०१ स्वसंवेद्यस्वरूपवर्णनम्

॥ श्रीगणेशाय नमः ॥

[[१]]

श्रीगणेशशारदागुरुभ्यो नमः ।
शौनक उवाच ।

धूम्रवर्णावतारस्य श्रुत्वा चरितमुत्तमम् ।
नानाख्यानसमायुक्तं न तृप्तोऽहं महामते ॥ १ ॥

अधुना वद दक्षस्य संवादं मुद्गलस्य च ।
पुनः किं पृष्टवान् दक्षो मुद्गलाय महर्षये ॥ २ ॥

सूत उवाच ।

श्रुत्वा माहात्म्यमुख्यं स धूम्रवर्णात्मकं परम् ।
हृष्टरोमा प्रजानाथः पुनः पप्रच्छ तं मुनिम् ॥ ३ ॥

दक्ष उवाच ।

धन्योऽहं सर्वभावैश्च त्वत्तः श्रुत्वा महाद्भुतम् ।
चरितं धूम्रवर्णस्य सर्वसिद्धिप्रदायकम् ॥ ४ ॥

अधुना वद विप्रेश योगं पूर्णपदप्रदम् ।
अष्टौ विनायकाः प्रोक्तास्तेषां योगे स्वरूपकम् ॥ ५ ॥

स्वानन्दः कीदृशो योगोऽयोगस्तथैव कीदृशः ।
सुशान्तिदः पूर्णयोगस्तेषां रूपं सुविस्तरात् ॥ ६ ॥

सूत उवाच ।

एवं पृष्टो महायोगी दक्षेण हर्षसंयुतः ।
तं जगाद शृणुष्व त्वं द्विजैः शौनक सौख्यदम् ॥ ७ ॥

मुद्गल उवाच ।

स्वानन्दात् स्वेच्छया दक्ष ब्रह्माणि निःसृतानि तु ।
असत् सत् समनेतीति चत्वारि मायया प्रभोः ॥ ८ ॥

एकैकाश्रितभावेन सृष्टं तैः सौख्यरूपकम् ।
ततो बोधस्ततः सोऽहं ततो बिन्दुर्महामते ॥ ९ ॥

ततश्चतुर्विधं विश्वं स्थूलं सूक्ष्मं समात्मकम् ।
नाद एतानि ब्रह्माणि मीलितानि परस्परम् ॥ १० ॥

निजसत्ताविहीनानि जातानि दैवयोगतः ।
स्वस्वव्यापारजं भोगं लेभिरे न कदाचन ॥ ११ ॥

ततस्तैश्च तपस्तप्तं घोरं चित्तैकभावतः ।
यस्मै कस्मै नमश्चोक्त्वा मूलभूताय सर्वपैः ॥ १२ ॥

दिव्यवर्षसहस्रेण प्रसन्नो गणपोऽभवत् ।
हृदिस्थं दर्शयामास मन्त्रमेकाक्षरं स्वकम् ॥ १३ ॥

तं दृष्ट्वा हर्षयुक्तानि जेपुर्मत्रं ततः परम् ।
गते वर्षशते पूर्णे दर्शयामास स्वं वपुः ॥ १४ ॥

नरकुञ्जररूपं तु दृष्ट्वा विस्मितमानसैः ।
सद्यस्तत्कृपया ज्ञानं प्राप्तं तद्रूपबोधकम् ॥ १५ ॥

ज्ञात्वा स्वानन्दनाथं तं ब्रह्माणि हर्षतः परम् ।
तमेव हृदये ध्यात्वा जेपुर्मन्त्रं सुसिद्धये ॥ १६ ॥

वर्षेणैकेन विघ्नेशः सुप्रसन्नो बभूव ह ।
आययौ वरदानार्थं पुरस्तेषां प्रतापवान् ॥ १७ ॥

तं दृष्ट्वा तानि ब्रह्माणि तुष्टुवुः पूज्य विघ्नपम् ।
बद्ध्वा करपुटं दक्ष स्वस्वसामर्थ्यसिद्धये ॥ १८ ॥

ब्रह्माण्यूचुः ।
नमस्ते परेशाय विघ्नाधिपाय परेषां सदा सौख्यदात्रे हिताय ।
स्वसंवेद्यरूपाय चानन्ददाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ १९ ॥

अनाथाय नाथाय सर्वात्मनां ते सदा मोहहीनाय नेतिधराय ।
शिवायाथ त्रैविध्यभावप्रदात्रे निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २० ॥

समायाथ मायास्वरूपाय द्वन्द्वप्रकाशाय सर्वात्मकायैव विष्णो ।
महानन्दरूपाय सर्वातिगाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २१ ॥

सदा सत्यरूपाय सर्वात्मने ते विकारैर्विहीनाय सूर्याय भूम्ने ।
अनन्ताय भेदादिभिर्वर्जिताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २२ ॥

अपारस्वरूपाय नानामयाय विहारेषु सक्ताय पूर्णात्मकाय ।
महाशक्तये शक्तिरूपाय मोहिन् निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २३ ॥

[[२]]

निरोधस्वरूपां समास्थाय बुद्धिं निजानन्दभ्रान्तिप्रदां सिद्धिरूपाम् ।
प्रविश्यैव तुर्येषु बिम्बात्मकाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २४ ॥

ततः साङ्ख्यरूपं विनिर्माय तुर्यैस्तदाकाररूपाय वै बोधकाय ।
सदा स्वात्मनिष्ठाय सङ्कल्पहन्त्रे निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २५ ॥

ततो बोधरूपं विनिर्माय बोधस्वरूपाय मायामयाकारधाम्ने ।
सदा खेलकायाथ नानाप्रचारिन्निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २६ ॥

ततो देहिरूपाय निर्माय तं वै सदैकप्रबोधाय भ्रान्तेर्धराय ।
स्वतो भ्रान्तिहीनाय सोऽहम्प्रदाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २७ ॥

ततो बिन्दुमात्राय निर्माय बिन्दुं चतुर्धा चतुष्पादरूपेण खेलिन् ।
अनन्तस्वरूपाय देहप्रचार निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २८ ॥

ततो नादरूपं विनिर्माय नादस्वरूपाय तत्स्थाय चैतन्यदाय ।
अजायाथ त्रैविध्यदेहस्थिताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २९ ॥

समास्थाय बाह्यान्तरे संस्थिताय विनिर्माय सौषुप्तरूपं परात्मन् ।
तदाकाररूपेण चानन्ददाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३० ॥

सदा स्वप्नरूपाय सर्वान्तरस्थाय सूक्ष्माय सत्त्वात्मने खेलकाय ।
विनिर्माय सूक्ष्मं त्रिधा संस्थिताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३१ ॥

नमस्ते प्रभो स्थूलरूपाय तत्र विनिर्माय जागृत्तदाकाररूप ।
सदा ह्यन्नभूताय बाह्यात्मकाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३२ ॥

गणांस्ते गणेशात्मरूपेण सृष्टांस्तवांशांश्च तान् रक्ष ब्रह्मेश दासान् ।
सदा पादपद्मे रतांस्ते कुरुष्व निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३३ ॥

गजाकारतुण्डाय लम्बोदराय चतुर्बाहवे शूर्पकर्णाय तुभ्यम् ।
त्रिनेत्राय पाशाङ्कुशाद्यैर्युताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३४ ॥

नराकाररूपाय कण्ठादधस्तात्तथा ह्येकन्दताय रक्ताम्बराय ।
महाऽऽखुध्वजायाऽऽखुवाहाय नित्यं निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३५ ॥

अनन्तप्रसूतिश्च ते वामभागे महासिद्धिरूपा तथा दक्षिणाङ्गे ।
धृते पूर्णमाये परे देवदेव निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३६ ॥

स्वसंवेद्यनाम्नि पुरे संस्थिताय प्रमोदादिभिः सेव्यमानाय तुभ्यम् ।
तथेक्षोः समुद्रे सुलीलाकराय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३७ ॥

समाधिस्वरूपं गणेशं स्तुवीमः कथं ब्रह्मणां ब्रह्मभूतं महात्मन् ।
तथापि स्वबुद्ध्या प्रमाणैः स्तुतोऽसि निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३८ ॥

वयं धन्यरूपा गणाधीश ते वै स्तवेनाऽथ पूजादिना दीनबन्धो ।
नमस्ते नमस्ते प्रसीदाऽऽशु भूमन् निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३९ ॥

मुद्गल उवाच ।

एवं स्तुत्वा गणाधीशं प्रणेमुस्तं प्रजापते ।
ब्रह्माणि तान्यथोवाच हर्षितः स गजाननः ॥ ४० ॥

श्रीगणेश उवाच ।

वरान् ब्रूत हृदिस्थान् वै ब्रह्माणि तुष्टिमागतः ।
दास्याम्यनेन स्तोत्रेण तपसा दुर्लभानपि ॥ ४१ ॥

भवत्कृतमिदं स्तोत्रं मम सन्तोषकारकम् ।
भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ ४२ ॥

[[२]]

यः पठेत् पाठयेद्वाऽपि श्रावयेन्मानवोत्तमः ।
स भुक्त्वा ह्यखिलान् भोगानन्ते स्वानन्दगो भवेत् ॥ ४३ ॥

विजयप्रदमेतद्धि पुत्रपौत्रप्रदं भवेत् ।
धनधान्यपशूनां तु दायकं प्रभविष्यति ॥ ४४ ॥

अङ्गहीनजनानां तु स्वङ्गदं रोगनाशनम् ।
अलक्ष्मीसङ्कटस्यैव दहनं पाठकारिणाम् ॥ ४५ ॥

विद्या ज्ञानादिकं सर्वं लभतेऽनेन निश्चितम् ।
भुक्तिं मुक्तिं ब्रह्मभूयं पठनात् श्रवणात् किल ॥ ४६ ॥

षट्कर्मसाधने सिद्धं परकृत्यविनाशनम् ।
राजबन्धहरं चैव भविष्यति सुसेविनाम् ॥ ४७ ॥

एकविंशतिवारं चैकविंशति दिनानि यः ।
पठते स लभेत् सर्वमीप्सितं नात्र संशयः ॥ ४८ ॥

एवं गणपतेर्वाक्यं श्रुत्वा ब्रह्माणि विघ्नपम् ।
प्रणम्य हर्षयुक्तानि जगुस्तं च प्रजापते ॥ ४९ ॥

ब्रह्माण्यूचुः ।
वरदोऽसि गणाधीश तदा ते भक्तिमुत्तमाम् ।
देहि यया महामोहो नश्यत्यत्र न संशयः ॥ ५० ॥

निजव्यापारजं देहि बोधं कथय सर्वप ।
कार्यं तच्च करिष्यामस्त्वदाज्ञावशगानि भोः ॥ ५१ ॥

सदाऽस्मन्निकटे नाथ तिष्ठ स्वभक्तकारणात् ।
निर्विघ्नं कुरु सर्वत्र गजानन नमोऽस्तु ते ॥ ५२ ॥

त्वत्समानि कुरुष्व त्वमस्मान् पादाश्रितानि ते ।
भजतां सर्वदातॄणि त्वत्प्रसादान्नमोऽस्तु ते ॥ ५३ ॥

यद्यदिच्छामहे नाथ तत्तत्तु सफलं भवेत् ।
सत्यसङ्कल्पजं सौख्यं देहि नो गणनायक ॥ ५४ ॥

एवं तेषां वचः श्रुत्वा भक्तिभावेन तोषितः ।
तथेति तान्यथोक्त्वासावन्तर्धानं चकार ह ॥ ५५ ॥

अष्टौ विनायकाः प्रोक्तास्तद्रूपेण गजाननः ।
तेषां सामीप्यगो भूत्वाऽतिष्ठत् सर्वार्थसिद्धये ॥ ५६ ॥

एतत् सर्वं समाख्यातं स्वसंवेद्यस्य चेष्टितम् ।
श्रवणात् पठनान्नॄणां सर्वसिद्धिप्रदायकम् ॥ ५७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते स्वसंवेद्यस्वरूपवर्णनं नाम प्रथमोऽध्यायः ॥