॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
प्रसङ्गाच्छृणु मासानां चरितं गणपे रतम् ।
द्वादशानां सुसङ्क्षेपात् सर्वसिद्धिप्रदायकम् ॥ १ ॥
श्रावणे पञ्चकं सेव्य गाणेशं वरुणः स्वयम् ।
दिगीशत्वं समालेभे ज्ञानं गाणेशसम्भवम् ॥ २ ॥
स्वयं भाद्रपदे वायुस्तथा सेव्य मयूरपम् ।
योगं लेभे दिगीशत्वं गाणपत्योऽभवत् प्रभुः ॥ ३ ॥
आश्विने देवगन्धर्वाः सेव्य विघ्नेश्वरं पुरा ।
स्वस्यैश्वर्यसमायुक्ता बभूवुस्ते महामुने ॥ ४ ॥
कार्तिके वक्रतुण्डं तु सेव्य विद्याधरास्तथा ।
स्वस्वव्यापारसंयुक्ता बभूवुर्ज्ञानधारकाः ॥ ५ ॥
विकटं मार्गशीर्षे चादित्याः संसेव्य सर्वपाः ।
जातास्तेजस्विनः सर्वे ज्ञानयुक्ता महामुने ॥ ६ ॥
पौषे लम्बोदरं सेव्य वसवः स्वपदाश्रिताः ।
बभूवुर्ज्ञानसंयुक्ता नानाभावपरायणाः ॥ ७ ॥
माघे रुद्रा गणेशानं सेव्य सर्वत्रगा बभुः ।
गाणपत्या महाभागाश्चरन्ति ह्यकुतोभयाः ॥ ८ ॥
फाल्गुने निर्ऋतिः सेव्य गणेशं दिक्पतेः पदम् ।
लेभेऽभिचारभावाख्यं कर्मभोगं महामतिः ॥ ९ ॥
चैत्र अप्सरसः सर्वाः सेव्य तं धूम्रवर्णकम् ।
नानालावण्यजं लेभुर्गानादि भगमेव च ॥ १० ॥
हेरम्बं ?सैव्य वैशाखेऽभवन् यक्षजनास्तथा ।
स्वस्वव्यापारकुशला नानाभोगपरायणाः ॥ ११ ॥
ज्येष्ठे विनायकं नागाः सेव्य सामर्थ्यसंयुताः ।
बभूवुः कार्यकर्तारो नानाभोगपरायणाः ॥ १२ ॥
पक्षिणः पञ्चकं नित्यं सेव्याऽऽषाढे गजाननम् ।
अभवन् भोगसंयुक्ताः स्वकार्यकुशलाः किल ॥ १३ ॥
ढुण्ढिराजं तथा ढौण्ढे धातुभिः सेव्य पर्वताः ।
बभू?वू रत्नजातीनां धारका भोगकारिणः ॥ १४ ॥
वार्षिकं स्वस्वमासं ते समाश्रित्य गजाननम् ।
अभवन् स्नानकर्तारो गाणेशे पञ्चके रताः ॥ १५ ॥
एवं नानाजनाः सिद्धिं लेभिरे मासजेन च ।
व्रतेन कति ते ब्रूयां नालं वर्षायुतैरपि ॥ १६ ॥
इदं मासभवं सर्वं माहात्म्यं कथितं मया ।
पठनाच्छ्रवणात् सद्यो भवते सर्वसिद्धिदम् ॥ १७ ॥
यं यमिच्छति तं तं स लभते नाऽत्र संशयः ।
अन्ते गाणेश्वरे धाम्नि लीनः सञ्जायते मुने ॥ १८ ॥
इदं सर्वं समाख्यातं यद्यत् पृष्टं त्वया मुने ।
श्रोतुमिच्छसि किं भूयो वद तत् कथयाम्यहम् ॥ १९ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते मासानां माहात्म्यवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥
[[११२]]