०५ सार्वभौमयोगः

॥ श्रीगणेशाय नमः ॥

दक्ष उवाच ।

धन्योऽहं कृतकृत्योऽहं कृतस्त्वया महामुने ।
येन गणेशमाहात्म्यं श्रावितं योगदायकम् ॥ १ ॥

गणेशगीतासारादि कथितं तु विशेषतः ।
ज्ञानं योगप्रदं पूर्णं सङ्क्षेपेण त्वया परम् ॥ २ ॥

तन्न बुद्धं मया सर्वमतः सौलभ्यतो वद ।
योगं क्रमयुतं पूर्णं येन योगी नरो भवेत् ॥ ३ ॥

सूत उवाच ।

एवं पृष्टो महायोगी मुद्गलस्तमुवाच यत् ।
हर्षेण महता युक्तस्तत्तेऽहं कथयामि तु ॥ ४ ॥

मुद्गल उवाच ।

धन्योऽसि कृतकृत्योऽसि साक्षाद्गणपतेः किल ।
विभूतिवाचकस्तत्र न चित्रमिदमुत्तमम् ॥ ५ ॥

त्वया पृष्टं महाभाग लोकोपकारकारकम् ।
सर्वेषां सुलभत्वेन योगशान्तिपदप्रदम् ॥ ६ ॥

कथयामि च ते प्रीत्या गुह्यं वेदरहस्यकम् ।
शृणुष्वैकमना दक्ष योगं शान्तिप्रदायकम् ॥ ७ ॥

चित्तं पञ्चविधं प्रोक्तं तेषु पञ्चविधो रसः ।
सरसं चित्तमुत्सृज्य योगी भवति मानवः ॥ ८ ॥

क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् ।
चित्तं पञ्चविधं विद्धि जगत्सु ब्रह्मसु स्थितम् ॥ ९ ॥

व्यष्टिभावे स्थिता ये तु जन्तवो विविधात्मकाः ।
लक्षचतुरशीतिषु योनिषु सम्भवाः किल ॥ १० ॥

देहभोगादिमार्गेषु कुशलाः सम्भवन्ति ये ।
तेषु स्वस्वप्रपञ्चेषु नानाकार्यपरायणाः ॥ ११ ॥

तैः क्षिप्तं कार्यसिद्ध्यर्थं चित्तं कार्येषु नित्यदा ।
तत्तत्कार्यप्रकाशेन प्रकाशयति तान् हृदि ॥ १२ ॥

तेन कार्येषु दक्षास्ते भवन्त्यत्र न संशयः ।
तदेव क्षिप्तसञ्ज्ञं त्वं चित्तं जानीहि मानद ॥ १३ ॥

केचित् स्वल्पज्ञकास्तेषु केचिज्ज्ञानाधिका मताः ।
मध्यमाः केचिदेवं तु नानाभेदाश्रिता नराः ॥ १४ ॥

त्रिविधेषु विभागेषु स्थिता नानाविभेदतः ।
नानाज्ञानयुतास्तेषां रूपं न कथितुं क्षमम् ॥ १५ ॥

लक्षचतुरशीतिषु जन्तवो विविधात्मकाः ।
व्यष्टिस्थाः सर्वकार्येषु ज्ञानहीना भवन्ति ये ॥ १६ ॥

ते मूढाः कथ्यते लोकैर्विषये चतुरैः सदा ।
तेषु नानाविधा भेदा अल्पाधिकसुमध्यमाः ॥ १७ ॥

तेषां प्रकाशकं चित्तं नानामूढस्वभावगम् ।
तदेव मूढसञ्ज्ञाख्यं चित्तं ज्ञातव्यमञ्जसा ॥ १८ ॥

परैः सम्बोधितो जन्तुर्न बुबोध विचारतः ।
कार्यं नानाविधं तस्य चित्तं मूढं प्रकीर्तितम् ॥ १९ ॥

व्यष्टिस्था ये नरा दक्ष स्वधर्मनिरताः सदा ।
नानातपःपरा भूत्वा मुक्तिमिच्छन्ति शाश्वतीम् ॥ २० ॥

विषयेषु विरज्यैव सदा ब्रह्मपरायणाः ।
कुर्वन्ति विविधं कर्माऽहर्निशं मुक्तिकारणात् ॥ २१ ॥

तदपि ब्रह्म हृदये न दृष्टं तैर्महात्मभिः ।
न संसारसुखे चित्तं तेषां रमति कर्हिचित् ॥ २२ ॥

अतो विक्षिप्तचित्तास्ते मता योगिजनैः पुरा ।
ब्रह्मार्पणक्रियाः सर्वाः कुर्वन्त्यन्तरबाह्यजाः ॥ २३ ॥

विशेषेणैव क्षिप्तोऽहं संसारे मायया सदा ।
विगतक्षेपणं सर्वे नानासाधनभावतः ॥ २४ ॥

तेषां मुक्त्यर्थमत्यन्तं प्रकाशयति भावनाम् ।
चित्तं क्रियात्मिकां तेन विक्षिप्तं तत्प्रकीर्तितम् ॥ २५ ॥

तत्र नानाक्रियायाश्च सामर्थ्येन विमोहितः ।
जानाति देवतां तुष्टां ममोपरि न संशयः ॥ २६ ॥

कदा देवप्रसादादि गृह्य विक्षेपसंयुतः ।
अनाधारां क्रियां कुयोद्देवाज्ञावशगो मुधा ॥ २७ ॥

स्वप्नेषु विविधान् भावान् पश्यति तद्गतचेतसा ।
सत्यं स्वप्नं मदीयं तु मान्यं तादृशजं चरेत् ॥ २८ ॥

एवं विक्षिप्तभावेन मोहितः स कदाचन ।
अनाधारं करोत्येव नानातपःप्रभावतः ॥ २९ ॥

समष्टिव्यष्टिसंस्थं यच्चित्तं वैराटगं परम् ।
तेन व्यष्टिं समाव्याप्य भुङ्क्ते स विविधं सुखम् ॥ ३० ॥

वैराटस्य क्रिया प्रोक्ता व्यापिका शास्त्रसम्मते ।
तत्र व्यापकभावस्य चित्तं प्रकाशदं मतम् ॥ ३१ ॥

तत्त्वेषु विविधेष्वेव स्थूलसूक्ष्मादिगेषु च ।
व्यापकभावकाशत्वाच्चित्तं तेषु स्थितं मतम् ॥ ३२ ॥

समष्टिव्यष्टिसंयोगेऽन्नं ब्रह्म स्थूलगं परम् ।
तथा स्वप्नगतं सूक्ष्मं सौषुप्तं समसंस्थितम् ॥ ३३ ॥

चेतनाभावगं पूर्णं तद्वन्नादात्मकं मतम् ।
अस्मिताख्यं परं ब्रह्म तेषु चित्तं प्रकीर्तितम् ॥ ३४ ॥

समष्टिव्यष्टिभागस्य तयोरैक्यस्य च प्रभो ।
प्रकाशकारकं विद्धि चित्तमेकाग्रसञ्ज्ञितम् ॥ ३५ ॥

समष्टिव्यष्टिभावेषु न भिन्नं भवतीत्यहो ।
तेनैकाग्रं समाख्यातं चित्तं तज्ज्ञानकारकम् ॥ ३६ ॥

देहश्चतुर्विधः प्रोक्तः स्थूल: सूक्ष्मः समात्मकः ।
अस्मिताख्यश्चतुर्थश्च तेषु देही स्थितो मतः ॥ ३७ ॥

देहेषु मोहितो देही जीव इत्यभिधीयते ।
मोहहीनः स एवाऽपि शिवः प्रोक्तो मनीषिभिः ॥ ३८ ॥

[[१५]]

जीवशिवात्मिका सञ्ज्ञा देहिनो भ्रममात्रतः ।
सदैकात्मस्वभावत्वात्तत्र भेदो न विद्यते ॥ ३९ ॥

तत्र जीवशिवाकारभावप्रकाशकारकम् ।
चित्तमेकाग्रसञ्ज्ञाख्यं तिष्ठति देहिसंश्रितम् ॥ ४० ॥

सास्मिताच्च परं चित्तमेकाग्रं विद्यते न वै ।
देहदेहिमयं चित्तमेकाग्रं योगिनां मते ॥ ४१ ॥

चतुर्णां वपुषां यत्र ब्रह्माकारेण जायते ।
संयोगो बिन्दुरूपं तज्ज्ञातव्यं ब्रह्म सर्वगम् ॥ ४२ ॥

चतुष्पदं बुधैः प्रोक्तं चतुर्भिर्वर्जितं सदा ।
देहानां ब्रह्म विख्यातं नानादेहस्वभावगम् ॥ ४३ ॥

तत्र चतुष्पदाकारभावप्रकाशकारकम् ।
चतुर्भिर्वर्जितस्यैव चित्तं तिष्ठति तद्गतम् ॥ ४४ ॥

देहेषु न भवेद्भिन्नं सर्वगमात्मभावतः ।
निरोधं कथ्यते चित्तं बिन्दुधर्मप्रकाशकम् ॥ ४५ ॥

जीवशिवात्मभावस्थं मोहहीनं सदात्मगम् ।
ब्रह्म सोऽहं समाख्यातं सदा भ्रान्तिविवर्जितम् ॥ ४६ ॥

तत्र जीवशिवाकारमोहहीनप्रकाशकम् ।
चित्तमात्मस्वरूपस्थं निरोधं कथ्यते बुधैः ॥ ४७ ॥

देहदेहिसमायोगे स्वत उत्थानमुच्यते ।
बोधाख्यं द्वन्द्वभावेन ब्रह्म खेलकरं सदा ॥ ४८ ॥

तत्र निरोधकं चित्तं तस्य रूपं वदाम्यहम् ।
सङ्क्षेपेण प्रजानाथ शृणु भावसमन्वितः ॥ ४९ ॥

बाह्यं स्थूलं समाख्यातमान्तरं सूक्ष्मगं मतम् ।
बाह्यान्तरैकभावस्थमानन्ददेहगं परम् ॥ ५० ॥

त्रिभिर्हीनं त्रयाणां च चालकं ह्यस्मितात्मकम् ।
अहमानुभवेनैतज्ज्ञातव्यं योगिनां हृदि ॥ ५१ ॥

तेषां संयोगभावे यच्चतुर्णां वपुषां परम् ।
सर्वात्मकं भवेद्ब्रह्म पञ्चमं बिन्दुसञ्ज्ञितम् ॥ ५२ ॥

चतुर्विधा नरस्यैव कल्पना हृदि संस्थिता ।
अतः परं न भेदोऽस्ति भवेद्येनास्य कल्पना ॥ ५३ ॥

बिन्दुत्यागे निरालम्बं चित्तं भवति सर्वदा ।
सततं तत् समाख्यातं ब्रह्म ध्यातृविहीनतः ॥ ५४ ॥

न किञ्चिज्ज्ञायते यत्र भेदहीनप्रभावतः ।
सोहं मात्रात्मकं चित्तं निरालम्बसमाधिदम् ॥ ५५ ॥

अवलम्बनगं चित्तं चतुर्धा देहिसंश्रितम् ।
अवलम्बनहीनं तद्देहिगं चिन्मयं भवेत् ॥ ५६ ॥

निरालम्बपरित्यागेऽधिकसंरोधनं भवेत् ।
चित्तस्य देहदेहिभ्यां हीनत्वान्नात्र संशयः ॥ ५७ ॥

मनोवाणीविहीनं तच्चित्तं ज्ञातव्यमादरात् ।
अस्तिनास्तिविहीनत्वादाधाराधेययोगतः ॥ ५८ ॥

अवलम्बनयोगो न पञ्चधा योगिनां हृदि ।
निरालम्बनकं तस्मान् मनोवाणीविवर्जितम् ॥ ५९ ॥

बोधेन बुद्ध्यते सर्वं निरालम्बं समाधिना ।
अवलम्बनकं तद्वद्बोधबोधो न विद्यते ॥ ६० ॥

एवं बोधात्मकं ब्रह्म देहदेहिसमाधिदम् ।
देहदेहिसमायोगप्रकाशं चित्तमुच्यते ॥ ६१ ॥

देहसौख्यं प्रजानाति देहिसौख्यं निरन्तरम् ।
तयोर्योगे च यत् सौख्यं जानाति ब्रह्म बोधगम् ॥ ६२ ॥

पदानां बोधभावेन पदार्थानां विशेषतः ।
उत्थानं जायते तस्मात् स्वत उत्थानमुच्यते ॥ ६३ ॥

सुखं ज्ञात्वा समुत्थानं स्वयमेव करोति यः ।
देहदेहि च सृष्ट्वा स खेलति ब्रह्मतत्परः ॥ ६४ ॥

तत्रोत्थानप्रकाशाख्यं चित्तं निरोधसञ्ज्ञकम् ।
तिष्ठत्यत्र न सन्देहो ज्ञातव्यं योगिनां हृदि ॥ ६५ ॥

बोधत्यागे समाख्यातं ब्रह्म साङ्ख्यं प्रजापते ।
कः सङ्ख्यां कुरुते तस्य बोधनाशप्रभावतः ॥ ६६ ॥

उत्थानवर्जितं ब्रह्म साङ्ख्यं साक्षिस्वभावगम् ।
बोधहीनात् कदा तत्रोत्थानं नैव प्रजापते ॥ ६७ ॥

प्रकृतिसम्भवं बोधं तयोः पुरुषसम्भवम् ।
योगसौख्यं न जानाति साङ्ख्यं बोधविहीनतः ॥ ६८ ॥

बुद्ध्वा सुखं नरस्यैवोत्थानं यथा प्रजापते ।
तथा मायासुखं ज्ञात्वा ब्रह्मणोत्थानकं भवेत् ॥ ६९ ॥

तथा परत उत्थानं साङ्ख्ये नित्यं प्रतिष्ठितम् ।
तत्र योगं प्रवक्ष्यामि येन योगी नरो भवेत् ॥ ७० ॥

यद्युत्थानसमायुक्तं भवति चेत्तदा भवेत् ।
उत्थानवर्जितं दक्ष तदेवं बीजमाद्यकम् ॥ ७१ ॥

उत्थानहीनभावेन सदा साङ्ख्यं विराजति ।
स्वयं च स्वत उत्थानं निःसृतं तत् प्रभावतः ॥ ७२ ॥

साङ्ख्येन न कृतं चैतत्तथाप्युत्थानहीनतः ।
स्वयं च स्वत उत्थानं जायते नात्र संशयः ॥ ७३ ॥

यदाऽनृतं भवेद्दक्ष तदा सत्यं प्रकीर्त्यते ।
एकं ब्रह्म यदा तिष्ठेत् सत्यं तत् केन कथ्यते ॥ ७४ ॥

न दृष्टमनृतं येन न जानाति स सत्यकम् ।
सदा तादृशरूपत्वादेकभावप्रदर्शनात् ॥ ७५ ॥

अत उत्थानहीनत्वं धृतं तेन विशेषतः ।
स्वत उत्थानभावाख्यं स्वयमेवोपजायते ॥ ७६ ॥

न कृतं तेन साङ्ख्येन स्वयमेव विनिःसृतम् ।
अतः परत उत्थानं प्राप्तं तत्र न संशयः ॥ ७७ ॥

सङ्ख्याहीनप्रकाशाख्यं चित्तं तत्र प्रवर्तते ।
बोधहीनप्रकाशेन ज्ञायते तन्निरोधकम् ॥ ७८ ॥

उत्थानेन युतं ब्रह्म बोधमयं प्रकीर्तितम् ।
साङ्ख्यमुत्थानहीनं च तयोर्योगे निजात्मकम् ॥ ७९ ॥

स्वतः परत उत्थानं तत्र नैव प्रजापते ।
जगतां ब्रह्मणां योगे भवति स्वस्वरूपकम् ॥ ८० ॥

स्वस्वरूपात् परो नास्ति संयोगः तन्मयः कदा ।
स समाधिः समाख्यातो ब्रह्मण्यस्यान्वयात्मकः ॥ ८१ ॥

स्वकीयाभेदभावस्य तत्र प्रकाशकारकम् ।
चित्तं निरोधसञ्ज्ञं तु तिष्ठत्यत्र न संशयः ॥ ८२ ॥

संयोगः पञ्चधा दक्ष भवति शृणु रूपकम् ।
तस्य भिन्नं प्रवक्ष्यामि लोकानां हितकारणात् ॥ ८३ ॥

एते भेदाः समाख्याता योगेन लयतां ययुः ।
स्वसंवेद्येन सन्देहस्तेन सृष्टाश्च पालिताः ॥ ८४ ॥

एतेषां रूपमास्थाय खेलति स्वस्वरूपकम् ।
नानालीलाकरं प्रोक्तं तदेवं वेदवादिभिः ॥ ८५ ॥

उत्पत्तिनाशसंयुक्ता भेदा एते मनीषिभिः ।
तेषां निजस्वभावत्वादसत्स्वानन्द उच्यते ॥ ८६ ॥

तद्ब्रह्म शक्तिरूपाख्यं ज्ञातव्यं भेदधारणात् ।
तत्रासत्काशभावेन चित्तं तिष्ठति निश्चितम् ॥ ८७ ॥

एतैर्भेदैर्विहीनं यदमृतं ब्रह्म कथ्यते ।
एतेषां जीवनं नित्यं तच्च सत्स्वस्वरूपकम् ॥ ८८ ॥

तद्ब्रह्म सौरमाख्यातं भेदहीनप्रभावतः ।
तत्र नित्यस्य काशाख्यं चित्तं निरोधकं मतम् ॥ ८९ ॥

[[५]]

असत् सत् द्विविधं प्रोक्तं तयोर्योगे समात्मकम् ।
स्वसंवेद्यं परं ब्रह्म विष्णुर्द्वन्द्वप्रवेशनात् ॥ ९० ॥

तत्रानन्दप्रकाशाख्यं चित्तं निरोधसञ्ज्ञितम् ।
तिष्ठते तेन योगीन्द्रास्तं गच्छन्ति समाधिना ॥ ९१ ॥

त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं नेति कारकम् ।
मोहहीनप्रभावेण तुरीयं ब्रह्म कथ्यते ॥ ९२ ॥

तदेव शिवसञ्ज्ञाख्यं ज्ञातव्यं योगसेवया ।
तत्र नेति प्रकाशाख्यं चित्तं तिष्ठति तद्गतम् ॥ ९३ ॥

त्रिविधं मोहसंयुक्तं मोहहीनं चतुर्थकम् ।
तेषां संयोगभावे वै स्वसंवेद्यं प्रकीर्तितम् ॥ ९४ ॥

पूर्णसंयोगभावाख्यं पञ्चमं ब्रह्म तत् स्मृतम् ।
तस्मात् परो न संयोगः कथ्यते योगिभिः सदा ॥ ९५ ॥

स एव गणनाथस्तु स्वानन्दाख्यः प्रकीर्तितः ।
तत्र निजप्रकाशाख्यं चित्तं तिष्ठति सर्वगम् ॥ ९६ ॥

अतः परमयोगाख्यं ब्रह्म मायाविवर्जितम् ।
तदेव योगिभिः प्रोक्तं निवृत्तिसुखदायकम् ॥ ९७ ॥

न तत्र जगतां दक्ष ब्रह्मणां योग उच्यते ।
तस्याऽपि तेषु तद्वच्च तेनायोग इति स्मृतः ॥ ९८ ॥

ब्रह्मणि तन्मयत्वेन स्वस्य संयोग उच्यते ।
तस्मान्निवृत्तिरापन्ना तेन निवृत्तिसञ्ज्ञकम् ॥ ९९ ॥

स्वसंवेद्यस्य नाशेन लभ्यते ह्यसमाधिना ।
नाऽगतं न गतं ब्रह्म संयोगः कुत्र जायते ॥ १०० ॥

तत्रायोगप्रकाशाख्यं चित्तं निरोधसञ्ज्ञितम् ।
तिष्ठति चापवादेषु निवृत्तिसुखदायकम् ॥ १०१ ॥

इदं पञ्चविधं चित्तं कथितं ते प्रजापते ।
जगत्सु ब्रह्मसु तज्ज्ञं नानाप्रकाशदायकम् ॥ १०२ ॥

भूमयः पञ्च विख्याताश्चित्तस्य विविधात्मनः ।
भूमीनां त्यागभावे तच्चित्तं ब्रह्ममयं भवेत् ॥ १०३ ॥

अतः पञ्चविधं चित्तं त्यज त्वं योगसेवया ।
योगी भविष्यसि दक्ष चिन्तामणौ न संशयः ॥ १०४ ॥

संयोगायोगसञ्ज्ञस्थं निरोधाख्यं मतं बुधैः ।
अतः परो निरोधो न विद्यते सर्वसम्मते ॥ १०५ ॥

सार्वभौमात्मधर्मेण योगी भवति मानवः ।
तत्र शान्तिं लभेच्चित्तं त्यक्त्वा भूमिभवं भ्रमम् ॥ १०६ ॥

योगरूपे सुखं यद्वै योगिनां हृदि वर्तते ।
तदेव कथितुं दक्ष शक्यते न कदाचन ॥ १०७ ॥

मनोवाणीमयं चित्तं चतुर्विधं प्रकीर्तितम् ।
मनोवाणीविहीनं तु निरोधसञ्ज्ञकं मतम् ॥ १०८ ॥

अतो योगः समाख्यातो मनोवाणीमयो न च ।
मनोवाणीविहीनोऽपि कथ्यते नैव योगिभिः ॥ १०९ ॥

कीदृशं ब्रह्म तत्राहं योगेन कीदृशेन च ।
ब्रह्मभूतः स्वयं जात एभ्यः शान्तिं लभेन्नरः ॥ ११० ॥

योगे योगी नरो जातस्तत्र न ज्ञायते कदा ।
ब्रह्म वा साधनं किञ्चिद्ब्रह्मभूतस्य कारकम् ॥ १११ ॥

तन्मयत्वं ब्रह्मणि न न च तन्मयवर्जनम् ।
अतः शान्तिं समागृह्य शान्तियोगपरो भवेत् ॥ ११२ ॥

पञ्चविधेषु चित्तेषु दृश्यते जगतां परम् ।
ब्रह्मणामैश्वरं सौख्यं रसं तत्र न धारयेत् ॥ ११३ ॥

नानारसविहीनं तु चित्तं कृत्वा प्रजापते ।
तत्त्यक्त्वा स भवेद्योगी शान्त्या शान्तिमवाप्नुयात् ॥ ११४ ॥

[[१८]]

स्रोतसोर्णवमानन्दाद्गच्छन्त्यप्रेरितान्यपि ।
प्रारब्धेन तथा कामान् भुनक्ति योगिसत्तमः ॥ ११५ ॥

नानाद्वन्द्वविहारेषु समभावपरायणः ।
योगी भवति शान्त्या च सदा योगसुखे रतः ॥ ११६ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन सार्वभौमयोगो नाम पञ्चमोऽध्यायः ॥॥ इति योगगीतासूपनिषत्सु सुगमासु प्रथमोऽध्यायः ॥