॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
योगस्यानुभवं ब्रूहि यत्र शान्तिं लभेन् मनः ।
रसं त्यक्त्वा सुशान्त्या तद्युक्तं तिष्ठेन् महामुने ॥ १ ॥
मुद्गल उवाच ।
न तत्र दृश्यते दक्ष जगद्ब्रह्मभवं सुखम् ।
तन्मायामयगं दृष्ट्वा तस्मान्निर्वृत्तिगो भवत् ॥ २ ॥
नाहं देहो न मे देहो नाहं नानाभ्रमान्वितः ।
चराचरमयो नैव ताभ्यां संवर्जितो न च ॥ ३ ॥
न समष्टिसमायुक्तो व्यष्टिगो न कदाचन ।
ब्रह्माऽहमखिलेष्वेव तत्तद्भावविवर्जितः ॥ ४ ॥
न बाह्यसुखभोक्ताऽहं नान्तरस्थपरायणः ।
न समानगतोऽहं तु नात्मप्रतीतिधारकः ॥ ५ ॥
न स्थूलो नैव सूक्ष्मोऽहं नानन्दगः कदाचन ।
न नाददेहसंस्थश्च सर्वाकारः सदा मतः ॥ ६ ॥
चतुष्पादाः सन्ति मे चेन् मायया सन्धृता मया ।
मायाहीनप्रभावेण पादहीनोऽहमञ्जसा ॥ ७ ॥
मायायुक्तवियुक्तत्वं मयि नैव प्रतिष्ठितम् ।
मायासंस्थापितं द्वन्द्वं तदप्याश्चर्यमुत्तमम् ॥ ८ ॥
अनेनानुभवेनैव योगी बिन्दुगतो भवेत् ।
तत्र लीनस्वभावेन सदा शान्त्या प्रवर्तते ॥ ९ ॥
अथाहं भेदहीनश्च न भेदो मयि वर्तते ।
सदा सन्ततभावेन संस्थितोऽत्र निरन्तरम् ॥ १० ॥
न सृजामि हराम्येव पालयामि न निश्चितम् ।
स्वयमेव जगद्भाति यथा मयि धृतं भवेत् ॥ ११ ॥
उत्पन्नं स्वस्वभावेन स्मितं नष्टं तथा किल ।
विश्वं तत्र न मे हानिर्वृद्धिर्भवति कर्हिचित् ॥ १२ ॥
न विश्वस्मिन्नहं जीवो न शिवः साक्षिभावगः ।
भ्रान्त्या मायायुतं हीनं वदन्त्ययोगिनः सदा ॥ १३ ॥
यथाऽऽकाशभवं मेघपटलं सर्वतः स्थितम् ।
तत्र सूर्यस्य किं दक्षाच्छादनं सम्भवेत् कदा ॥ १४ ॥
नष्टेऽभ्रे किं रविः साक्षाच्छादनेन विवर्जितः ।
तथा मोहविमोहौ च मयि भ्रान्त्या वदन्ति ये ॥ १५ ॥
[[१९]]
सदैकात्मस्वरूपाख्ये मयि मोहविमोहकौ ।
कथं भेदौ प्रवर्तेते पश्य मायाप्रभावजौ ॥ १६ ॥
तथापि विश्वसंयुक्तो मोहितोहं न संशयः ।
ज्ञात्वाऽऽत्मानं विमोहोऽहं सदा साक्षी न संशयः ॥ १७ ॥
मायया जीवसञ्ज्ञोऽहं तथा शिवो न संशयः ।
मयि ब्रह्मणि विश्वं तत् दृश्यते नैव दृश्यते ॥ १८ ॥
एवं ज्ञात्वा स्वयं योगी सदा शान्त्या प्रवर्तते ।
द्वन्द्वभावं परित्यज्य सोऽहं ब्रह्मणि संस्थितः ॥ १९ ॥
अतः परं प्रवक्ष्यामि ब्रह्मानुभवरूपकम् ।
न देहो नैव देहस्थोऽहं भवामि कदाचन ॥ २० ॥
सन्ततं मयि नास्त्येव विश्वं मयि न विद्यते ।
भेदाभेदविहीनत्वाद्ब्रह्म ब्रह्मण्यहं रतः ॥ २१ ॥
विश्वरूपोऽहमेवेदं मयि सर्वं प्रतिष्ठितम् ।
विश्वहीनो न सन्देहः सदैकरूपधारकः ॥ २२ ॥
न सृष्टं पाल्यते नैव ह्रियते न मया कदा ।
विश्वं सृष्टं हृतं नित्यं पालितं सर्वदा मया ॥ २३ ॥
मयि सन्ततभावश्च दृश्यते न विनिश्चितम् ।
न विश्वं विविधाकारं नानादेहपरायणम् ॥ २४ ॥
सदा बोधमयोऽहं तु देहदेहियुतस्तथा ।
मम तत्र न भो दक्ष बन्धाऽबन्धौ प्रकीर्तितौ ॥ २५ ॥
मायया संयुतो नित्यं देहदेहिमयो मतः ।
मायाहीनप्रभावेण देहदेहिविवर्जितः ॥ २६ ॥
मायायुक्तवियुक्तत्वं मयि कुत्र प्रदृश्यते ।
सदाऽहं बोधरूपाख्यो ब्रह्मणि ब्रह्मभावितः ॥ २७ ॥
एवं बोधात्मकेनैवानुभवेन प्रजापते ।
योगी योगसमायुक्तः सदा शान्त्या प्रवर्तते ॥ २८ ॥
अतः परं विबोधाख्यं वक्ष्यामि ब्रह्मभूतकम् ।
प्रकृतिर्न तथा दक्ष पुरुषोऽहं न निश्चितम् ॥ २९ ॥
तयोर्योगेन बोधोऽहं ब्रह्माऽहं भोगवर्जितः ।
सदा ब्रह्मणि संस्थश्च खेलहीनप्रभावतः ॥ ३० ॥
मिथ्यारूपं जगत् सर्वं जगदात्मा तथा मतः ।
तयोर्योगकरं ब्रह्म मिथ्यामूलप्रकाशकम् ॥ ३१ ॥
मयि ब्रह्मणि नास्त्येव प्रकृतिर्वा पुमान् क्वचित् ।
तयोर्योगो भ्रमाकारः सदा खेलपरायणः ॥ ३२ ॥
बोधेनोत्थानभावश्च जायते ब्रह्मणः सदा ।
मिथ्याभूतं तदेवाऽपि कथं मयि प्रवर्तते ॥ ३३ ॥
सत्यं ब्रह्म इति प्रोक्तं वेदेषु वेदवादिभिः ।
तत्र खेलोऽनृताकारः कुतस्तिष्ठति भ्रान्तिदः ॥ ३४ ॥
सदा ब्रह्मसुखे सक्तो ब्रह्मणि ब्रह्मभावितः ।
तत्र भेदादिकं नास्ति स्त्रीपुम्भावमयं कदा ॥ ३५ ॥
मायया रचितं सर्वमनृताख्यं न संशयः ।
सा मयि न स्थिता दक्ष निराधारा भ्रमान्विता ॥ ३६ ॥
ब्रह्मरूपं च मां दृष्ट्वा स्वयमेव विनश्यति ।
माया ततः स्वयं साक्षात् सत्यरूपो भविष्यति ॥ ३७ ॥
यद्यहं मायया युक्तस्तया स्त्रीपुम्मयं जगत् ।
सृजामि चेत्तदा सत्यं मयि कुतः प्रतिष्ठति ॥ ३८ ॥
यत्रानृतस्वरूपं तु नास्त्येव वेदवादतः ।
तदेव सत्यमाख्यातमतो बोधो न दृश्यते ॥ ३९ ॥
अनृतं विश्वमखिलं प्रकृतिपुरुषात्मकम् ।
तस्माद्भिन्नोऽहमेकश्च सत्यरूपो न संशयः ॥ ४० ॥
योगेनैतादृशेनैव शान्तियुक्तो भवेन्नरः ।
सङ्ख्यां त्यक्त्वा स विविधां ब्रह्मभूतस्वभावतः ॥ ४१ ॥
अथ स्वानन्दयोगं तु वदिष्यामि हिताय ते ।
तं शृणुष्व प्रजानाथ सावधानेन चेतसा ॥ ४२ ॥
सत्यमुत्थानहीनं चानृतमुत्थानसंयुतम् ।
ब्रह्मणि द्विविधं नास्ति स्वस्वरूपिणि नित्यदा ॥ ४३ ॥
बोधयुक्तं स्वतोत्थानं साङ्ख्यमुत्थानवर्जितम् ।
तयोर्योगे परं ब्रह्माऽसत्स्वानन्दमयं भवेत् ॥ ४४ ॥
उत्थानवर्जितोऽहं नोत्थानयुक्तोऽपि नाञ्जसा ।
उत्थानयुक्तहीनोऽहं पश्य मे योगमुत्तमम् ॥ ४५ ॥
मयि ब्रह्मणि सर्वं तत् स्वस्वरूपमयं भवेत् ।
तत्रोत्थानेन युक्तत्वं हीनत्वं नैव दृश्यते ॥ ४६ ॥
अहो मायाप्रभावेण मां वदन्ति विमोहिताः ।
उत्थानेन युतं हीनं स्वस्वरूपं निजे रतम् ॥ ४७ ॥
उत्थानसंयुतं ब्रह्मोत्थानहीनं प्रकीर्तितम् ।
ब्रह्मणि तन्मयं सर्वं संयोगायोगभावतः ॥ ४८ ॥
मयि ब्रह्मणि संयोगो जायते योगिनां यदा ।
उत्थानेन युतं हीनं कः पश्यति ततः परम् ॥ ४९ ॥
समाधिहीनभावेन पश्यन्ति विविधं सदा ।
अयोगिनो न सन्देहो योगिनां वै न विद्यते ॥ ५० ॥
सर्वं ब्रह्मेति वेदेषु कथ्यते वेदवादिभिः ।
अतो मायां परित्यज्य ब्रह्माकारो भवेन्नरः ॥ ५१ ॥
अनेन विधिना योगं साधयेद्यः समाधिना ।
ब्रह्मणि ब्रह्मभूतः स शान्तिं प्राप्नोति शाश्वतीम् ॥ ५२ ॥
अथ सत्स्वस्वरूपस्य विधेर्योगं वदामि भोः ।
तं ज्ञात्वा योगमार्गेण योगी भवति मानवः ॥ ५३ ॥
सर्वं ब्रह्मेति वेदेषु कथितं नात्र संशयः ।
तदेवोपाधिसंयुक्तं सर्वं मायाप्रभावतः ॥ ५४ ॥
एकमेवाद्वितीयं यद्ब्रह्म वेदविवादतः ।
तत्र सर्वं कुतो भाति नानाभावपरायणम् ॥ ५५ ॥
नाहमुत्थानसंयुक्तो नाहमुत्थानवर्जितः ।
तयोर्योगमयोऽहं नाद्वितीयेऽस्मिन् स्थितः सदा ॥ ५६ ॥
न सत्यं मयि नास्त्येवानृतं तत् संयुतं परम् ।
ब्रह्म संयोगदं नास्ति सदाऽहं ब्रह्मसञ्ज्ञकः ॥ ५७ ॥
न मया सत्यरूपं तु सृष्टं नानृतरूपकम् ।
तयोर्योगमयं नैवामृतोऽहं चात्मभावतः ॥ ५८ ॥
आदिमध्यान्तभावाश्च कुतो मयि भवन्ति ते ।
सदामृतमये संस्थोऽहमात्मा ब्रह्मभावितः ॥ ५९ ॥
मायया संयुताः सर्वे सर्वेषां जीवनं परम् ।
मां वदन्ति विशेषेण मयि सर्वं न विद्यते ॥ ६० ॥
सर्वात्मकं परं ब्रह्म नानाखेलयुतं भवेत् ।
खेलहीनं भवति च तदेवापि तयोः परम् ॥ ६१ ॥
तत्राहं नागतो दक्ष न गतोऽपि कदाचन ।
स्वयमेव भवेत् पश्य जीवनं मे प्रभावतः ॥ ६२ ॥
तत्र किं मयि सर्वात्मविकारो दृश्यते कदा ।
भ्रान्तियुक्ता मां वदन्ति जीवनं ब्रह्मणां परम् ॥ ६३ ॥
ब्रह्मणां जगतां नैव जीवनं सन्धृतं मया ।
स्वयमेव प्रभावेण मयि तत् दृश्यते वृथा ॥ ६४ ॥
सदा ब्रह्मणि संस्थोऽहं भेदाभेदादिवर्जितः ।
अद्वितीयप्रभावेणात्माऽहं पूर्णस्वभावतः ॥ ६५ ॥
अनेन योगमुख्येन योगी सञ्जायते नरः ।
ब्रह्मणिब्रह्मभूतत्वाच्छान्तियुक्तो भवेत् सदा ॥ ६६ ॥
अतः परं समाख्यं यद्ब्रह्मानुभवरूपकम् ।
कथयामि महाप्रीत्या येन योगी भवेन्नरः ॥ ६७ ॥
[[२१]]
नाहं सर्वात्मको दक्ष नाहमात्मात्मकः कदा ।
आनन्दोऽहं तयोः साम्ये ब्रह्मणि ब्रह्मभावतः ॥ ६८ ॥
मया मायाबलेनैव सर्वात्मकं प्रतिष्ठितम् ।
एकमेवाद्वितीयाख्यं तयोः साम्येऽहमास्थितः ॥ ६९ ॥
ब्रह्मणि सर्वभावश्च भावहीनं कुतो भवेत् ।
अमृतं मृतमूलं यन्नास्त्येव मयि सर्वदा ॥ ७० ॥
अनन्तलीलया युक्तं लीलाहीनं न विद्यते ।
मयि लीलायुतं हीनं वर्तते पश्य मे महः ॥ ७१ ॥
अखण्डरूपभावेन संस्थितोऽहं सदाऽमलः ।
नानाविकारहीनत्वाद् द्वाभ्यां हीनोऽहमञ्जसा ॥ ७२ ॥
ब्रह्मणि सर्वभावश्च वर्तते नात्र संशयः ।
सदात्मभावस्तत्रैव साम्यं वेदे ततः स्मृतम् ॥ ७३ ॥
यद्यत् सङ्कथ्यते वेदे तेषु ब्रह्म स्थितं मतम् ।
न वर्ण्यते तथा तत्र न तद्ब्रह्ममयं किल ॥ ७४ ॥
अतः समं समाख्यातं ब्रह्म वेदविवादतः ।
आनन्दमुभयानन्दादासमन्ताद्विचारय ॥ ७५ ॥
आनन्दोऽहं न सन्देहो ब्रह्म ब्रह्मसु संस्थितम् ।
अनेनानुभवेनैव शान्तियुक्तो नरो भवेत् ॥ ७६ ॥
अतस्ते व्यक्तसञ्ज्ञस्थं कथयामि प्रजापते ।
ब्रह्मानुभवमाहात्म्यं येन योगी भवेन्नरः ॥ ७७ ॥
अहमव्यक्तरूपश्च त्रिभिर्हीनः सदा मतः ।
त्रिषु मोहविहीनोऽहं त्रिनेतिकारकः परः ॥ ७८ ॥
सर्वात्मकं मयि नास्ति तथाऽमृतमयं न च ।
साम्यं स्वाधीनसञ्ज्ञेऽथ ब्रह्मणि नन्दनात्मकम् ॥ ७९ ॥
उत्थानयुक्तहीनाख्यो मोहः सर्वमये स्थितः ।
सदाऽमृतमयो मोहोऽखण्डब्रह्मणि कथ्यते ॥ ८० ॥
नन्दनं सर्वभावेषु समत्वान्मोहरूपकम् ।
सदा स्वाधीनता तेषु कुतस्त्रिषु भवेत् किल ॥ ८१ ॥
त्रिभिर्युक्तोऽहमत्यन्तं तदपि त्रिविमोहतः ।
भिन्नः सदा त्रयाणां तु नेति कर्ताहऽमञ्जसा ॥ ८२ ॥
नानाभावसमायुक्तं भावहीनं ततः परम् ।
साम्यमुभयगं तेभ्यः परोऽव्यक्तस्ततः स्मृतः ॥ ८३ ॥
सृष्ट्वाऽहं त्रिविधां मायां तत्र खेलकरो मुदा ।
मोहहीनोऽहं तदपि मायायाः स्वप्रभावतः ॥ ८४ ॥
मदाज्ञया त्रयं नित्यं चलत्यत्र न संशयः ।
स्वस्वव्यापारसंयुक्तं स्वाधीनोऽहं प्रभावतः ॥ ८५ ॥
त्रयाणामन्तरे प्रज्ञस्तिष्ठाम्यत्र न संशयः ।
ममान्तरे कोऽपि न वै प्रेरकः साधुसत्तम ॥ ८६ ॥
स्वस्वभावेषु नित्यं तु प्रेरकस्त्रिषु संस्थितः ।
तथापि नैव मे मोहो नाहं प्रेरक उच्यते ॥ ८७ ॥
अहमव्यक्तरूपश्च वेदे सङ्कथितो मतः ।
नेह नानास्तिभावाख्यः सदा नानात्रिवर्जितः ॥ ८८ ॥
नेह नानाप्रमाणेनाऽव्यक्तं ब्रह्म सनातनम् ।
तदेवाहं सुखे सक्तः सदा ब्रह्मणि योगतः ॥ ८९ ॥
सर्वेषां नेति कर्ताऽहं महादण्डधरः प्रभुः ।
नेति कर्ता नास्ति मे कस्तेनाव्यक्तोऽहमञ्जसा ॥ ९० ॥
मनोवाणीविहीनोऽहमव्यक्तः परमो मतः ।
अनेनानुभवेनैव शान्तिं प्राप्नोति मानवः ॥ ९१ ॥
अथ पूर्णनिजानन्दानुभवं शृणु सौख्यदम् ।
येन स्वानन्दसंयुक्तो भविष्यसि महामते ॥ ९२ ॥
अहं ब्रह्ममयः साक्षान् मयि मोहविवर्जितम् ।
कुतो मोहयुतं ब्रह्म निजरूपे भवेत् कदा ॥ ९३ ॥
[[२२]]
महावाक्ययुता वेदा यदा लीनाः समाधिना ।
तदा स्वानन्दगाः प्रोक्ताः पश्य वेदे महात्मभिः ॥ ९४ ॥
अहम्भावयुतो जन्तुर्मायया तुर्यभावया ।
मोहहीनश्च युक्तश्च भवति भ्रमभावतः ॥ ९५ ॥
चतुर्विधं मया सृष्टं नानाभावपरायणम् ।
भावहीनं समानं चाव्ययं तेषु स्थितेन वै ॥ ९६ ॥
ब्रह्मदोषविहीनं तु दोषयुक्तं प्रकीर्तितम् ।
साम्यं नेतिमयं वेदे चतुर्हीनपरं भवेत् ॥ ९७ ॥
स्वानन्दे तन्मयो योगी भवते यः समाधिना ।
न पश्यति पुनर्ह्यत्र चतुर्षु मोहितात्मसु ॥ ९८ ॥
समाधिना युतो योगी निजरूपे लयं गतः ।
न पुनर्दर्शनं तस्य तेषां तत्र प्रवर्तते ॥ ९९ ॥
कीदृशोऽहमिमां मायां यस्त्यक्त्वा योगसंयुतः ।
ब्रह्मणि ब्रह्मभूतः स भवति स्वस्वरूपिणि ॥ १०० ॥
यदा ब्रह्मणि योगेन तन्मयो भवति स्वयम् ।
स्वपरादिकमेवेदं पुनर्वद कुतः प्रभो ॥ १०१ ॥
अहं ब्रह्मेति यत् प्रोक्तं पश्य वेदे विचारतः ।
तेनैव कृतकृत्यः स भवति योगसेवया ॥ १०२ ॥
एवं संयोगयोगेन भवेत् ब्रह्मणि तन्मयः ।
शान्तियुक्तः स वै साक्षात् वर्तते शान्तिधारकः ॥ १०३ ॥
अतः परमयोगाख्यं वदामि योगमुत्तमम् ।
तत्रानुभवमात्रेण शान्तियुक्तो नरो भवेत् ॥ १०४ ॥
अहं ब्रह्मेति यत् प्रोक्तं कुतस्तत्र भवेदिदम् ।
तन्मयत्वं प्रजानाथ ब्रह्म ब्रह्मणि संस्थितम् ॥ १०५ ॥
ब्रह्म वाणीविहीनं च मनोगतिविवर्जितम् ।
तदेव नागतं कुत्र न ब्रह्मणि गतं पुनः ॥ १०६ ॥
यदा भिन्नं विहारेषु संसक्तं जायते परम् ।
तदा योगेन स्वानन्दयुक्तं भवति नान्यथा ॥ १०७ ॥
ब्रह्म ब्रह्मणि संस्थं च नागतं न गतं मतम् ।
कुतो योगेन तत्रैव तन्मयो जायते नरः ॥ १०८ ॥
सदाऽहं ब्रह्मरूपश्च न मायासंयुतः कदा ।
भ्रान्त्या मां नैव जानन्ति स्वमहिम्नि स्थितं परम् ॥ १०९ ॥
सर्वसंयोगयोगाख्या माया नानाभ्रमात्मिका ।
मयि ब्रह्मणि सा कुत्र तिष्ठति ब्रह्मवर्जिता ॥ ११० ॥
यथा मरीचिसंस्थं च तोयं व्यर्थभ्रमप्रदम् ।
तथा मयि महामाया व्यर्था संयोगधारिका ॥ १११ ॥
ब्रह्मदोषविहीनं तु वेद सङ्कथितं पुरा ।
तदेव मायया युक्तं कथं भवति मोहितम् ॥ ११२ ॥
भ्रान्तियुक्तं सुयोगेन भ्रान्तिहीनं भवेत् कथम् ।
ब्रह्ममायायुता मूर्खो वदन्ति ब्रह्मवर्जिताः ॥ ११३ ॥
अतोऽहं नागतः पश्य जगत्सु ब्रह्मसु प्रभुः ।
न ब्रह्मणि गतस्तत्र पुनर्योगस्य सेवया ॥ ११४ ॥
ब्रह्मणि विविधाकारा माया नैव प्रतिष्ठति ।
मायायां नैव तद्ब्रह्म ह्यपवादप्रभावतः ॥ ११५ ॥
अयोगस्त्रिविधः प्रोक्तो मृदुमध्याधिमात्रतः ।
तेषां भेदं प्रवक्ष्यामि मायामूलनिकृन्तनम् ॥ ११६ ॥
स्वतोत्थानभ्रमं त्यक्त्वाऽहं ब्रह्म ह्यपवादतः ।
यस्तिष्ठति नरः सोऽपि मृदुयोगयुतो मतः ॥ ११७ ॥
परतोत्थानजं दक्ष भ्रमं त्यक्त्वा ह्ययोगतः ।
तिष्ठति मध्यगः सोऽपि मतो योगस्य सेवया ॥ ११८ ॥
[[२३]]
स्वतः परत उत्थानहीनं संयोगधारकम् ।
ब्रह्म तस्य भ्रमं त्यक्त्वा तिष्ठति सोऽधिमात्रगः ॥ ११९ ॥
नाऽऽगतोऽहं यदा भ्रान्त्या जगत्सु ब्रह्मसु भ्रमन् ।
तदा मे गमनं कुत्र योगेनैव भविष्यति ॥ १२० ॥
ब्रह्मभूतस्वभावेन स तिष्ठति नरोत्तमः ।
निवृत्तियोगमाश्रित्य सदा शान्त्या प्रवर्तते ॥ १२१ ॥
अधुना पूर्णयोगस्यानुभवं ते वदाम्यहम् ।
योगी येन नरो भूत्वा तिष्ठति गणपप्रियः ॥ १२२ ॥
नाहं न ब्रह्म वेदेषु कथितं भेदभ्रान्तिदम् ।
ब्रह्मणि द्विविधं दक्ष कुतो भवति चित्तगम् ॥ १२३ ॥
अहं चित्तमयश्चैव ब्रह्म चित्तमयं तथा ।
चित्तं पञ्चविधं त्यक्त्वा योगी भवति मानवः ॥ १२४ ॥
जगद्रूपं महच्चित्तं ब्रह्मरूपं तथा मतम् ।
जगतां ब्रह्मणां संयोगायोगं चित्तमुच्यते ॥ १२५ ॥
भ्रान्तियुक्तं भवेच्चित्तं नानामायाविमोहितम् ।
योगसेवापरं चित्तं भ्रान्तिहीनं तथा भवेत् ॥ १२६ ॥
अहं कुतस्तथा ब्रह्म कुतस्तयोश्च योगतः ।
अभेदः सर्वगं चित्तं क्रीडत्यत्र न संशयः ॥ १२७ ॥
नाहं सर्वत्र योगेन संयोगाभेदभावतः ।
तिष्ठामि चित्तमोहेन वदन्त्ययोगिनो मुधा ॥ १२८ ॥
ब्रह्म ब्रह्मणि संस्थं यन्नागतं न गतं कदा ।
अयोगधारकोऽहं न चित्तं तदेव सम्मतम् ॥ १२९ ॥
धर्ममिच्छति चित्तं च भ्रमयुक्तं तथार्थकम् ।
कामं मोक्षं ब्रह्मभूतं पञ्चभूमिप्रभावतः ॥ १३० ॥
चित्तं त्यक्त्वा महायोगी पञ्चरूपं सुशान्तिगः ।
ब्रह्मभूतो भवेन्नूनं चिन्तामणिः प्रकथ्यते ॥ १३१ ॥
चित्तरूपा महाबुद्धिस्तत्र भ्रान्तिप्रदायिका ।
सिद्धिस्तयोः पतिः साक्षात् क्रीडति स्वेच्छयाऽपरः ॥ १३२ ॥
तं ज्ञात्वा ब्रह्मभूतश्च भवत्यत्र न संशयः ।
सिद्धिबुद्धिमयं सर्वं त्यक्त्वा योगी प्रजापते ॥ १३३ ॥
नैव ब्रह्मणि संयोगो नायोगो वर्तते कदा ।
सिद्धिबुद्धिभ्रमेणैव परं वाञ्छति तत्पतिः ॥ १३४ ॥
गणेशोऽहं न सन्देहो कुतो मयि भवेदिदम् ।
सिद्धिबुद्धिकृतं सर्वं तेन योगी स जायते ॥ १३५ ॥
सिद्धिबुद्धिसमायुक्तो ब्रह्मभूतो नरो भवेत् ।
शान्तियोगेन शान्तिस्थो वर्तते नित्यमादरात् ॥ १३६ ॥
ब्रह्मणि योगभावेन मायायुक्तविहीनता ।
शान्तिं प्राप्तः स्वयं त्यक्त्वा योगं योगी स जायते ॥ १३७ ॥
एतादृशभवेनैवानुभवेन युतं परम् ।
चित्तं भ्रान्तिभवं सर्वं रसं त्यक्त्वा सुतिष्ठति ॥ १३८ ॥
योगे रससमायुक्तं सदा भवति तत्परम् ।
निश्चलं शान्तिसंयुक्तं मायामलविवर्जितम् ॥ १३९ ॥
एतत्ते कथितं सर्वमनुभवभवं सुखम् ।
यज्ज्ञात्वा ब्रह्मभूतः स तिष्ठत्यत्र न संशयः ॥ १४० ॥
शृणुयाद्यः पठेद्वाऽपि योगानुभवरूपगम् ।
माहात्म्यं स लभेत् सर्वं वाञ्छितं शान्तिमाप्नुयात् ॥ १४१ ॥
॥ ॐ तत्सदिति श्रीमदात्ये पुराणोपनिषदि श्रीमौद्गले महापुराणेनवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रेचित्तभूमिनिरोधेन योगिचित्तानुभवशान्तिसुखवर्णनयोगो नाम षष्ठोऽध्यायः ॥॥ इति योगगीतासूपनिषत्सु सुगमासु द्वितीयोऽध्यायः ॥