः ।
नानाप्रहारयोगैश्च मानवादिभिरेव वा ॥ ७५ ॥

तथापि न चलेत् सोऽपि स्वस्थानाज्जडवत्परः ।
देहप्रारब्धमाश्रित्य न तेषु क्रोधमाचरेत् ॥ ७६ ॥

पूर्वजन्मकृतं कर्म मया तेन प्रबोधितः ।
इमे सम्पीडयन्त्येवमेषां दोषो न विद्यते ॥ ७७ ॥

[[३५]]

अथवा सात्त्विकैस्तत्र पूजितः सर्वभावतः ।
नित्यं नानाजनैः सोऽपि सेवितो न चलेत्तदा ॥ ७८ ॥

पूर्वजन्मकृतं कर्म प्रेरितास्तेन मानवाः ।
मया मां पूजयन्त्येव गुण एषां न विद्यते ॥ ७९ ॥

एवं मनसि सन्धार्य तेषां नेच्छेच्छुभं कदा ।
द्वन्द्वमेवं परिगृह्य तिष्ठेन्नित्यं महायशाः ॥ ८० ॥

अनेन विधिना सोऽपि स्वल्पकालेन भो विधे ।
चित्तं जयेन्न सन्देहः शान्तिं पूर्णामवाप्नुयात् ॥ ८१ ॥

नान्यत् किञ्चिच्चरेत् कर्म न ध्यानादिकमादरात् ।
एवं शमदमौ धृत्वा भवेद्योगी स मानवः ॥ ८२ ॥

विचारं ब्रह्मणस्तत्र कुर्यान्नित्यं विशेषतः ।
कीदृशं ब्रह्म हृत्स्थं मे वेदाद्यैः प्रतिपादितम् ॥ ८३ ॥

पञ्चभूमिमतिक्रम्य तिष्ठेत् क्रमेण मानवः ।
नानाब्रह्मणि पश्यन् सन्नन्ते शान्तिमवाप्नुयात् ॥ ८४ ॥

शान्तियुक्तो नरः पश्चात् सन्त्यजेत्तां महाद्भुताम् ।
जडावस्थां पुनः सोऽपि यथेच्छाचारगो भवेत् ॥ ८५ ॥

हृदि चिन्तामणिं दृष्ट्वा पञ्चभूमिप्रचालकम् ।
शान्त्या युक्तो भवेन्नित्यं स्वाधीनहृदयः परः ॥ ८६ ॥

दृष्ट्वा ब्रह्म स्वयं योगी रसहीनो भवेन् मुदा ।
सर्वत्र नात्र सन्देहः शान्त्या सर्वं समाचरेत् ॥ ८७ ॥

अनेन विधिना दक्ष ज्ञानी पापपरायणः ।
क्रमेण साधयेद्योगं स योगी सम्भवेत् परः ॥ ८८ ॥

एवं कर्तुमशक्तश्चेत्तदा श्रुत्वा महामतिः ।
इमं योगं स्वयं तत्र निष्ठायुक्तो भवेत् सदा ॥ ८९ ॥

स्वधर्मनिरतो भूत्वा योगमिच्छेन्निरन्तरम् ।
निन्द्यभोगान् प्रभुञ्जन् सन्नन्ते स्वानन्दगो भवेत् ॥ ९० ॥

गणेश्वरं तत्र दृष्ट्वा योगयुक्तो भविष्यति ।
ज्योतिर्देहधरो भूत्वा प्रभजेद्गणनायकम् ॥ ९१ ॥

ब्रह्म कल्पमयं स्थित्वा कालं तत्र महामतिः ।
तद्देहे लीनतां प्राप्य ब्रह्मभूतो भविष्यति ॥ ९२ ॥

एवं कर्तुमशक्तश्चेत्तदा स धर्मसंयुतः ।
कर्माचरेत् प्रजानाथ ब्रह्मार्पणविधानतः ॥ ९३ ॥

तेनैव शुक्लगत्या स ब्रह्मीभूतो नरो भवेत् ।
निःकामयोगमार्गेण सदा ब्रह्मणि तत्परः ॥ ९४ ॥

एवं कर्तुमशक्तश्चेत्तदाऽहं ब्रह्मभावतः ।
त्रिविधं फलमुत्सृज्य कर्मजं योगमाप्नुयात् ॥ ९५ ॥

कर्मत्यागबलेनैवाहं ब्रह्म निश्चयेन सः ।
क्रमेण कर्मसंयुक्तो भविष्यत्यन्यजन्मनि ॥ ९६ ॥

निःकामकर्मकर्ता स पुनरन्यभवे नरः ।
योगरससमायुक्तो भवेद्विषयनिन्दकः ॥ ९७ ॥

एवं क्रमेण शान्तिं स लभेत् पूर्णां न संशयः ।
क्रमार्थं रचितं सर्वं नानामतसमन्वितम् ॥ ९८ ॥

सुगमं सर्वभावेषु गणेशभजनं परम् ।
तेन योगी भवेन्नूनं सर्वशास्त्रेषु सम्मतम् ॥ ९९ ॥

यत्किञ्चिद् गणराजस्य व्रतपूजादिकं प्रभोः ।
कीर्तनश्रवणाद्यं तु ब्रह्मीभूतप्रदायकम् ॥ १०० ॥

नानाविषयसंयुक्तो नरः स्मरेद्गणाधिपम् ।
अहर्निशं तदास्यान्ते गणेशस्मरणं भवेत् ॥ १०१ ॥

तेन स्वानन्दगो भूत्वा योगमभ्यस्य तन्मयः ।
ब्रह्मकल्पान्तभावे स भविष्यति न संशयः ॥ १०२ ॥

[[१०]]

स्मरणं गणराजस्य प्रकुर्यान्नित्यमादरात् ।
तस्यान्ते गणराजस्य स्मृतिं दद्यान्नराय सः ॥ १०३ ॥

अतोऽहर्निशमेकं तं संस्मरेन् मानवः परम् ।
नानायोगादिकं सर्वं साध्य योगिसमो भवेत् ॥ १०४ ॥

आयासेन विहीनोऽपि सदा विषयलम्पटः ।
गणेशस्मरणे सक्तः सः शुकसमतां व्रजेत् ॥ १०५ ॥

शिवविष्णुमुखादीनां नरो यः स्मरणं चरेत् ।
अन्ते तेषां स्मृतिं तस्मै स दद्याच्चित्तगः प्रभुः ॥ १०६ ॥

तेषां लोकं समासाद्य भुक्त्वा भोगान् मनोहरान् ।
प्रपतेन्नाऽत्र सन्देहो मृत्युलोके विशेषतः ॥ १०७ ॥

पुराणेषु प्रपठ्यन्ते त्रिगुणानां लयाः सदा ।
अतः स जन्ममृत्युभ्यां युक्तो भवति तद्गतः ॥ १०८ ॥

अतः सारं समाख्यातं गणेशभजनं परम् ।
तेनाज्ञानसमायुक्तो नरो ब्रह्ममयो भवेत् ॥ १०९ ॥

एतत्ते कथितं दक्ष योगप्राप्त्यर्थमादरात् ।
अज्ञानसंयुतस्यापि ब्रह्मीभूतप्रदायकम् ॥ ११० ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामतार्थशास्त्रेअज्ञानिनां क्रमयोगवर्णनं नाम नवमोऽध्यायः ॥॥ इति योगगीतासूपनिषत्सु सुगमासु पञ्चमोऽध्यायः ॥