॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
योगिध्येयं गणेशस्य रूपं सर्वत्र सम्मतम् ।
ध्यातुं त्वयोगिभिः शक्यं प्रत्यक्षं नाऽत्र संशयः ॥ १ ॥
कथं वेदादिषु प्रोक्तं योगिध्येयमनुत्तमम् ।
वद तत् कारणं विप्र संशयस्यापनुत्तये ॥ २ ॥
मुद्गल उवाच ।
अयोगिनो गणेशानं पञ्चभूतमयं प्रभुम् ।
जानन्ति सर्वतुल्यं तं देहधारिणमञ्जसा ॥ ३ ॥
न तेषां हृदये दक्ष रूपं योगमयं परम् ।
शोभते गणराजस्य योगाकारमपि स्फुटम् ॥ ४ ॥
योगिनस्तं विशेषेण जानन्ति योगरूपिणम् ।
तत्र भेदं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः ॥ ५ ॥
समष्टिव्यष्टिरूपाख्यं ब्रह्म वेदे प्रकीर्तितम् ।
कुम्भस्थले गणेशस्य पश्यन्ति तन्मये च ते ॥ ६ ॥
त्रिविधं विविधं दक्ष त्रिनेत्रे सङ्गतं महः ।
पश्यन्ति योगिनस्तस्य गणेशस्य महात्मनः ॥ ७ ॥
महाकारणरूपा तु शुण्डा तस्य प्रकीर्तिता ।
बिन्दुः कण्ठस्तथा दन्तः सोऽहं मात्रात्मकः स्मृतः ॥ ८ ॥
बोधरूपं गणेशस्य जठरं साङ्ख्यवाचकौ ।
कर्णौ चतुर्विधं ब्रह्म चतुर्भुजमयं स्मृतम् ॥ ९ ॥
मायामोहयुतं ब्रह्म मोहहीनं सुसाक्षिकम् ।
द्वौ पादौ गणराजस्य पश्यन्ति योगिनः किल ॥ १० ॥
संहाराख्यं च यद्ब्रह्म परशुस्तस्य शोभनः ।
नियन्त्राख्यं तथा दक्ष अङ्कुशश्च महात्मनः ॥ ११ ॥
कमलं सृष्टिरूपाख्यं पाशं मोहमयं परम् ।
बन्धमोक्षात्मकं हन्त दुष्टनाशकरं मुदा ॥ १२ ॥
अभयं भक्तजातिभ्यो रक्षकं वाञ्छितप्रदम् ।
वरं सकामकानां तु कामदं तं वदन्ति ते ॥ १३ ॥
चिन्तामणिं मणिं तत्र भुक्तिमुक्तिप्रदं परम् ।
अक्षीणतेजसं चन्द्रममृतं ब्रह्म निश्चितम् ॥ १४ ॥
स्वानन्दाख्यं परं ब्रह्म तदेव नगरं प्रभोः ।
इक्षुसागररूपं च रसाणां ब्रह्म कथ्यते ॥ १५ ॥
पञ्चचित्तमयी बुद्धिस्तत्रैश्वर्यभ्रमात्मिका ।
सिद्धि?र्माये वदन्त्येव योगिनो योगभावतः ॥ १६ ॥
मूषकं व्यापकाख्यं च परं पश्यन्ति वाहनम् ।
धर्माधर्मौ गणेशस्योरःपृष्ठे पार्श्वगे किल ॥ १७ ॥
शुभाशुभेऽथ रोमाणि ओषध्यश्च प्रकीर्तिताः ।
कल्पा उन्मेषणं तस्य निमेषणं प्रजापते ॥ १८ ॥
लक्षलाभौ सुतौ तस्य सर्वकार्यप्रवर्तकौ ।
यादृशं क्रियते लक्ष्यं तादृशं फलमश्नुते ॥ १९ ॥
इत्यादि विविधं तस्य ब्रह्माकारं न संशयः ।
सर्वं तेन गणाध्यक्षो ब्रह्मणस्पतिरुच्यते ॥ २० ॥
योगिनः शुकमुख्यास्तं ध्यायन्ते देहधारिणम् ।
ब्रह्मरूपं सुसाकारं निराकारमयं विभुम् ॥ २१ ॥
सगुणं कण्ठपर्यन्तं निर्गुणं गजवाचकम् ।
मस्तकं च तयोर्योगे योगं जानन्ति विघ्नपम् ॥ २२ ॥
योगिध्येयमतो वेदादिषु सङ्कथितं विधे ।
रूपं गणपतेः प्रोक्तं योगाकारं स्वभावतः ॥ २३ ॥
दक्ष उवाच ।
मूषको वाहनं तस्य कथं बभूव विप्रप ।
तन्मे ब्रूहि विशेषेण सर्वज्ञोऽसि कृपानिधे ॥ २४ ॥
मुद्गल उवाच ।
मायया व्यापकं ब्रह्मा मोह्य नानाजनान् परान् ।
भुङ्क्ते भोगांस्तत्कृतांस्तच्छुभाशुभविवर्जितम् ॥ २५ ॥
[[५०]]
मुषस्तेये समाख्यातो धातुः स एव मूषकः ।
व्यापकश्चौरवत् सर्वान् भुङ्क्ते मोह्य हृदि स्थितः ॥ २६ ॥
तपसाऽऽराधितस्तेन व्यापकेन गजाननः ।
प्रसन्नो वाहनं चक्रे तत्प्रीतिवर्धनार्थतः ॥ २७ ॥
एतत्सर्वं समाख्यातं धूम्रवर्णचरित्रकम् ।
नानाख्यानसमायुक्तं सर्वसिद्धिप्रदायकम् ॥ २८ ॥
य इदं श्रावयेद्दक्ष शृणुयाद्वा पठेन्नरः ।
स सर्वसुखसंयुक्तोऽन्ते ब्रह्मणि गतो भवेत् ॥ २९ ॥
नानेन सदृशं किञ्चित् सर्वसिद्धिकरं परम् ।
यत्र साक्षाद्गणेशानः कीर्त्यते धूम्रवर्णकः ॥ ३० ॥
यं यमिच्छति तं तं स लभेदनेन निश्चितम् ।
श्रवणेन न सन्देहो मानवः शुभमश्नुते ॥ ३१ ॥
लेखयित्वा गृहे यस्तु पूजयेत् पुस्तकं नरः ।
न तत्र राक्षसादिभ्यो भयं भवति कर्हिचित् ॥ ३२ ॥
भोगान् भुक्त्वा स विविधान् पुत्रपौत्रसुहृद् वृतः ।
अन्ते स्वानन्दगो भूत्वा गणेशे तन्मयो भवेत् ॥ ३३ ॥
धमार्थकाममोक्षाणां दायकः श्रवणेन च ।
पठनेन न सन्देहः खण्डोऽयं धूम्रवर्णकः ॥ ३४ ॥
तीर्थानि विविधान्येव तपः कुर्यान्नरोत्तमः ।
विविधं तत् फलं सद्य अस्य श्रवणतो लभेत् ॥ ३५ ॥
इष्टापूर्तादिकं यस्तु कुर्यात् यात्रादिकार्चनम् ।
विविधं स लभेत् पुण्यमस्य श्रवणतो नरः ॥ ३६ ॥
बहुनाऽत्र किमुक्तेन नानेन सदृशं परम् ।
किञ्चिन्नानाविधेष्वेव साधनेषु प्रजापते ॥ ३७ ॥
यत्र योगपतिः साक्षाद्वर्ण्यते धूम्रवर्णकः ।
तेन किं तुल्यतां यान्ति विचारय महामते ॥ ३८ ॥
सर्वसिद्धिकरं पूर्णं कथितं ते चरित्रकम् ।
धूम्रवर्णस्य सङ्क्षेपाद्यथामति प्रमाणतः ॥ ३९ ॥
विस्तरेण शिवाद्याश्च वेदा योगिन एव च ।
न समर्था भवन्तीह तत्र कोऽहं प्रजापते ॥ ४० ॥
अधुना त्वं गणेशानं भज यत्नपरायणः ।
अथवा श्रोतुमिच्छा ते वदतां कथयाम्यहम् ॥ ४१ ॥
सूत उवाच ।
एवमुक्त्वा महायोगी तूष्णीं मुद्गल आदधे ।
दक्षो हृष्टमनास्तं तु प्रणनाम कृताञ्जलिः ॥ ४२ ॥
धूम्रवर्णचरित्रं तु कथितं ते महामुने ।
यथा दक्षाय तेनैव कथितं तादृशं परम् ॥ ४३ ॥
सर्वसिद्धिकरं चित्रं नानाख्यानसमन्वितम् ।
श्रुतं त्वया महाभाग किं भूयः श्रोतुमिच्छसि ॥ ४४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते फलश्रुतिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥
॥ इति श्रीमुद्गलपुराणे अष्टमः खण्डः समाप्तः ॥
॥ श्रीगजाननार्पणमस्तु ॥
॥ इति श्रीमुद्गलपुराणे अष्टमः खण्डः समाप्तः ॥