०७ योगामतार्थशास्त्रेयोगस्थितिवर्णनयोगः

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।

स्थितिं वद महायोगिन् जीवन्मुक्तस्य सौख्यदाम् ।
शुभाशुभकृतं तेन कुत्र गच्छति तत्परम् ॥ १ ॥

कायिकं वाचिकं मानसिकं सांसर्गिकं प्रभो ।
कर्म योगिकृतं सर्वं कीदृशं तस्य का गतिः ॥ २ ॥

मुद्गल उवाच ।

जीवन्मुक्तः स्वयं योगी स्वेच्छाचारी भवेत् सदा ।
प्रारब्धप्रेरितः साक्षाद् वर्तते नित्यमादरात् ॥ ३ ॥

स्वयं ब्रह्मणि संस्थश्च बिम्बं चित्ते प्रतिष्ठति ।
योगिनस्तत्कृतं सर्वं न कदा बन्धदं भवेत् ॥ ४ ॥

नरवत् सर्वकर्ताऽपि तथाऽपि दोषवर्जितः ।
ब्रह्मणि ब्रह्मभूतत्वाच्छुभाशुभविवर्जितः ॥ ५ ॥

प्रारब्धेन स्वयं योगी प्रेरितः पुण्यमाचरेत् ।
तीर्थयात्रादिकं सर्वं यज्ञदेवार्चनादिकम् ॥ ६ ॥

सदा शौचसमायुक्तो नित्यं धर्मपरायणः ।
तथापि पुण्यजं भोगं भुनक्ति नैव निश्चितम् ॥ ७ ॥

अथवा पूर्वजेनैव प्रारब्धेन नियन्त्रितः ।
पापानि नित्यमानन्दात् प्रकुर्याद्विविधानि सः ॥ ८ ॥

ब्रह्महत्यादिकं सर्वं मातृगमनकादिकम् ।
मद्यपानादिकं चौर्यं प्रकुर्याद् दैवयोगतः ॥ ९ ॥

एवं पापसमाचारो यदि तिष्ठति मानवः ।
योगी पापफलं नैव भुनक्ति नरवत् कदा ॥ १० ॥

पूर्वजन्मार्जितेनैव प्रारब्धेन प्रजापते ।
कारितं योगिना तत्र तेन किञ्चित् कृतं न च ॥ ११ ॥

मरणे या मतिः प्राप्ता तादृशीं लभते गतिम् ।
नरो ह्ययोगयुक्तो यो योगी ब्रह्मैव जायते ॥ १२ ॥

इदं संशयनाशार्थं कथितं ब्रह्मणः सुत ।
योगिनां कर्मजं सर्वं माहात्म्यं लेशतो मया ॥ १३ ॥

योगी योगसमायुक्तो न पापानि कदाचन ।
चरति धर्मनिष्ठः स भवत्यत्र न संशयः ॥ १४ ॥

लोकोद्धारकराः सर्वे योगिनः परिकीर्तिताः ।
नाचरन्ति कदा पापमहिंसादिसमन्विताः ॥ १५ ॥

[[२५]]

फलहीनस्वभावेन धर्मं चरति नित्यदा ।
योगी लोकोपकारार्थं स्वयं ब्रह्मपरायणः ॥ १६ ॥

कदाचित् पूर्वसंस्कारात् पापं तेन कृतं परम् ।
न तत्र पापयुक्तोऽसौ तदर्थो वर्णितः पुरा ॥ १७ ॥

किमर्थं प्राणिनां योगी दुःखदायकमाचरेत् ।
पापं पापसमायुक्तो न भवेन्निश्चितं पुरा ॥ १८ ॥

सर्वत्र गणनाथं स पश्यत्यनन्यचक्षुषा ।
पुण्येन सुखसंयुक्तं विश्वं भवति तच्चरेत् ॥ १९ ॥

प्रारब्धं योगिनां दक्ष न भवेत् पापकारकम् ।
पुण्यचेष्टासमायुक्तं तेषां प्रारब्धमञ्जसा ॥ २० ॥

योगार्थं धर्मसंयुक्तो ब्रह्मार्पणविधानतः ।
यतते जन्मसु प्राज्ञस्तदा योगी भवेन्नरः ॥ २१ ॥

तस्य प्रारब्धकं दक्ष कुतो दुर्बुद्धिदायकम् ।
भवति च महायोगी धर्मयुक्तो भवेत् सदा ॥ २२ ॥

अथ योगिजनानां ते स्थितिं वदामि सर्वदा ।
क्रमयुक्तो यथा योगी भ्रान्तो नैव भवेत् कदा ॥ २३ ॥

साधयित्वा महायोगं चित्तनिरोधकारकम् ।
पञ्चविधं परित्यज्य चित्तं योगी भवेन्नरः ॥ २४ ॥

चित्ते चिन्तामणिं ज्ञात्वा सचित्तः सहसा गतः ।
तदाकारः स वै योगी तत्र ब्रह्मणि संरतः ॥ २५ ॥

प्रारब्धं योगिनां नास्ति भोगदं शास्त्रसम्मतम् ।
यदा हठयुतो योगी भवेत् प्रारब्धचालकः ॥ २६ ॥

देहपातं प्रकुर्याच्चेदात्महत्यां लभेन्न च ।
आयुषा संयुतो वाऽपि देहं त्यजति निश्चितम् ॥ २७ ॥

तथापि योगसंयुक्तो न देहं त्यजति प्रभुः ।
न प्रारब्धमतिक्रम्य करोति किञ्चिदञ्जसा ॥ २८ ॥

शान्तियुक्तस्वभोवन तिष्ठत्यत्र न संशयः ।
यद्भावि तद्भवत्येव मायामोहविवर्जितः ॥ २९ ॥

देहपातेन किं ग्राह्यं देहरक्षणतस्तथा ।
रचितं गणनाथेन सदा भवतु तादृशम् ॥ ३० ॥

एवं निश्चित्य चित्तेन शान्तियुक्तस्वभावतः ।
आचरेद्योगसंयुक्तः स्वधर्मे संस्थितां क्रियाम् ॥ ३१ ॥

वर्णाश्रमयुतो योगी भवेद्यदि स सर्वदा ।
तदा स्वधर्मजं कुर्यात् कर्म निःसङ्गभावतः ॥ ३२ ॥

देहः कर्ममयः प्रोक्तस्तस्थोऽकर्मी कुतो भवेत् ।
व्यवस्थासम्भवं कर्म कृतं भवति न ह्यपि ॥ ३३ ॥

यदि कर्म परित्यज्य तिष्ठेद्योगपरायणः ।
तदा देहनिपातेन युक्तो भवेन्न संशयः ॥ ३४ ॥

अन्नभक्षणरूपं यद्भवति कर्म निश्चितम् ।
जागृत्स्वप्नादिकं सर्वं त्यक्त्वा जीवति तत्कथम् ॥ ३५ ॥

क्रियतेऽनेन यत्किञ्चित् सा क्रिया परिकीर्तिता ।
अतः कर्ममयो देहस्तेन धर्मं समाचरेत् ॥ ३६ ॥

देहत्यागे समुद्युक्तो यदि योगी भवेत् प्रभो ।
सहने द्वन्द्वभावस्य न समर्थः स वै स्मृतः ॥ ३७ ॥

अशान्तिसंयुतः सोऽपि योगहीनो यथा नरः ।
तथा द्वन्द्वं समालोक्य सहने न समर्थकः ॥ ३८ ॥

गणेशेन कृतं तस्येच्छया सर्वं च यद्भवेत् ।
भवतु तादृशं सर्वं सहे नित्यं सुशान्तिगः ॥ ३९ ॥

स योगी शान्तिहीनो न प्रभवेत् क्वचिदञ्जसा ।
ब्रह्मभूतो महाश्रेष्ठः पावनः सर्वदेहिनाम् ॥ ४० ॥

अतो वर्णाश्रमस्थो यो योगी भवेत् स तत् क्रियाम् ।
ब्रह्मार्पणतया कुर्याद् हृदि ध्यात्वा गजाननम् ॥ ४१ ॥

[[२६]]

यदि स्वधर्मसंयुक्तं कर्म नैव समाचरेत् ।
तमक्रियं समालोक्यान्ये त्यजेयुः स्वधर्मकम् ॥ ४२ ॥

अतो लोकोपकारार्थं योगी कर्म समाचरेत् ।
अन्यान् कर्मयुतान् कुर्यात् स्ववशान् धर्मपालकः ॥ ४३ ॥

सर्वेभ्यश्चाधिको योगी कुर्यात् सत्कर्म धर्मदम् ।
तादृशं कर्म सर्वेऽपि करिष्यन्ति विशेषतः ॥ ४४ ॥

तेन प्रामाण्यमानन्दात् कृतं कर्म प्रजापते ।
तदेव सर्वलोकाश्च मान्यं कुर्वन्ति निश्चितम् ॥ ४५ ॥

ब्रह्मार्पणतया कर्म बन्धदं न भवेत् कदा ।
ब्रह्मप्राप्तिकरं तस्य फलं प्रोक्तं मनीषिभिः ॥ ४६ ॥

योगिभिश्च कृतं कर्म लोकसङ्ग्रहकारणात् ।
असक्तमनसा नित्यं नैमित्तिकं न बन्धदम् ॥ ४७ ॥

सदा ब्रह्ममयत्वेन तेन किञ्चित् कृतं न च ।
देहस्वभावजो भावो भवेदस्य निरन्तरम् ॥ ४८ ॥

अन्यं मार्गं प्रवक्ष्यामि ये निन्दन्ति स्तुवन्ति तम् ।
योगिनं पापभोक्तारो भवन्ति पुण्यभोगिनः ॥ ४९ ॥

योगिना यत् कृतं पापं तत् स्प्रष्टुं न क्षमं कदा ।
निन्दकांस्तत् समाश्रित्य प्रतिष्ठेत्तस्य नित्यदा ॥ ५० ॥

योगिना यत् कृतं पुण्यं तदेव तं न संस्पृशेत् ।
स्तुवतस्तान् समाश्रित्य नित्यं तिष्ठेत् स्वभावजम् ॥ ५१ ॥

अतो न योगिनां निन्दां कदा कुर्याद्विचक्षणः ।
सेवां समाचरेत्तेषां तेन सौख्ययुतो भवेत् ॥ ५२ ॥

वने यदि स्थितो योगी प्रारब्धेन नियन्त्रितः ।
फलादिकं तत्र भुञ्जन् शान्त्या तिष्ठेत् स नित्यदा ॥ ५३ ॥

तत्र निन्दाकरास्तस्य तथा सेवाकरा न च ।
एक एव महायोगी शुभाशुभं समाचरेत् ॥ ५४ ॥

तदेव देहपातेऽस्य योगिनश्च मृतं भवेत् ।
शुभाशुभं निराधारमुपोषणसमन्वितम् ॥ ५५ ॥

एतत्ते कथितं दक्ष ब्रह्मीभूतस्य चेष्टितम् ।
कर्म योगमयं पूर्णं श्रवणाच्छुभदं भवेत् ॥ ५६ ॥

अथ योगं प्रवक्ष्यामि ज्ञानात्मकमहं परम् ।
योगिभ्यः सुखदं पूर्णं शान्तियुक्तं विशेषतः ॥ ५७ ॥

देहः कर्मात्मकः प्रोक्तस्तत्र योगं समाचरेत् ।
ब्रह्मार्पणतया कर्म चाचरन् शान्तिधारकः ॥ ५८ ॥

ज्ञानं स्फूर्तिमयं प्रोक्तं हृदि तिष्ठति सर्वदा ।
विवेकात्ममयं तत्र ज्ञानयोगं समाचरेत् ॥ ५९ ॥

हृदि यद्यद् भवेज्ज्ञानं नानायोगार्थसौख्यदम् ।
अथवा विषयार्थानां बोधकं तत् स सन्त्यजेत् ॥ ६० ॥

उत्पत्तिनाशसंयुक्तं ज्ञानं विषयबोधकम् ।
ब्रह्म सौख्यप्रदं ज्ञानं योगभूमिप्रभावजम् ॥ ६१ ॥

उपाधिसंयुतं चैकमनुपाधियुतं परम् ।
तत्त्यक्त्वा योगसंयुक्तो भवेद्योगी महायशाः ॥ ६२ ॥

ज्ञानानां सकलानां च योगे ज्ञानमयः स्मृतः ।
योगस्तत्र भवेल्लीनो ब्रह्मीभूतस्वभावतः ॥ ६३ ॥

ब्रह्मणि ब्रह्मीभूतोऽहं मम ज्ञानं कुतो भवेत् ।
नानाभ्रान्तिकरं हृत्स्थं त्यक्त्वा ब्रह्मपरो भवेत् ॥ ६४ ॥

अनेन विधिना सर्वं ज्ञानं त्यक्त्वा हृदि स्थितम् ।
शान्तियुक्तः स्वयं योगी तिष्ठेद्ब्रह्मपरायणः ॥ ६५ ॥

न कर्ताऽहं कदाचिद्वै कारयिता न निश्चितम् ।
मायामोहयुता मां ते वदन्ति कर्मकारिणम् ॥ ६६ ॥

[[२७]]

अहं साक्षी शरीरस्य यद्देहेन कृतं भवेत् ।
तन्मया न कृतं क्वापि ब्रह्माहं परतः परः ॥ ६७ ॥

यद्यत् स्फूर्तिर्भवेन् मे वै सा माया भ्रान्तिदायिका ।
न तस्यां संस्थितो जीवः सदा साक्षिस्वभावतः ॥ ६८ ॥

न मोहेन समायुक्तो न कदा मोहवर्जितः ।
मायया मां वदन्त्येव ह्ययोगिनो न संशयः ॥ ६९ ॥

एवं सदा महायोगी साक्षिवत्संस्थितो भवेत् ।
हृदयज्ञानयोगस्थस्त्यक्त्वा स्फूर्तिभवं भ्रमम् ॥ ७० ॥

सर्वत्र रसहीनं यन् मनस्तस्य महात्मनः ।
शान्त्या युक्तं भवेद्दक्ष ब्रह्मीभूतस्य नित्यदा ॥ ७१ ॥

एष ते कथितो योगो ज्ञानात्मको विशेष?तः ।
साक्षिवद्देहसंस्थः स मया तिष्ठति लेशतः ॥ ७२ ॥

अतः परं समं योगं शृणु स्थितिपरायण ।
यं ज्ञात्वा ब्रह्मभूतो यः शान्तिहीनो भवेन्न सः ॥ ७३ ॥

देहः कर्मत्रयस्तत्र कर्मयोगं समाचरेत् ।
मनो विवेकरूपं तु साक्षित्वं तत्र सञ्चरेत् ॥ ७४ ॥

अहं ब्रह्म यदा दक्ष कुतस्तत्र भवेदिदम् ।
द्वन्द्वरूपं विशेषेण तस्य वक्ष्यामि रूपकम् ॥ ७५ ॥

देहः कर्ममयः प्रोक्तो विवेकः कर्मवर्जितः ।
द्वन्द्वं ज्ञात्वा महायोगी समयोगं समाचरेत् ॥ ७६ ॥

देहे कर्ममयोऽहं तु हृदि साक्षी तथाऽमलः ।
उभयोर्योगभावेन भवति किञ्चिदञ्जसा ॥ ७७ ॥

यदा विवेकहीनश्चेत् देहः किं तु करिष्यति ।
देहहीनं मनस्तद्वज्ज्ञानदं कस्य वा भवेत् ॥ ७८ ॥

आनन्दमयभावेन संस्थितोऽहं तदात्मकः ।
उभयत्र ततः स्वस्वव्यापारं कुरुतः परौ ॥ ७९ ॥

देहे कर्ममयोऽहं वै हृदि विवेकधारकः ।
द्विविधां रच्यतां मायां सदानन्दनधर्मगः ॥ ८० ॥

तयोः समानभावेन संस्थितोऽहं न संशयः ।
अनुपाधेरुपाधेश्च वर्जितो ब्रह्मसञ्ज्ञितः ॥ ८१ ॥

अतः समं समाश्रित्य बाह्यान्तरैकभावतः ।
यादृशं संस्थितं ब्रह्म तादृशं तत्र चाचरेत् ॥ ८२ ॥

देहे कर्मकरो भूत्वा हृदि साक्षिमयो भवेत् ।
उभयं तत् परित्यज्यानन्दावस्थां समाचरेत् ॥ ८३ ॥

यद्यदुभयभावाख्यं नानाभेदमयं परम् ।
तत्र योगमयो भूत्वा तिष्ठेदानन्दसंयुतः ॥ ८४ ॥

आनन्दानां समायोगे ब्रह्मानन्दः प्रकीर्तितः ।
उभयेषां प्रजानाथ तादृशं चाचरेद्बुधः ॥ ८५ ॥

मदीयसङ्गयोगेनोभयं प्रवर्तते सदा ।
उभयं चाचरेत् सर्वमुभाभ्यां वर्जितोऽपि सः ॥ ८६ ॥

इयमानन्दरूपाख्या कथिता योगिभिः पुरा ।
ब्रह्मीभूतः समास्थाय तिष्ठेत्तां शान्तिसंयुतः ॥ ८७ ॥

अतः परं प्रजानाथावस्थां शृणु सुखप्रदाम् ।
सहजाख्यां महायोगी चाचरेत्तां विशेषतः ॥ ८८ ॥

देहः कर्ममयः प्रोक्तस्तत्र योगं समाचरेत् ।
ब्रह्मार्पणतया नित्यं कर्मणां योगिसत्तमः ॥ ८९ ॥

हृदि साक्षिस्वभावेन तिष्ठेत्तयोः परे ततः ।
समभावं समाश्रित्य त्रिषु त्रैधं प्रकीर्तितम् ॥ ९० ॥

तेषु विस्मृतिभावेन भ्रान्त्या वा विस्मृतं भवेत् ।
विपरीतं भवेद्वाऽपि ततः खेदं न धारयेत् ॥ ९१ ॥

त्रिविधं मायया युक्तं पराधीनं प्रकीर्तितम् ।
तुर्यं स्वाधीनरूपाख्यं प्रोक्तं शास्त्रेषु सर्वदा ॥ ९२ ॥

तुर्येच्छया त्रिधा भूतं चलत्यत्र न संशयः ।
स्वस्वप्रारब्धसंयुक्तं सदा भ्रान्तमिव स्थितम् ॥ ९३ ॥

न कस्याहङ्कृतिस्तस्य तुरीयस्य कदाचन ।
यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ ९४ ॥

अतः प्रारब्धयोगेन विस्मृतोऽहं स्थितिं पराम् ।
योगरूपां च तुर्येण प्रेरितः सर्वधारिणा ॥ ९५ ॥

अथवा ज्ञानमोहेन विपरीतं कृतं मया ।
त्यक्त्वा योगस्थितिं पूर्णां प्रारब्धं तत्र मुख्यकम् ॥ ९६ ॥

प्रारब्धधारकं प्रोक्तं तुरीयं नात्र संशयः ।
तस्येच्छया च यज्जातं तदेवं योगदं भवेत् ॥ ९७ ॥

पराधीनोऽहमत्यन्तं तुर्येच्छया समन्वितः ।
करोमि कर्म साक्षित्वमानन्दं वा न संशयः ॥ ९८ ॥

सदा स्वाधीनभावेन तिष्ठति ब्रह्म तुर्यगम् ।
तुरीयैः खेलकं प्रोक्तं तस्य किं बन्धनं भवेत् ॥ ९९ ॥

यज्जातं तत्कृतं तेन तुरीयेण न संशयः ।
तत्र कुत्र स्थितोऽहं तु स्वेच्छया क्रीडति प्रभुः ॥ १०० ॥

इयं तु सहजावस्था कथिता ते प्रजापते ।
यज्जातं तत्र सा प्रोक्ता न कृता तदपि ह्यहो ॥ १०१ ॥

यत्कृतं सह जातेन स्वयमेव प्रवर्तते ।
योगस्तेन समाख्याता सहजा तुर्यसञ्ज्ञिता ॥ १०२ ॥

अतः परं ब्रह्मभूतं स्वानन्दाख्यं प्रकीर्तितम् ।
तत्र योगस्वरूपाख्यां स्थितिं शृणु सुखप्रदाम् ॥ १०३ ॥

स्वाधीनं तुर्यभावाख्यं पराधीनं त्रिधा मतम् ।
तेषां योगे निजात्मस्थो भवेद्योगी निजात्मसु ॥ १०४ ॥

त्रिविधं खेलरूपं तु तुर्यः खेलक उच्यते ।
तयोर्योगे प्रजानाथ स्वानन्दस्थो भवेन्नरः ॥ १०५ ॥

ब्रह्मणि ब्रह्मभूतस्य योगिनश्च कुतो भवेत् ।
स्वाधीनं तु पराधीनं मायायुक्तं न संशयः ॥ १०६ ॥

योगस्थितिं समाश्रित्य बुधश्चत्वारि चाचरेत् ।
तेषां संयोगरूपेण तिष्ठेत्तेषु महात्मवान् ॥ १०७ ॥

कर्मयोगं समाश्रित्य देहचेष्टां समाचरेत् ।
ज्ञानयोगं तथाऽऽश्रित्य साक्षित्वं चाचरेत् बुधः ॥ १०८ ॥

समयोगं समाश्रित्य आनन्दं आचरेत् परम् ।
सहजं स समाश्रित्य विपरीतेन शोकभाक् ॥ १०९ ॥

चतुर्भिः संयुतो भूत्वा चतुभिर्वर्जितस्तथा ।
तिष्ठेद्योगमयीं दक्षावस्थामाश्रित्य सर्वदा ॥ ११० ॥

अवस्था निजरूपे तु कुतोऽवस्थाप्रधारकः ।
तयोर्योगे योगमयी व्यवस्था ते प्रकीर्तिता ॥ १११ ॥

चतुर्मयी चतुर्हीना योगावस्था प्रकीर्तिता ।
योगिभिस्तां समाश्रित्य शान्तिहीनो भवेन्न सः ॥ ११२ ॥

अधुना शृणु योगस्थामवस्थां द्वितीयां पराम् ।
अयोगधारिकां पूर्णां सदा निवृत्तिदायिकाम् ॥ ११३ ॥

ब्रह्मणि ब्रह्मभूतो यो योगी तां संश्रयेत् पराम् ।
यदा निवृत्तिसंयुक्तः शान्तिहीनो भवेन्न सः ॥ ११४ ॥

ब्रह्मणि ब्रह्मसंस्थं तन्नागतं न गतं पुनः ।
मायायां ब्रह्मभूतो योऽवस्थाया धारकः कुतः ॥ ११५ ॥

यत् कुर्यात् कारयेद्यच्च तत्र नैवावलोकयेत् ।
मायामयं विनिश्चित्य पञ्चकं पञ्चकेषु गम् ॥ ११६ ॥

[[२९]]

नाहं पञ्चकगश्चेद्वै ततस्तत्कृतमञ्जसा ।
कुतो मयि प्रदृश्येताधार्यनिवृत्तिगो भवेत् ॥ ११७ ॥

जीवनं मरणं जन्म योगो योगात्मिका परा ।
अवस्था मे कुतो मायामोहयुक्तं स्मृतं बुधैः ॥ ११८ ॥

अथ योगमयीं पूर्णामवस्थां शृणु मानद ।
संयोगायोगहीनां तां यया शान्तो भवेन्न सः ॥ ११९ ॥

ब्रह्मणि ब्रह्मभूतोऽहं मयि मायामयं परम् ।
पञ्चकं च कुतो भाति मायाहीनमयोगकम् ॥ १२० ॥

विधिनिषेधसंयुक्तं चित्तं भवति सर्वदा ।
विधिनिषेधहीनं तु तदेवं जायते मुधा ॥ १२१ ॥

देहेन कर्मयोगश्च ज्ञानगो हृदि जायते ।
उभयत्र समश्चैव तुर्येषु सहजात्मकः ॥ १२२ ॥

सर्वसंयोगभावेषु स्वानन्दाख्यः प्रवर्तते ।
निवृत्तिषु ह्ययोगाख्यो योगेषु शान्तियोगकः ॥ १२३ ॥

एवं नानाविधं योगं समास्थाय महामतिः ।
योगी शान्त्या समातिष्ठेद्ब्रह्मीभूतोऽपि निश्चितम् ॥ १२४ ॥

योगस्थितिः समाख्याता ब्रह्मीभूतसुखप्रदा ।
अनेन विधिना देहनिर्वाहो योगिनां भवेत् ॥ १२५ ॥

वर्णाश्रमस्थितो योगी चाचरेत् स्थितिमुत्तमाम् ।
लोकसङ्ग्रहकार्यार्थमसक्तस्तत्फलादिषु ॥ १२६ ॥

यदा वर्णाश्रमं त्यक्त्वा पञ्चमाश्रमधारकः ।
न तस्य स्थितिरूपं तु कदाचिन्नात्र संशयः ॥ १२७ ॥

विधिनिषेधहीनोऽयं विनायको भवेत् सदा ।
यद्यत् कुर्यात् स तत् सर्वं योगरूपं भवेत् सदा ॥ १२८ ॥

यदि स्थितिसमायुक्तो वेदादिषु प्रमाणतः ।
तदा विधियुतः सोऽपि भवेत् पश्य प्रजापते ॥ १२९ ॥

यदा स्थितिविहीनोऽयं तिष्ठेत् सङ्कथितं परम् ।
वेदेषु स निषेधेन तदा युक्तो भवेत् परः ॥ १३० ॥

अतः स्थितियुतो योगी स्थितिहीनो यथारुचि ।
वर्णाश्रमान् परित्यज्य तिष्ठेद्विनायको यथा ॥ १३१ ॥

शान्त्या नित्यं चरेत् सर्वं मनसीप्सितमञ्जसा ।
विधिनिषेधहीनश्च ब्रह्मणि रसधारकः ॥ १३२ ॥

एतत् सर्वं समाख्यातं योगिनां चेष्टितं महत् ।
ब्रह्मभूतात् परं पूर्णं चरेदेवं निरन्तरम् ॥ १३३ ॥

शृणुयाद्यः पठेद्वाऽपि स सर्वं हीप्सितं लभेत् ।
अन्ते योगमयो भूत्वा तिष्ठेत् स गणपे रतः ॥ १३४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामतार्थशास्त्रेयोगस्थितिवर्णनयोगो नाम सप्तमोऽध्यायः ॥

॥ इति योगगीतासूपनिषत्सु सुगमासु तृतीयोऽध्यायः ॥