॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
प्रकृतं वद सूत त्वं संवादं शङ्करस्य च ।
सनकादेर्विशेषेण सर्वसिद्धिकरं परम् ॥ १ ॥
नानावतारसंयुक्तं धूम्रवर्णचरित्रकम् ।
श्रुत्वा सनकमुख्यास्तं किमूचुर्योगसिद्धये ॥ २ ॥
सूत उवाच ।
धूम्रवर्णावतारस्य श्रुत्वाऽहं वधसंश्रितम् ।
चरितं हृष्टरोमाणः पप्रच्छुः शङ्करं द्विजाः ॥ ३ ॥
सनकाद्या ऊचुः ।
नानावतारसंयुक्तं श्रुत्वा माहात्म्यमुत्तमम् ।
धूम्रवर्णावतारस्य सन्तुष्टाः स्म सदाशिव ॥ ४ ॥
अधुना शाधि सर्वेश योगप्राप्त्यर्थमुत्तमम् ।
विधिं सुखकरं शीघ्रं सुगमं योगिनायक ॥ ५ ॥
श्रीशिव उवाच ।
गणेशहृदयं वक्ष्ये सर्वसिद्धिप्रदायकम् ।
साधकाय महाभागाः शीघ्रं वै शान्तिदं परम् ॥ ६ ॥
पुराऽहं गणनाथस्य ध्यानयुक्तोऽभवं द्विजाः ।
तत्र मां सरितां श्रेष्ठा जगाद वाक्यमुत्तमम् ॥ ७ ॥
गङ्गोवाच ।
वद शङ्कर कस्य त्वं ध्यानं करोषि नित्यदा ।
इच्छामि तमहं ज्ञातुं त्वत्तः किं परमं मतम् ॥ ८ ॥
श्रीशिव उवाच ।
गणेशं देवदेवेशं ब्रह्मब्रह्मेशमादरात् ।
ध्यायामि सर्वभावज्ञे कुलदेवं सनातनम् ॥ ९ ॥
तस्य यद् हृदयं देवि गुप्तं सर्वप्रदायकम् ।
कथयिष्यामि सर्वज्ञे येन ज्ञास्यसि तं विभुम् ॥ १० ॥
पुराऽज्ञानावृतोऽहं तु तपसि संस्थितोऽभवम् ।
तत्र तपः प्रभावेण हृद्यपश्यं गजाननम् ॥ ११ ॥
तस्य दर्शनमात्रेण स्फूर्तिः प्राप्ता मया प्रिये ।
तथा गणेश्वरं ज्ञात्वा योगिवन्द्योऽभवं मुदा ॥ १२ ॥
तत्तेऽहं शृणु वक्ष्यामि गणेशहृदयं परम् ।
येन गाणेशयोगे त्वं निपुणा सम्भविष्यसि ॥ १३ ॥
ॐ अस्य गणेशहृदयस्तोत्रमन्त्रस्य।शम्भुर्ऋषिः ।
नाना छन्दांसि।गणेशो देवता ।
गमिति बीजम् ।
ज्ञानात्मिका शक्तिः ।
नादः कीलकम् ।
श्रीगणपतिप्रीत्यर्थमभीष्टसिद्ध्यर्थें जपे विनियोगः ।
ॐ गमित्येकाक्षरात्मकबीजैः करन्यासाः षडङ्गन्यासाश्च ।
अथ ध्यानम् ।
सिन्दूराभं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तं
पाशं चैवाङ्कुशं वै रदनमभयकं पाणिभिः सन्दधानम् ।
सिद्ध्या बुद्ध्या प्रशिष्टं गजवदनमहं चिन्तये ह्येकदन्तं
नानाभूषाभिरामं निजजनसुखदं नाभिशेषं गणेशम् ॥ १४ ॥
एवं ध्यात्वा मानसोपचारैः पूजयेत् ।
किञ्चिन्मूलमन्त्रं जप्त्वा हृदयं पठेत् ।
ॐ गणेशमेकदन्तं च चिन्तामणिं विनायकम् ।
ढुण्ढिराजं मयूरेशं लम्बोदरं गजाननम् ॥ १५ ॥
हेरम्बं वक्रतुण्डं च ज्येष्ठराजं निजस्थितम् ।
आशापूरं तु वरदं विकटं धरणीधरम् ॥ १६ ॥
सिद्धिबुद्धिपतिं वन्दे ब्रह्मणस्पतिसञ्ज्ञितम् ।
माङ्गल्येशं सर्वपूज्यं विघ्नानां नायकं परम् ॥ १७ ॥
एकविंशति नामानि गणेशस्य महात्मनः ।
अर्थेन संयुतान्येव हृदयं परिकीर्तितम् ॥ १८ ॥
गङ्गोवाच ।
एकविंशतिनाम्नां त्वमर्थं ब्रूहि सदाशिव ।
गणेशहृदयं येन जानामि करुणानिधे ॥ १९ ॥
श्रीशिव उवाच ।
ग काररूपं विविधं चराचरं ण कारगं ब्रह्म तथा परात्परम् ।
तयोः स्थितास्तस्य गणाः प्रकीर्तिता गणेशमेकं प्रणमाम्यहं परम् ॥ २० ॥
[[११३]]
मायास्वरूपं तु सदैकवाचकं दन्तः परो मायिकरूपधारकः ।
योगे तयोरेकरदं सुमानिनि धीस्थं नतोऽहं जनभक्तिलालसम् ॥ २१ ॥
चित्तप्रकाशं विविधेषु संस्थं लिप्तं न लेपादि विवर्जितं तम् ।
भोगैर्विहीनं त्वथ भोगकारं चिन्तामणिं तं प्रणमामि नित्यम् ॥ २२ ॥
विनायकं नायकवर्जितं प्रिये विशेषतो नायकमीश्वरात्मनाम् ।
निरङ्कुशं तं प्रणमामि सर्वदं सदात्मकं भावयुतेन चेतसा ॥ २३ ॥
वेदाः पुराणानि महेश्वरादिकाः शास्त्राणि योगेश्वर देवमानवाः ।
नागासुरा ब्रह्मगणाश्च जन्तवो ढुण्ढन्ति वन्दे त्वथ ढुण्ढिराजकम् ॥ २४ ॥
मायार्थवाच्यो हि मयूरभावो नाना भ्रमार्थं प्रकरोति तेन ।
तस्मान् मयूरेशमयो वदन्ति नमामि मायापतिमासमन्तात् ॥ २५ ॥
यस्योदराद्विश्वमिदं प्रसूतं ब्रह्माणि तद्वज्जठरे स्थितानि ।
अनन्तरूपं जठरं हि यस्य लम्बोदरं तं प्रणतोऽस्मि नित्यम् ॥ २६ ॥
जगद्गलाधो गणनायकस्य गजात्मकं ब्रह्मशिरः परेशम् ।
तयोश्च योगे प्रवदन्ति सर्वे गजाननं तं प्रणमामि नित्यम् ॥ २७ ॥
दीनार्थवाच्यस्त्वथ ?हेर्जगद्गो ब्रह्मार्थवाच्यो निगमेषु रम्बः ।
तत्पालकत्वाच्च तयोः प्रयोगे हेरम्बमेकं प्रणमामि नित्यम् ॥ २८ ॥
विश्वात्मकं यस्य शरीरमेकं तस्माच्च वक्रं परमात्मरूपम् ।
तुण्डं तदेवं हि तयोः प्रयोगे तं वक्रतुण्डं प्रणमामि नित्यम् ॥ २९ ॥
माता पिताऽयं जगतां परेषां तस्याऽपि माता जनकादिकं न ।
श्रेष्ठं वदन्ते निगमाः परेशं तं ज्येष्ठराजं प्रणमामि नित्यम् ॥ ३० ॥
नाना चतुःस्थं विविधात्मकेन संयोगरूपेण निजस्वरूपम् ।
पूर्यस्य सा पूर्णसमाधिरूपा स्वानन्दनाथं प्रणमामि चातः ॥ ३१ ॥
मनोरथान् पूरयतीह गङ्गे चराचराणां जगतां परेषाम् ।
अतो गणेशं प्रवदन्ति चाशाप्रपूरकं तं प्रणमामि नित्यम् ॥ ३२ ॥
वरैः समास्थापितमेव सर्वं विश्वं तथा ब्रह्मविहारिणा च ।
अतः परं विप्रमुखा वदन्ति वरप्रदं तं वरदं नतोऽस्मि ॥ ३३ ॥
मायामयं सर्वमिदं विभाति मिथ्यास्वरूपं भ्रमदायकं च ।
तस्मात् परं ब्रह्म वदन्ति सत्यमेनं परेशं विकटं नमामि ॥ ३४ ॥
चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो नानाविधा योगिभिरेव गङ्गे ।
तासां सदा धारक एक एव वन्दे च धरणीधरमादिभूतम् ॥ ३५ ॥
विश्वात्मिका ब्रह्ममयी हि बुद्धिस्तस्या विमोहप्रदिका च सिद्धिः ।
ताभ्यां सदा खेलति योगनाथस्तं सिद्धिबुद्धीशमथो नमामि ॥ ३६ ॥
असत्यसत् साम्यतुरीयनैज्यगनिवृत्तिरूपाणि विरच्य खेलकः ।
सदा स्वयं योगमयेन भाति तं नमाम्यतोऽहं त्वथ ब्रह्मणस्पतिम् ॥ ३७ ॥
अमङ्गलं विश्वमिदं सहात्मभिरयोगसंयोगयुतं प्रणश्वरम् ।
ततः परं मङ्गलरूपधारकं नमामि माङ्गल्यपतिं सुशान्तिदम् ॥ ३८ ॥
सर्वत्र मान्यं सकलावभासकं सुज्ञैः शुभादावशुभादिपूजितम् ।
पूज्यं न तस्मान्निगमादिसम्मतं तं सर्वपूज्यं प्रणतोऽस्मि नित्यम् ॥ ३९ ॥
भुक्तिं च मुक्तिं प्रददाति तुष्टो भक्तिप्रियो यो निजविघ्नहा च ।
भक्त्या विहीनाय ददाति विघ्नांस्तं विघ्नराजं प्रणमामि नित्यम् ॥ ४० ॥
नामार्थयुक्तं कथितं प्रिये ते विघ्नेश्वरस्यैव परं रहस्यम् ।
त्रिः सप्त नाम्नां हृदयं नरो यो ज्ञात्वा परं ब्रह्ममयो भवेदिह ॥ ४१ ॥
गङ्गोवाच ।
नाम्नां यत् हृदयं प्रोक्तं त्वया ब्रह्मप्रदं परम् ।
न तत्रानुभवो मे तु तदर्थं वद शङ्कर ॥ ४२ ॥
शङ्कर उवाच ।
मन्त्रं गृह्य गणेशस्य पुरश्चरणमार्गतः ।
भज तं तेन ते ज्ञानं भविष्यति न संशयः ॥ ४३ ॥
हृदयं मन्त्रराजस्य कथयामि समासतः ।
मन्त्र एव गणेशानो न भिन्नस्तत्र वर्तते ॥ ४४ ॥
गकारो ब्रह्मदेवश्चाऽकारो विष्णुः प्रकीर्तितः ।
बिन्दुः शिवस्तथा भानुरनुनासिकसञ्ज्ञितः ॥ ४५ ॥
तेषां सन्धिर्महाशक्तिरेभिर्मन्त्रः स उच्यते ।
देवता गणनाथस्तु तेषां संयोगकारकः ॥ ४६ ॥
तेभ्यस्तारमयं विश्वं समुत्पन्नं प्रिये पुरा ।
अतस्तारयुतो मन्त्रो गणेशैकाक्षराकृतिः ॥ ४७ ॥
तारः स षड्विधः प्रोक्तस्तं निबोध सरिद्वरे ।
अकारोकारकौ प्रोक्तौ मकारो नादबिन्दुकौ ॥ ४८ ॥
शून्यं विद्धि महामाये तत्र भेदं वदाम्यहम् ।
शून्यं देहिस्वरूपं तु बिन्दुर्देह इति स्मृतः ॥ ४९ ॥
ताभ्यां चतुर्विधं विश्वं स्थूलादिभेदकारकम् ।
एतादृशं विजानीहि मन्त्रराजं गजाननम् ॥ ५० ॥
आगमोक्तविधानेन कृत्वा न्यासादिकं पुरा ।
ततो गणेश्वरं पूज्य जपं कुर्याद्विचक्षणः ॥ ५१ ॥
तद्दशांशेन होमं वै कुर्यादागममार्गतः ।
तद्दशांशमितं प्रोक्तं तर्पणं गणपस्य च ॥ ५२ ॥
तद्दशांशमितं देवि मार्जनं तद्दशांशतः ।
विप्राणां भोजनं प्रोक्तमेवं पञ्चाङ्गमुच्यते ॥ ५३ ॥
यथाविधि कृतं चैतत् सद्यो हि फलदं भवेत् ।
अतस्त्वं मन्त्रराजस्य पञ्चकं तत् समाचर ॥ ५४ ॥
एवमुक्त्वाऽददात्तस्यै मन्त्रं विधिसमन्वितम् ।
गणेशस्य प्रणम्यैव मां ययौ सा तपोर्थतः ॥ ५५ ॥
मयूरेशं समासाद्य चकार तपमुत्तमम् ।
गङ्गा तत्रैव विप्रेशा मन्त्रध्यानपरायणा ॥ ५६ ॥
पुरश्चरणमेकं सा चकार सरितां वरा ।
ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः ॥ ५७ ॥
तस्यैव कृपया तस्या हृदि ध्यानं बभूव ह ।
तेनैकविंशतिनाम्नामर्थज्ञा तत्क्षणादभूत् ॥ ५८ ॥
ततो हर्षयुता देवी तत्र वासं चकार सा ।
नित्यं भक्तिसमायुक्ताऽभजत्तं गणनायकम् ॥ ५९ ॥
सनकाद्या ऊचुः ।
ब्रह्मभूता सरिच्छ्रेष्ठा मयूरेशं कथं प्रभो ।
अभजत्तस्य मार्गं नो ब्रूहि नाथ नमोऽस्तु ते ॥ ६० ॥
शिव उवाच ।
ब्रह्मभूतो नरो योगी गणेशमभजत् सदा ।
नवधा भक्तिभावेन तत्परश्च महर्षयः ॥ ६१ ॥
पुत्रः कलत्रं जनकौ सुहृद्गणो द्रव्यं सखा वृत्तिजविद्यया युतम् ।
स्वर्गस्तु मोक्षो विविधं त्वमेव मे स्वामी गुरुर्विघ्नपतिः परात्परः ॥ ६२ ॥
सांसर्गिकं कायिकवाचिकं परं कर्माऽचरं मानसजं त्रिदेहतः ।
ज्ञानं हृदिस्थं च मया परात्परं विघ्नेश्वरायेति समर्पितं किल ॥ ६३ ॥
[[११५]]
योगाकारेण विघ्नेश एकानेकादिसंश्रितः ।
भुङ्क्ते स विविधान् भोगान् शुभाशुभसमाश्रितान् ॥ ६४ ॥
नाहं नरः स्वयं साक्षात् क्रीडति गणनायकः ।
स्वामिसेवकभावेन रतो ब्रह्मणि शोभते ॥ ६५ ॥
अनेन विधिना विप्रा भजन्ते गणनायकम् ।
योगिनः शुकमुख्याश्च मुद्गलाद्या महर्षयः ॥ ६६ ॥
एतत्सर्वं समाख्यातं गुह्यं गणपतेर्मया ।
हृदयं तेन विघ्नेशं तोषयध्वं महर्षयः ॥ ६७ ॥
यथा देहेन्द्रियाद्येषु मुख्यं स्वहृदयं स्मृतम् ।
यत्र जीवस्वरूपेण तिष्ठति गणनायकः ॥ ६८ ॥
तथा गणपतेरेतत् हृदयं परिकीर्तितम् ।
अत्र योगपतिः साक्षात्तिष्ठति ब्रह्मनायकः ॥ ६९ ॥
अनेन गणनाथं तु यस्तोष्यति नरोत्तमः ।
स भुक्त्वा सकलान् भोगानन्ते योगमयो भवेत् ॥ ७० ॥
एवं मदीयवाक्यं ते श्रुत्वा ब्रह्मसुताः परम् ।
प्रणम्य मां ययुः सर्वे सनकाद्यास्तपोवनम् ॥ ७१ ॥
एकाक्षरस्य मन्त्रस्य पञ्चकं सेव्य योगिनः ।
गणेशहृदयं ज्ञात्वा गाणपत्या बभूविरे ॥ ७२ ॥
ततो नित्यं गणेशस्य हृदयं ते महर्षयः ।
जपन्ति भक्तिसंयुक्ता भ्रमन्ति स्वेच्छयेरिताः ॥ ७३ ॥
अतस्त्वमपि भावेन गणेशहृदयं परम् ।
सेवस्व गाणपत्येषु तथा मुख्यो भविष्यसि ॥ ७४ ॥
मुद्गल उवाच ।
एवमुक्त्वा महानागं शेषाय प्रददौ शिवः ।
मन्त्रमेकाक्षरं साङ्गं स ययौ तं प्रणम्य च ॥ ७५ ॥
साधयित्वा यथान्यायं हृदयज्ञो बभूव ह ।
नित्यं हृदयकेनैव तुष्टाव द्विरदाननम् ॥ ७६ ॥
गणेशहृदयं पुण्यं शृणुयाच्छ्रावयेन्नरः ।
ईप्सितं प्राप्नुयादन्ते ब्रह्मभूतो भवेदिदम् ॥ ७७ ॥
नित्यं पठेन्नरश्चेदं हृदयं गणपस्य यः ।
स गणेशो न सन्देहो दर्शनात् सिद्धिदो भवेत् ॥ ७८ ॥
पुत्रपौत्रकलत्रादि लभते पाठतो नरः ।
धनं सुविपुलं धान्यमारोग्यमचलां श्रियम् ॥ ७९ ॥
एकविंशतिवारं यो दिवसानेकविंशतिम् ।
पठेद्गणपतिं चिन्त्यं स लभेदीप्सितं फलम् ॥ ८० ॥
असाध्यं साधयेन् मर्त्यो गणेशहृदयेन यत् ।
राजबन्धात्त्रिकालेषु मोचयेत् पाठतो विधे ॥ ८१ ॥
मारणोच्चाटनादीनि वश्यमोहादिकानि तु ।
अनेन साधयेन्मर्त्यः परकृत्यं प्रणाशयेत् ॥ ८२ ॥
सङ्ग्रामे जयमाप्नोति वीरश्रीसंयुतो भवेत् ।
अस्य पाठेन भो दक्ष न किञ्चिद् दुर्लभं भवेत् ॥ ८३ ॥
विद्यामायुर्यशः प्रज्ञामङ्गहीनोऽङ्गमाप्नुयात् ।
यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति निश्चितम् ॥ ८४ ॥
नानेन सदृशं किञ्चित् शीघ्रसिद्धिकरं भवेत् ।
साक्षाद्गणपतेः प्रोक्तं हृदयं ते मया विधे ॥ ८५ ॥
गणेशभक्तिहीनाय दुर्विनीताय विद्विषे ।
न देयं गणराजस्य हृदयं वै कदाचन ॥ ८६ ॥
गणेशभक्तियुक्ताय साधवे च प्रयत्नतः ।
दातव्यं तेन विघ्नेशः सुप्रसन्नो भविष्यति ॥ ८७ ॥
महासिद्धिप्रदं तुभ्यं कथितं गणपस्य च ।
हृदयं किं पुनः श्रोतुमिच्छसि त्वं प्रजापते ॥ ८८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते गणेशहृदयकथनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥
[[५०]]