०२ अयोगचरितकथनम्

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।

अधुना शृणु दक्ष त्वं निवृत्तिरूपधारिणः ।
चरितं गणनाथस्य ब्रह्मभूतपदप्रदम् ॥ १ ॥

स्वानन्दः सकलाधारो नानाब्रह्मसु संस्थितः ।
जगत्सु योगभावेन संयोगेन तदात्मकः ॥ २ ॥

स नानामायया युक्तो नानाभावपरायणः ।
भावाभावादिहीनत्वाच्छोभते नित्यमञ्जसा ॥ ३ ॥

अनन्तकल्पकाले तु गते सन्तोषमादधे ।
निवृत्तिमिच्छति प्राज्ञो मायाहीनत्वकारणात् ॥ ४ ॥

जगद्भिर्ब्रह्मभिः सार्धं गणेशमभजत्ततः ।
संयोगभावनाशार्थं सर्वतो भक्तिसंयुतः ॥ ५ ॥

एकाक्षरविधानेन पूजयामास तं विभुम् ।
मन्त्रं जजाप सर्वेशो ध्यात्वा हृदि गजाननम् ॥ ६ ॥

दक्ष उवाच ।

स्वसंवेद्यात्मकः प्रोक्तो मन्त्र एकाक्षरो महान् ।
अयोगगणनाथस्य प्रीतिदः स कथं वद ॥ ७ ॥

मुद्गल उवाच ।

शब्दशब्दार्थसंयुक्तो मन्त्रो गणपतेः स्मृतः ।
स्वसंवेद्यात्मकः प्राज्ञैः सर्वशास्त्रेषु सम्मतः ॥ ८ ॥

नामैकदेशमात्रत्वात् स एवायोगवाचकः ।
न तत्र शब्दशब्दार्थौ तयोर्योगादिकं कदा ॥ ९ ॥

गते वर्षशते तत्र प्रसन्नो गणनायकः ।
आययौ तं वरान् दातुं निजभक्तसुखप्रदः ॥ १० ॥

दृष्ट्वा गजाननं दक्ष प्रहृष्टः सर्वसंयुतः ।
स्वानन्दः प्रणनामाथ पुपूजे भक्तिसंयुतः ॥ ११ ॥

दक्ष उवाच ।

सगुणो देह एतस्य निर्गुणं मस्तकं परम् ।
तयोरभेदभावेऽयं गजाननो निजात्मकः ॥ १२ ॥

अयोगे सगुणं नैव निर्गुणं नैव वर्तते ।
तयोः संयोगरूपं यन्नैव योगीन्द्रसत्तम ॥ १३ ॥

कथं गजाननश्चायमयोगे वाचकोऽभवत् ।
छिन्धि मे संशयं पूर्णं वचसा योगभाविना ॥ १४ ॥

मुद्गल उवाच ।

सिद्धिर्देहमयी माया बभूवे तस्य भो विधे ।
नानाभ्रमं परित्यज्य लीना जाता शरीरके ॥ १५ ॥

नानाज्ञानप्रभावं तु त्यक्त्वा बुद्धिः शिरोऽभवत् ।
भ्रान्तिधारकभावं सा तल्लीना सम्बभूव ह ॥ १६ ॥

तयोर्योगे स्वसंवेद्यं ब्रह्म संयोगधारकम् ।
गजाननाकृतिस्थं तद् बभूवे लीनभावतः ॥ १७ ॥

सिद्धिबुद्धिविहीनोऽयमयोगे वाचकोऽभवत् ।
गणेशो गजवक्त्रादिचिह्नयुक्तो न संशयः ॥ १८ ॥

शब्दशब्दार्थसंयोगैस्त्रिभिर्हीनो गजाननः ।
अयोगे शोभते दक्ष मायाभ्यां वर्जितः सदा ॥ १९ ॥

अथो शृणु चरित्रं त्वं प्रकृतं शान्तिदायकम् ।
स्वसंवेद्यः प्रतुष्टाव गणेशं हर्षसंयुतः ॥ २० ॥

ससर्वस्वानन्द उवाच ।

अजं पुराणं परमव्ययं तं निवृत्तिमात्रं ह्यसमाधिसंस्थम् ।
अयोगरूपं गणनाथमाद्यं नमामि निर्मायिकमप्रमेयम् ॥ २१ ॥

न जारजं स्वेदजमण्डजं न न चोद्भिदं स्थावरजङ्गमं न ।
अनादिमध्यान्तममोघरूपं नमामि निर्मायिकमप्रमेयम् ॥ २२ ॥

न भूस्वरूपं न जलं प्रकाशं न वायुरूपं न खमेव ढुण्ढिम् ।
न राजसं सत्त्वतमोयुतं न नमामि निर्मायिकमप्रमेयम् ॥ २३ ॥

न जागृतं स्वप्नगतं न देवं सौषुप्तकं नैव तुरीयसंस्थम् ।
न बिन्दुमात्रं न च सोऽहमेव नमामि निर्मायिकमप्रमेयम् ॥ २४ ॥

न बोधगं नैव विबोधरूपं न मोहयुक्तं न च मोहहीनम् ।
न निर्गुणं नो सगुणं तथा तं नमामि निर्मायिकमप्रमेयम् ॥ २५ ॥

न कर्मरूपं न च ज्ञानरूपं समं न चाधीनतमं सदा न ।
न स्वात्मगं सर्वविकारहीनं नमामि निर्मायिकमप्रमेयम् ॥ २६ ॥

असत्स्वरूपं न च सत्स्वरूपं समानरूपं न च नेतिगं तम् ।
निजात्मरूपं विविधेषु नैव नमामि निर्मायिकमप्रमेयम् ॥ २७ ॥

[[५]]

अनन्तरूपं न तथैकरूपं समं न तुर्यं न च पञ्चमं तम् ।
सदा गणेशाकृतिरूपधारं नमामि निर्मायिकमप्रमेयम् ॥ २८ ॥

न चागतं नैव गतं गणेशमयोगरूपं प्रवदन्ति वेदाः ।
सदा निवृत्तिमयमासमन्तान्नमामि निर्मायिकमप्रमेयम् ॥ २९ ॥

वचोभिरारात् कथितुं कदाचिदयोगभावान् मनसो न शक्यम् ।
कदा तमप्राप्य वदामि देवं नमामि निर्मायिकमप्रमेयम् ॥ ३० ॥

न सिद्धियुक्तं न च बुद्धियुक्तं न मायिकं ब्रह्ममयं परेशम् ।
अनन्तपारं गजवक्त्रधारं नमामि निर्मायिकमप्रमेयम् ॥ ३१ ॥

त्रिनेत्रधारं गजवक्त्रयुक्तं चतुर्भुजं चैकरदं महान्तम् ।
महोदरं वाहनहीनगं तं नमामि निर्मायिकमप्रमेयम् ॥ ३२ ॥

न योगनिष्ठं न विहारयुक्तं निजात्मनाम्नि नगरे न संस्थम् ।
निजे समुद्रे न विहारकारं नमामि निर्मायिकमप्रमेयम् ॥ ३३ ॥

न भक्तभक्तिप्रियमेव देवं तथापि योगेन निवृत्तिदं तम् ।
अपारमायामयपाशहारं नमामि निर्मायिकमप्रमेयम् ॥ ३४ ॥

अहं विकारेण विमोहितोऽतो भ्रमन् गणेशाधिपते महात्मन् ।
जगत्सु नानाविधब्रह्मसु प्रभो नमामि निर्मायिकमप्रमेयम् ॥ ३५ ॥

समाधिरूपोऽहमचिन्त्यभावः सर्वात्मकः सर्वविवर्जितोऽहम् ।
भ्रमामि मां रक्ष निवृत्तिदातर्नमामि निर्मायिकमप्रमेयम् ॥ ३६ ॥

सुसिद्धिबुद्धिप्रद मोहयुक्तो विभज्य नानाविधमात्मरूपम् ।
चतुः पदार्थेषु चरामि भ्रान्त्या नमामि निर्मायिकमप्रमेयम् ॥ ३७ ॥

सुखेलयुक्तोऽहमथो सुखेनेतरेण योगेन तदात्मना वै ।
न शान्तिजं सौख्यमणु ह्यविन्दं नमामि निर्मायिकमप्रमेयम् ॥ ३८ ॥

अनन्तभावेन विमोहितं मां रक्षस्व ते पादप्रियं गणेश ।
निवृत्तिकां देहि परार्थभूतां नमामि निर्मायिकमप्रमेयम् ॥ ३९ ॥

नमो गणेशाय निवृत्तिधारिणे नमः परेशाय सुखाब्धिवासिने ।
नमश्च हेरम्ब महोदराय ते नमो नमो ब्रह्मपते सुशान्तये ॥ ४० ॥

अयोगरूपं गणनायकं तं प्रवेशहीनात् कथमेव ढुण्ढे ।
दयापरं स्तौम्यधुना च तारय नमो नमो विघ्नपते नमस्ते ॥ ४१ ॥

मुद्गल उवाच ।

एवं स्तुत्वा गणेशानं स्वानन्दः प्रणनाम तम् ।
भक्त्या हर्षेण संयुक्तस्तमुवाच गजाननः ॥ ४२ ॥

श्रीगणेश उवाच ।

वरं वृणु महाभाग सर्वं दास्यामि चेप्सितम् ।
मायामायिकभेदैस्त्वं दुःखितोऽसि न संशयः ॥ ४३ ॥

त्वया कृतमिदं स्तोत्रं सर्वशान्तिप्रदं भवेत् ।
न मायासम्भवं दुःखं प्रलभेत् पाठतो नरः ॥ ४४ ॥

यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ।
असाध्यं साधयेन् मर्त्यः श्रवणेन निजप्रदम् ॥ ४५ ॥

एवं श्रुत्वा गणेशस्य वचनं स्वस्वरूपकम् ।
जगाद तं प्रणम्यादौ कृत्वा करपुटं विधे ॥ ४६ ॥

ससर्वस्वानन्द उवाच ।

यदि तुष्टोऽसि विघ्नेश तदा देहि निवृत्तिजम् ।
सुखं नान्यं वरं भ्रान्तिं मायामेतां निवारय ॥ ४७ ॥

तथेति तमुवाचैव गणेशोऽन्तर्दधे ततः ।
स्वानन्दः खिन्नभावेन स्वस्थाने संस्थितोऽभवत् ॥ ४८ ॥

[[६]]

सस्मारायोगनाथं तं ततश्चित्रं बभूव ह ।
विश्वानि ब्रह्ममुख्यानि स्वानन्दे लयमाययुः ॥ ४९ ॥

ततः स्वयं निजानन्दो नष्टस्तत्र बभूव ह ।
मायाहीनप्रभावेणायोगस्थः शुशुभे मुदा ॥ ५० ॥

संयोगमायया हीनो न ददर्श स किञ्चन ।
स्वात्मानं वाऽपरं मुख्यं अयोगं गणनायकम् ॥ ५१ ॥

सर्वबन्धविनिर्मुक्तं बभूव स्वस्वरूपकम् ।
एतत् सर्वं समाख्यातमयोगस्य चरित्रकम् ॥ ५२ ॥

अयोगे दक्ष नैवास्ति त्वमहं ब्रह्म शाश्वतम् ।
न गणेशः स्वसंवेद्यं तेन निर्वृत्तिमाप्नुयात् ॥ ५३ ॥

यः पठेच्छ्रुणुयाद्वा यो ह्ययोगस्य चरित्रकम् ।
स भुक्त्वा सकलान् भोगानन्ते निर्वृत्तिमाप्नुयात् ॥ ५४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते अयोगचरितकथनं नाम द्वितीयोऽध्यायः ॥