॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अधुना शृणु दक्ष त्वं पूर्णशान्तिप्रदायकम् ।
चरितं गणनाथस्य नानायोगेश्वरस्य यत् ॥ १ ॥
अयोगो मायया हीनः सदा बन्धविवर्जितः ।
निमग्नश्च ब्रह्मसुखे तिष्ठ नित्यं विशेषतः ॥ २ ॥
स्वानन्दाख्यं परं ब्रह्म नष्टं गाणेशयोगतः ।
पुनः सृष्टं गणेशेन पूर्णयोगस्वरूपिणा ॥ ३ ॥
एवं पुनः प्रनष्टं तत् कालेन बहुना विधे ।
पुनः सृष्टं पुनर्नष्टं कल्पा एवं गता बहु ॥ ४ ॥
नित्यं त्वयोगसंस्थः स गणेशो ब्रह्मनायकः ।
विचारमकरोच्चित्ते दृष्ट्वा स्वानन्दजं भ्रमम् ॥ ५ ॥
अहो मायाप्रभावेण ब्रह्म स्वानन्दधारकम् ।
नानाभावयुतं भूत्वा पुनर्भवति नश्यति ॥ ६ ॥
मायाविहीनभावेनाऽहं सदा मोहवर्जितः ।
अखण्डयोगसंयुक्तोऽतिष्ठं ब्रह्मपरायणः ॥ ७ ॥
अविनाशिपदं दत्तं मह्यं केन महात्मना ।
न ब्रह्म नाशसंयुक्तमविनाशि न विद्यते ॥ ८ ॥
दक्ष उवाच ।
अविनाशि समाख्यातं देहिरूपं पुरा त्वया ।
स्वत उत्थानकेनैव सृष्टं तदेव निश्चितम् ॥ ९ ॥
स्वसंवेद्यात् परं ब्रह्मायोगरूपं प्रकीर्तितम् ।
तदेव केन योगीश विनाशि कथ्यते त्वया ॥ १० ॥
मुद्गल उवाच ।
नाशाऽनाशादिभेदाश्च स्वानन्दात् सम्भवन्ति च ।
भेदाऽभेदादिहीनं तत् स्वसंवेद्यं प्रकीर्तितम् ॥ ११ ॥
शिष्यस्य बोधदानार्थं योगिनस्तं वदन्ति च ।
कथितुं नैव शक्यत्वात् किञ्चिद्भेदं प्रजापते ॥ १२ ॥
अयोगमविनाशाख्यं कथयाम्यधुना परम् ।
नाशरूपं स्वसंवेद्यं बोधार्थं नात्र संशयः ॥ १३ ॥
[[७]]
अयोगश्चिन्तयाऽऽविष्टो बभूवे बन्ध?हानतः ।
निवृत्तिजं सुखं तुच्छं मानयामास चेतसा ॥ १४ ॥
सदा मायाविहीनत्वं ममास्त्यत्र न संशयः ।
मायायुक्तविहीनत्वं नैव ब्रह्मणि विद्यते ॥ १५ ॥
विचार्य खेदसंयुक्तो योगमार्गपरोऽभवत् ।
अयोगो हृदि सञ्चिन्त्य तपस्तताप दारुणम् ॥ १६ ॥
दशवर्षैर्गणाध्यक्षः प्रसन्नो हृदि संस्थितः ।
दर्शयामास मन्त्रं स एकाक्षरं स्वकीयकम् ॥ १७ ॥
दृष्ट्वा योगो जजापाऽतिहर्षितो मन्त्रमुत्तमम् ।
ध्यात्वा मन्त्रस्वरूपस्थं गणेशं शान्तिदायकम् ॥ १८ ॥
ततः स्वल्पेन कालेन रूपं गणपतेः शुभम् ।
ददर्श गजवक्त्रादि चिह्नयुक्तं महाप्रभुः ॥ १९ ॥
ततोऽतिविस्मितो भूत्वा विचारमकरोत् हृदि ।
कोऽयं गजाननो देवः स्त्रीभ्यां संशोभते हृदि ॥ २० ॥
गणेशकृपया ज्ञानं बभूव तस्य शाश्वतम् ।
तेन सर्वमयोगेन ज्ञातं विघ्नेशचेष्टितम् ॥ २१ ॥
ततोऽतिहर्षितो भूत्वा ध्यात्वा देवं गजाननम् ।
मन्त्रं जजाप योगज्ञः शान्तिप्राप्त्यर्थमादरात् ॥ २२ ॥
स्वयं स्वल्पेन कालेन पुरो ययौ गजाननः ।
वरदो भक्तवात्सल्यान् महाभक्तस्य भो विधे ॥ २३ ॥
दक्ष उवाच ।
आश्चर्यं विप्र वदसि ज्ञायते न मया परम् ।
रहस्यं तेऽद्य वाक्यस्य योगग्रथितकस्य च ॥ २४ ॥
अष्टौ विनायकाः प्रोक्तास्ते सर्वे गजवक्त्रिणः ।
एकदन्तादिचिह्नैश्च संयुक्ता गणपाः किल ॥ २५ ॥
संयोगस्थं गणेशानं भजतेऽनन्यमानसाः ।
तेषां हृदि गणेशानः प्रकटो जायते यदा ॥ २६ ॥
तदा ते विस्मिता भूत्वा न जानन्ति स्वरूपकम् ।
नित्यं गजाननाः प्राज्ञा गजाननं कथं मुने ॥ २७ ॥
एकाक्षररहस्यं ते न जानन्ति कथं प्रभो ।
एकाक्षरस्य भावेन संस्थिता नित्यमञ्जसा ॥ २८ ॥
तथा संयोगरूपस्थो गणेशो गणनायकम् ।
मन्त्रयुक्तं न जानाति मन्त्राकृतिधरः कथम् ॥ २९ ॥
अयोगगणनाथोऽयं गजाननाकृतिं धरन् ।
समन्त्रो मन्त्रयुक्तं तं न जानाति गणेश्वरम् ॥ ३० ॥
कीदृशो गणनाथस्तु पूर्णयोगप्रवाचकः ।
यं न जानन्ति विघ्नेशास्तदाकृतिधरा अपि ॥ ३१ ॥
संयोगे गणनाथोऽपि सिद्धिबुद्धिसमन्वितः ।
अयोगे सिद्धिबुद्धिभ्यां हीन एव स वर्ण्यते ॥ ३२ ॥
पूर्णयोगे गणेशानः संयोगायोगवर्जितः ।
मायाभ्यां संयुतः प्रोक्तः कथं वद रहस्यकम् ॥ ३३ ॥
मुद्गल उवाच ।
सम्यक् पृष्टं त्वया दक्ष रहस्यं परमाद्भुतम् ।
योगिनां सुखदं पूर्णं शान्तिदं भावितात्मनाम् ॥ ३४ ॥
एकाग्रचित्तभावेन शृणु तस्य चरित्रकम् ।
अन्यथा भ्रान्तिसंयुक्तो भविष्यसि निरन्तरम् ॥ ३५ ॥
यथा विश्वमिदं नित्यं ब्रह्माकारं प्रवर्तते ।
तथापि ब्रह्मरूपं तन्न जानाति हृदि स्थितम् ॥ ३६ ॥
नामरूपविहीनत्वान् मन्त्रस्तस्य न विद्यते ।
तपसा युक्तभावेन प्रणवं पश्यति प्रभुम् ॥ ३७ ॥
सर्वाकारं महाबीजं प्रणवाकृतिरूपिणम् ।
दृष्ट्वा विस्मयभावेन विचारमकरोत् हृदि ॥ ३८ ॥
तपसा योगभावेन चतुष्पादं जगन्मयम् ।
जानाति कृपया तस्य मन्त्रराजं जगद्यथा ॥ ३९ ॥
ततो योगप्रभावेण प्रणवार्थस्वरूपिणम् ।
देवं सर्वात्मभावस्थं पश्यति विश्वमञ्जसा ॥ ४० ॥
दृष्ट्वाऽतिविस्मितं भूत्वा विचारयति चेतसि ।
तपसा योगभावेन तं जानाति महाप्रभुम् ॥ ४१ ॥
ततो योगप्रभावेण शान्तिस्थं गणनायकम् ।
पश्यति वक्रतुण्डाख्यं ब्रह्म स्वानन्दगं परम् ॥ ४२ ॥
प्रणवो देहरूपश्चेत् प्रणवार्थो गजाकृतिः ।
शिरस्तयोश्च संयोगे गणेशो योगरूपधृक् ॥ ४३ ॥
योगाकारं महद्रूपं दृष्ट्वा विस्मितमानसम् ।
विश्वं भक्तिसमायुक्तं भजनार्थं मनो दधे ॥ ४४ ॥
एतादृशं सुशान्तिस्थं ब्रह्म देहधरं कथम् ।
भवति तस्य सेवा वै कुर्वे नित्यं महात्मनः ॥ ४५ ॥
हृदि स्थितं तस्य भावं ज्ञात्वा रूपधरः प्रभुः ।
गजाननो बभूवापि पुनर्दृष्ट्वाऽतिविस्मितम् ॥ ४६ ॥
तं पश्यति प्रजानाथ कोऽयं भिन्नस्वरूपधृक् ।
?तस्तस्तं तस्य जानाति कृपया योगसेवया ॥ ४७ ॥
गणेशानं मूर्तिधरं भजतेऽनन्यभावतः ।
मन्त्रादिना रहस्येन जानीहि विश्वमादरात् ॥ ४८ ॥
तथा गणेश्वराः प्रोक्ता अष्टौ योगप्रवाचकाः ।
तेषां हृदि स्थितं ब्रह्म स्वसंवेद्यं न संशयः ॥ ४९ ॥
महैश्वर्यप्रसंयुक्ता न जानन्ति कदाचन ।
वयं ब्रह्मस्वरूपाश्च प्रत्येकं मानयन्ति ते ॥ ५० ॥
न मत्तः परमं किञ्चिज्ज्ञात्वा मोहसमन्विताः ।
विश्वात्मनि च विश्वस्मिन् क्रीडायुक्ता बभूविरे ॥ ५१ ॥
कृत्वा नानाविधं खेलं नानाकल्पपरायणाः ।
एवं बहौ गते काले शान्तिमिच्छन्ति शाश्वतीम् ॥ ५२ ॥
ततः क्रीडां विहायैव स्वमहिम्न्यभवन् स्थिताः ।
तथापि ते पुनर्विश्वप्रवशाः ससृजुः स्वयम् ॥ ५३ ॥
ततस्ते खेदसंयुक्ता विचारं कुर्वते परम् ।
केन स्म प्रेरिता विश्वं सृजामो विविधं वयम् ॥ ५४ ॥
अतः स्वाधीनता नो न विद्यतेऽपि कदाचन ।
वयं न ब्रह्मरूपाश्च मायामोहयुताः सदा ॥ ५५ ॥
एवं मनसि सन्धार्य तपश्चेरुः समाधिदम् ।
तपसा योगसंयुक्ता बभूवुर्नात्र संशयः ॥ ५६ ॥
क्रमेण गणपाः सर्वे पूर्णयोगस्वरूपिणि ।
लयं ययुः सुशान्तिस्थाः शान्तरूपे प्रजापते ॥ ५७ ॥
तत्र विधिं प्रवक्ष्यामि शृणु संशयनाशकम् ।
योगोऽष्टधा समाख्यातस्तत् स्वरूपं सुयोगदम् ॥ ५८ ॥
शमो दम आसनं च प्राणायामश्चतुर्थकः ।
प्रत्याहारो धारणा वै ध्यानं समाधिरष्टमः ॥ ५९ ॥
स्वधर्मयुक्तभावेन मनो नियम्य यत्नतः ।
यतते ब्रह्मप्राप्त्यर्थं स शमः परिकीर्तितः ॥ ६० ॥
स्वधर्मस्थितिमास्थाय नियमादिस्वभावतः ।
दमेद्देहं सुशान्त्यर्थं दमस्तेन प्रकथ्यते ॥ ६१ ॥
स्वस्तिकादीनि भो दक्ष आसनानि विशेषतः ।
साधयित्वा समातिष्ठेद्योगार्थमासनं स्मृतम् ॥ ६२ ॥
प्राणायामं ततोऽभ्यस्य लघ्वादिकं क्रमेण च ।
योगार्थं साधयेद्वायुं स प्राणायाम उच्यते ॥ ६३ ॥
नानाविषयभोगार्थं गच्छन्तीन्द्रियकाणि तु ।
तेभ्यस्तानि समागृह्य योगयुक्तानि कारयेत् ॥ ६४ ॥
[[९]]
स मनांसि सुशान्त्यर्थं हृत्वा हृत्वा पुनः पुनः ।
इन्द्रियाणि नरः कुर्यात् प्रत्याहारः स वै स्मृतः ॥ ६५ ॥
महावाक्यादिभिः प्रोक्तं ब्रह्म शब्दार्थभावतः ।
सन्धार्य स श्रमेद्दक्ष धारणा सा प्रकीर्तिता ॥ ६६ ॥
हृदि ब्रह्मावबोधश्च जायते ऐक्यभावतः ।
स्वस्य तेन समाख्यातं ध्यानं ब्रह्म सुखप्रदम् ॥ ६७ ॥
ततो ब्रह्मणि सोऽप्येवं लीनः सञ्जायते परे ।
न ब्रह्म न स्वयं तत्र समाधिः परिकीर्तितः ॥ ६८ ॥
इदं योगाष्टकं प्रोक्तं योगप्राप्त्यर्थमादरात् ।
सेविनां ब्रह्मदं पूर्णं भविष्यति न संशयः ॥ ६९ ॥
तत्र मायायुता जीवा भिन्नदेहधरा मताः ।
तेषामष्टकमेवं तद्वर्तते साधनात्मकम् ॥ ७० ॥
ब्रह्माकाराणि प्रोक्तानि तत्त्वानि विविधानि तु ।
विश्वरूपाणि सर्वाणि ब्रह्माण्यन्नमुखानि च ॥ ७१ ॥
तेषां योगः समाख्यातस्त्रिविधो नाऽत्र संशयः ।
देहादिभावशून्यत्वात् तच्छृणुष्व सुखप्रदम् ॥ ७२ ॥
धारणाध्यानके दक्ष समाधिः परिकीर्तितः ।
त्रिभिर्योगं समाराध्य शान्तिगानि भवन्ति तु ॥ ७३ ॥
स्वस्वब्रह्मणि ये सन्ति भोगा ब्रह्मसुखात्मकाः ।
तांस्त्यक्त्वा धारयेद्ब्रह्म तपस्तदेव कथ्यते ॥ ७४ ॥
पूर्णशान्त्यर्थमत्यन्तं ब्रह्माणि सम्भवन्ति चेत् ।
त्यक्त्वा भोगांस्तपस्तेषां ज्ञातव्यं विबुधैः परम् ॥ ७५ ॥
मनोवाणीविहीनं न मनोवाणीमयं न च ।
ब्रह्म वेदेषु विख्यातं तदेव गणनायकः ॥ ७६ ॥
न तत्र सगुणं दक्ष निर्गुणं नैव वर्तते ।
गणेशे पश्य वेदेषु योगरूपस्ततः स्मृतः ॥ ७७ ॥
ब्रह्माणि खेदयुक्तानि पराधीनतया यदा ।
तपश्चेरुस्तदा तानि विचार्य ब्रह्मप्राप्तये ॥ ७८ ॥
अतितपोबलेनैव हृदि स्फूर्तिः प्रजायते ।
योगस्य मन्त्रराजं तं जानीहि ब्रह्मणां विधे ॥ ७९ ॥
ततो हर्षयुतान्येवानुभवं सस्मरुस्तदा ।
जपस्तदेव तेषां वै ब्रह्मणां भवति प्रभो ॥ ८० ॥
हृदि संस्थं ततो योगं ददृशुस्तानि सर्वदा ।
तदेव गणराजस्य रूपं तत्र प्रकीर्तितम् ॥ ८१ ॥
ततस्तल्लीनभावेन तिष्ठन्ति ब्रह्मकानि वै ।
गणेशस्य कृपा ज्ञेया तत्र सा कथ्यते बुधैः ॥ ८२ ॥
योग एतादृशं ब्रह्म यदि देहयुतं भवेत् ।
तदा तं प्रभजिष्यामो नित्यमिच्छन्ति तानि तु ॥ ८३ ॥
ब्रह्मदेहधरः सोऽपि बभूव भक्तिमोहितः ।
आययौ वरदानार्थं तेषामग्रे गजाननः ॥ ८४ ॥
ब्रह्माकाराणि चिह्नानि कथितानि पुरा मया ।
गणेशस्य स्वरूपे तु तान्यपश्यंश्च तादृशम् ॥ ८५ ॥
ततस्तानि प्रणेमुस्तं पुपूजुस्तं च नित्यशः ।
अन्ते योगमयान्येव बभूवुर्नात्र संशयः ॥ ८६ ॥
एतत्सर्वं समाख्यातं ब्रह्मणां चरितं मया ।
तपोयोगादिकाचारमन्यच्छृणु प्रजापते ॥ ८७ ॥
वक्रतुण्डो गणेशानो यदि खेदसमन्वितः ।
पराधीनतया दक्ष शान्तियोगपरोऽभवत् ॥ ८८ ॥
तदा तपोयुतः सोऽपि त्रेधा योगार्थमादरात् ।
श्राम्येत्तेन हृदिस्थं तं लोकयेदेकदन्तकम् ॥ ८९ ॥
देहेषु ब्रह्मभावेन वक्रतुण्डः स्थितोऽभवत् ।
तस्माद्देही स्थितः श्रेष्ठो भिन्नाकारः प्रकीर्तितः ॥ ९० ॥
अतोऽयं वक्रतुण्डस्तं गजाननं परात्परम् ।
एकदन्तं न जानाति तत्र भेदं वदाम्यहम् ॥ ९१ ॥
त्रिगुणाकारदेहश्च तुरीयं मस्तकं मतम् ।
वक्रतुण्डस्तयोर्योगे बिन्दुब्रह्मप्रवाचकः ॥ ९२ ॥
चतुर्विधेषु देहेषु मोहयुक्तं च यत् स्मृतम् ।
सदा भेदविहीनं तज्जीवसञ्ज्ञं प्रकथ्यते ॥ ९३ ॥
मोहहीनं सदा साक्षिरूपं परात्मधारकम् ।
एकदन्तस्तयोर्योगे सोऽहम्मात्रात्मकः स्मृतः ॥ ९४ ॥
जीवो देहस्वरूपस्थः परमात्मा शिरः स्मृतम् ।
गजाकारं न सन्देह एकदन्तस्य नित्यदा ॥ ९५ ॥
जीवात्मा परमात्मानौ दृष्ट्वा भेदविवर्जितौ ।
विस्मितः स भवेत्तत्र वक्रतुण्डो गजाननः ॥ ९६ ॥
नानाभेदसमायुक्तो वक्रतुण्डो मयोदितम् ।
भेदहीनमेकदन्तं दृष्ट्वा पप्रच्छ तं पुनः ॥ ९७ ॥
हृदिस्थं सोऽहमादौ यद्ब्रह्माकारं प्रकथ्यते ।
बिन्दोस्तदेकदन्ताख्यं न देहादियुतं कदा ॥ ९८ ॥
सेवार्थं वक्रतुण्डेन प्रार्थितं हृदि सङ्गतम् ।
ब्रह्म तदेव भो दक्ष एकदन्तो बभूव ह ॥ ९९ ॥
यथा जगदिदं सर्वं ब्रह्माकारं प्रकीर्तितम् ।
तथा ज्ञेयं वक्रतुण्डोऽपि ह्येकदन्तस्वरूपधृक् ॥ १०० ॥
सगुणं नरसञ्ज्ञस्थं निर्गुणं गजवाचकम् ।
तयोर्योगे परं ब्रह्म गजाननः प्रकथ्यते ॥ १०१ ॥
सेवार्थं प्रार्थितं सर्वैस्तदेव देहवानभूत् ।
गणेशो ब्रह्मरूपाख्यो नानाब्रह्मसु संस्थितः ॥ १०२ ॥
अतो गणेश्वरं दक्ष न जानाति गणेश्वरः ।
नानामोहसमायुक्तो भ्रान्तिभावात् सुशान्तिदम् ॥ १०३ ॥
स्वत उत्थान भावे तु देहो बिन्दुमयः स्मृतः ।
सोऽहं शिरो गजाकारं तयोर्योगे महोदरः ॥ १०४ ॥
एवं नानाविभेदैश्च नानाब्रह्मपरायणः ।
गणेश्वरः स्थितस्तेषु गजाननादिचिह्नितः ॥ १०५ ॥
संयोगे गणनाथस्य स्वत उत्थानकं वपुः ।
उत्थानं परतस्तस्य मस्तकं नात्र संशयः ॥ १०६ ॥
अयोगे बुद्धिहीनं तु मस्तकं सिद्धिवर्जितम् ।
वपुस्तयोर्न संयोगे गणेशः परिकीर्तितः ॥ १०७ ॥
पूर्णयोगे शरीरं तु मतं संयोगवाचकम् ।
अयोगवाचकं तस्य मस्तकं तु गजाकृति? ॥ १०८ ॥
अविनाशार्थसंयुक्तो गजशब्दः प्रकीर्तितः ।
अयोगान्न परं ब्रह्माविनाशाख्यं प्रकथ्यते ॥ १०९ ॥
संयोगायोगभावाख्या भ्रान्तिः सर्वत्र पठ्यते ।
निरोधचि?त्ताग दक्ष सा सिद्धिः परिकीर्तिता ॥ ११० ॥
संयोगायोगभावस्था बुद्धिर्भ्रान्तिधरा मता ।
तयोः स्वामी गणाध्यक्षः पूर्णयोगप्रवाचकः ॥ १११ ॥
अहं गणेशरूपश्चेत् संयोगायोगकौ मम ।
कुतो मायाप्रभावाख्यौ तेन शान्तिं लभेन्नरः ॥ ११२ ॥
सर्वत्राऽभेदभावेन संयोगात्मा गजाननः ।
तिष्ठत्यत्र न सन्देहो युतः संयोगमायया ॥ ११३ ॥
सर्वत्राऽभेदहीनश्च योगरूपो गजाननः ।
अयोगमायया युक्तस्तिष्ठति व्यतिरेकतः ॥ ११४ ॥
यदि सर्वात्मकं योगं वदामि गणनायकम् ।
नानाब्रह्मसुसंस्थं तमन्वयाख्यं तदा विदुः ॥ ११५ ॥
नागतं न गतं योगं कदाचिच्चेद्गजाननम् ।
नानाब्रह्मसु मुक्तं तं व्यतिरेकात्मकं जगुः ॥ ११६ ॥
[[११]]
अतश्चित्तलयेनैवाऽहं गणेशो न संशयः ।
चित्तपञ्चकमुत्सृज्य पूर्णयोगमवाप्नुयात् ॥ ११७ ॥
तत्र समाधिजं सौख्यं वदामि युक्तिभावतः ।
गणेशेऽहं तदाकारो भवामि यदि योगतः ॥ ११८ ॥
तदा संयोगजः प्रोक्तोऽनुभवो योगिनां हृदि ।
यदाऽहं गणनाथश्चेन्नागतो न गतः कदा ॥ ११९ ॥
तदा ह्ययोगशः प्रोक्तोऽनुभवः शान्तिदायकः ।
अतोऽयोगमयो योगः कथं तत्र प्रवर्तते ॥ १२० ॥
चित्तं नानाविधं दक्ष संयोगायोगधारकम् ।
योगे योगात्मकोऽहं च तदा शान्तिः प्रलभ्यते ॥ १२१ ॥
शान्तीनां शान्तिरूपा सा योगशान्तिः प्रजापते ।
तस्मात् परं विद्यते न ब्रह्म योगात् सुनिश्चितम् ॥ १२२ ॥
अतोऽयं गणनाथस्तु ब्रह्मणस्पतिरुच्यते ।
संयोगाऽयोगकादीनां ब्रह्मणां पातृभावतः ॥ १२३ ॥
एतत् सर्वं समाख्यातं रहस्यं परमाद्भुतम् ।
गजाननस्य ते दक्ष प्रकृतं शृणु साम्प्रतम् ॥ १२४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरित्रे गणेशस्वरूपवर्णनं नाम तृतीयोऽध्यायः ॥