॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
कथं दशहरा देवी दशमी चाश्विनेऽभवत् ।
कथं तत्र शमीपूजां कुर्वन्ति देवतादयः ॥ १ ॥
सूत उवाच ।
शङ्खं हत्वा महावीरं विष्णुः परपुरञ्जयः ।
ददौ वेदान् विधात्रे स साङ्गोपाङ्गसमन्वितान् ॥ २ ॥
तान् दृष्ट्वा हर्षितो ब्रह्मा सस्मार गणनायकम् ।
ततो गणेश्वरं वेदा ययुः सृष्टाश्च तेन ये ॥ ३ ॥
पुरा कपिलरूपेण कर्मसिद्ध्यर्थनिर्मिताः ।
हृतेषु वेदशास्त्रेषु शङ्खेन पापरूपिणा ॥ ४ ॥
तत् दृष्ट्वा परमाश्चर्यं ब्रह्मा तुष्टाव विघ्नपम् ।
प्रार्थयामास वेदानां निर्विघ्नार्थं महामुने ॥ ५ ॥
ततस्तं प्रत्युवाचैवाकाशवाणी महाद्भुता ।
सर्वैर्विधे शमीं पूज्य विघ्नहीनो भविष्यसि ॥ ६ ॥
या शमी स गणेशानो न भेदस्तत्र वर्तते ।
अद्यैव तां महाभाग पूजयस्व विधानतः ॥ ७ ॥
ततो वेदान् समास्पृश्य प्रशस्तान् कुरु मानद ।
एवमुक्त्वा खवाणीस्थो विरराम गजाननः ॥ ८ ॥
श्रुत्वाऽतिहर्षितो ब्रह्मा वेदैर्देवैः सहेश्वरैः ।
मुनिभिस्तां प्रपूज्यैव वेदान् शस्तान्न् चकार ह ॥ ९ ॥
यस्मिन् काले महाविप्र पूजिता विधिना शमी ।
आश्विनी दशमी तत्र सायाह्ने सा बभूव ह ॥ १० ॥
ततो दशहरा जाता सा शमीसंयुता तिथिः ।
तदर्थं शृणु भावेन सर्वकार्येषु सिद्धिदाम् ॥ ११ ॥
दश दिक्षु स्थितान्येव भूतानि भयदानि च ।
कार्यध्वंसं प्रकुर्वन्ति क्रूराणि प्रबलानि च ॥ १२ ॥
दशमी हन्ति सा तानि शमी पूजाबलेन वै ।
अतो दशहरा प्रोक्ता सर्वकार्यप्रसिद्धये ॥ १३ ॥
शमीपूजाविधिं कृत्वा सायाह्ने तानलोकयत् ।
साङ्गोपाङ्गयुतान् वेदांस्ततः सर्वानुपादिशत् ॥ १४ ॥
नानाकार्यप्रसिद्ध्यर्थं दशम्यां शमीपूजनम् ।
शुक्लाश्विन्यां च सायाह्ने कर्तव्यं सर्वजन्तुभिः ॥ १५ ॥
तेन विघ्नविहीनास्ते दशदिक्षु भ्रमन्ति चेत् ।
सर्वसिद्धियुताः सर्वे भवन्ति नात्र संशयः ॥ १६ ॥
दशदिक्षु स्थितान् हन्ति विघ्नान् दशहरा मता ।
अद्य प्रभृति देवेशा मुनयो वार्षिकी भवा ॥ १७ ॥
पूजयिष्यन्ति देवेशा शमीं कार्यप्रवर्धिनीम् ।
वार्षिकं दुःखमुत्सृज्य स्थास्यन्ति सुखभोगिनः ॥ १८ ॥
पूजयित्वा शमीं विप्रा वेदान् ये पुस्तकस्थितान् ।
पठिष्यन्ति पुराणादींस्तेषां ज्ञानं भविष्यति ॥ १९ ॥
न यो दशहरायां तु शमीं पूजयते कदा ।
स नाना विघ्नसंयुक्तो नरकेऽन्ते प्रगच्छति ॥ २० ॥
एवमुक्त्वा स्वयं ब्रह्मा जगाम वेदसंयुतः ।
स्वलोकं शङ्कराद्याश्च जग्मुर्विप्राः सुरा मुने ॥ २१ ॥
तदादि चाश्विनी शुक्ला दशहरा बभूव ह ।
दशमी शमीसंयुक्ता सर्वार्थे सिद्धिदायिनी ॥ २२ ॥
अतोऽवश्यं स्वभावेन पूजयन्ति शमीं नराः ।
देवा नागास्तथा वेदान् पठन्ते पाठयन्त्यपि ॥ २३ ॥
इदं सर्वं समाख्यातं चरितं शमीसम्भवम् ।
यः शृणोति नरः सोऽपि लभते पठतीप्सितम् ॥ २४ ॥
शौनक उवाच ।
किमाधारमिदं सर्वं वर्तते सूत तद्वद ।
कर्माधीनं वदन्त्येव केचिदत्र मुनीश्वराः ॥ २५ ॥
ईश्वराधीनमेतद्वै केचिच्चेदं यदृच्छया ।
त्रिविधं तेषु किं सत्यं ज्ञायते न मुनीश्वरैः ॥ २६ ॥
सूत उवाच ।
त्रिविधं प्रवदन्त्येव मुनयो ब्रह्मवेदिनः ।
तत्सर्वं सत्यरूपं त्वं जानीहि मुनिसत्तम ॥ २७ ॥
गणेशेन कृतं सर्वं क्रीडार्थं स्वेच्छया मुने ।
तत्र माया समाख्याता सिद्धिरैश्वर्यदायिनी ॥ २८ ॥
ऐश्वर्यमोहधरा सा बुद्धिर्मायिक उच्यते ।
मायाभोगार्थमत्यन्तमतः श्रमयुतोऽभवत् ॥ २९ ॥
मायामायिकयोगात् स गणेशो ब्रह्मनायकः ।
क्रीडति स्वस्वभावेनानन्यभावपरायणः ॥ ३० ॥
न कोऽपि तत्र विघ्नेशप्रेरकस्तत्र विद्यते ।
अतो यदृच्छया सर्वं वर्तते योगिनां हृदि ॥ ३१ ॥
अन्यच्च शृणु विप्रेश माया नानाभ्रमात्मिका ।
सा जडा सर्वभावेन कर्तुं नैव क्षमाऽभवत् ॥ ३२ ॥
तया सम्मोहितोऽत्यन्तं मायिकस्तां चचाल ह ।
तदा सत्तायुता माया खेलते विविधे रता ॥ ३३ ॥
मायिकेन धृता देवी चचाल विविधात्मिका ।
मायिकेच्छावशेनैव संस्थिता नाऽत्र संशयः ॥ ३४ ॥
यदा त्यक्ता महामाया मायिकेन महामुने ।
तदा शक्ता न किञ्चित् सा कर्तुं जडप्रभावतः ॥ ३५ ॥
ईश्वराधीनभावेन वर्तते सर्वमञ्जसा ।
वदन्ति मुनयः केचित् ध्यानमार्गपरायणाः ॥ ३६ ॥
अन्यच्च कथयिष्यामि माया कर्मस्वरूपिणी ।
नानाभावयुता नित्यं खेलति त्रिविधा परा ॥ ३७ ॥
कर्माकर्मविकर्माण्यचालयत् सर्वरूपिणी ।
स्वर्गमुक्तिमहावीचिदायिनी त्रिविधे रता ॥ ३८ ॥
यादृशं कुरुते कर्म फलं भोक्ष्यति तादृशम् ।
कर्माधीनमिदं सर्वं वर्तते त्रिविधं किल ॥ ३९ ॥
शुभाशुभं कृतं कर्म भोक्तव्यं नात्र संशयः ।
कल्पकोटिशतैर्वाऽपि कृतं कर्म न तं त्यजेत् ॥ ४० ॥
एवं वदन्ति विप्रेश ब्राह्मणा देहवादिनः ।
धारणायां स्थितास्ते वै सत्यं शास्त्रेषु निश्चितम् ॥ ४१ ॥
अथैकभावनां वक्ष्ये त्रयाणां शृणु शौनक ।
गणेशमायया भ्रान्ता न जानन्ति कुयोगिनः ॥ ४२ ॥
मायामायिकरूपेण संस्थितो गणनायकः ।
क्रीडति स्वस्वभावेनानन्यभावपरायणः ॥ ४३ ॥
तस्येच्छया महाविप्र ईश्वरश्चैव तिष्ठति ।
मोहितो गणनाथेन जानाति न गजाननम् ॥ ४४ ॥
अहं श्रेष्ठः परं ब्रह्म मदाधारमिदं जगत् ।
मदिच्छया प्रवर्तन्ते जन्तवो नाऽत्र संशयः ॥ ४५ ॥
यादृशी गणनाथस्येच्छा भवेत्तादृशं स्वयम् ।
करोतीश्वर आनन्दादतो भेदो न दृश्यते ॥ ४६ ॥
कर्मरूपा महामाया गणेशेच्छासमन्विता ।
चलते तं न ?ज्ञानाति मोहिता भ्रान्तिसंयुता ॥ ४७ ॥
अहं श्रेष्ठा न सन्देहो मदाधारमिदं जगत् ।
सकलं कर्मभावेन धारयामि चराचरम् ॥ ४८ ॥
यादृशी गणनाथस्येच्छा भवेत्तादृशं स्वयम् ।
कर्म कुर्वन्ति विप्रेश चराचरात्मजीविनः ॥ ४९ ॥
अतस्त्रिविधकं विप्र एकलक्षाश्रितं मतम् ।
एवं बाधविहीनं तत्त्रिधा संवर्तते सदा ॥ ५० ॥
मायावादिन एवं तत् कर्माधीनं वदन्ति हि ।
अद्वैतवादिनः सर्वे ईश्वराधीनगं तथा ॥ ५१ ॥
योगिनः प्रवदन्त्येतद्यदृच्छाधीनगं जगत् ।
एवं सत्यं प्रमाणेन त्रिविधं मुनिसत्तम ॥ ५२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते त्रिविधजगदाधारनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः ॥
[[१११]]