॥ श्रीगणेशाय नमः ॥
आस्तीक उवाच ।
बाल्यात्प्रभृति शैवोऽहं पितस्तं त्यज्य विघ्नपम् ।
कथं भजामि विप्रेश अतः शैवं वदस्व माम् ॥ १ ॥
जरत्कारुरुवाच ।
त्यक्त्वा गणेशं शान्तिस्थो न कोऽपि सुत सम्भवेत् ।
गणेशानं शम्भुमुखा ध्यात्वा शान्तियुता बभुः ॥ २ ॥
शिवविष्ण्वादि भावेषु ब्रह्मशब्दः प्रकीर्तितः ।
एकांशेन गणेशस्य वेदेषु वेदवादिभिः ॥ ३ ॥
तेषु योगं समाराध्य शान्तिं प्राप्ताः सुयोगिनः ।
सा शान्तिः स्वल्पभावाख्या न मुख्या योगिनां मते ॥ ४ ॥
शान्तिभ्यः शान्तिदः प्रोक्तो गणेशो ब्रह्मणस्पतिः ।
तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ ५ ॥
गणेशो मायया युक्तः पञ्चधा परिकीर्तितः ।
पञ्चभेदविहीनः स निर्मायिक उदाहृतः ॥ ६ ॥
मायायुक्तविहीनत्वं भ्रान्तिमात्रं प्रकीर्तितम् ।
तयोर्योगे गणेशानः शान्तिरूपो न संशयः ॥ ७ ॥
अतो गणेशरूपाद्वै शिवो भिन्नः प्रकीर्तितः ।
त्यजाज्ञानभवं दुःखमभेदं गणपं भज ॥ ८ ॥
अत्र ते कथयिष्यामि संवादं शङ्करस्य च ।
उपमन्योर्महाभाग सर्वशान्तिप्रदायकम् ॥ ९ ॥
महापाशुपतो विप्र उपमन्युर्महायशाः ।
सहजं शङ्करं ब्रह्म ज्ञात्वा खेदयुतोऽभवत् ॥ १० ॥
जगाम शङ्करं विप्रस्तं प्रणम्य पुपूज ह ।
स्तुत्वा नम्य जगादाथ कृताञ्जलिर्महामुनिः ॥ ११ ॥
उपमन्युरुवाच ।
सहजं शाङ्करं ब्रह्म स्वाधीनं दोषसंयुतम् ।
स्वाधीनं च पराधीनं नैव ब्रह्मणि विद्यते ॥ १२ ॥
ब्रह्मभूयकरं योगं वद शैव सदाशिव ।
येनाहं शिवतां प्राप्य शान्तिस्थस्तं भजे सदा ॥ १३ ॥
इति तस्य वचः श्रुत्वा हर्षयुक्तः सदाशिवः ।
उवाच तं महाभागं योगं गाणेशसञ्ज्ञकम् ॥ १४ ॥
शिव उवाच ।
एकदा काशीसंस्थं मामुवाच मुनिसत्तमः ।
जैगीषव्यो यथा त्वं वै तथा पाशुपताग्रणीः ॥ १५ ॥
जैगीषव्य उवाच ।
शिवः सहजसञ्ज्ञस्थो ब्रह्मणि सहजं कथम् ।
अतः शैवं परं योगं वद मे शान्तिदायकम् ॥ १६ ॥
विश्वनाथ उवाच ।
गणेशं भज भावेन तदा शान्तिमवाप्स्यसि ।
ढुण्ढयित्वा मया योगात् हृतो ढुण्ढिः हृदि स्थितः ॥ १७ ॥
मम श्रुत्वा वचो रम्यं दुःखितो मामुवाच ह ।
जैगीषव्यो वचो विप्र तदहं कथयामि ते ॥ १८ ॥
जैगीषव्य उवाच ।
त्यक्त्वा विश्वेश्वरं देवं भजाम्यन्यं न विश्वप ।
अशान्तिशान्तिदो वाऽपि शिवो मे परमा गतिः ॥ १९ ॥
विश्वनाथ उवाच ।
असच्छक्तिश्च सद्भानुः समो हरिरहं शिवः ।
अव्यक्तश्च चतुर्णां वै योगे स्वानन्द उच्यते ॥ २० ॥
स एव गणनाथोऽयं मायया पञ्चधा बभौ ।
मायाहीनो ह्ययोगाख्यः पञ्चभिर्वर्जितो मतः ॥ २१ ॥
तयोर्योगे गणाधीशः शान्तिदः पूर्णवाचकः ।
अतोऽयं ब्रह्मणां नाथो वयं ब्रह्मप्रवाचकाः ॥ २२ ॥
खेलनाद्गणनाथोऽयमस्मद्रूपधरोऽभवत् ।
कलया तत्र किं भिन्नं मन्यसे मुनिसत्तम ॥ २३ ॥
भेदबुद्धिं परित्यज्य भज विघ्नेशमादरात् ।
न भिन्नः शङ्करस्तस्मात्तद्रूपं तं विभावय ॥ २४ ॥
[[२०८]]
एवमुक्त्वाऽददात्तस्मै मन्त्रमेकाक्षरं ततः ।
सविधिं गणनाथस्य ततो ध्यानप्रसिद्धये ॥ २५ ॥
साधयित्वा यथान्यायं योगं गाणेशसञ्ज्ञितम् ।
ततो यज्ञं समारेभे ब्राह्मणस्पत्यसञ्ज्ञकम् ॥ २६ ॥
कृत्वा यज्ञं मुदायुक्तो द्विजान्नत्वा विसृज्य सः ।
संस्थितस्तत्र विघ्नेशः प्रययौ वरदायकः ॥ २७ ॥
तं दृष्ट्वा सहसोत्थाय प्रणनाम पुपूज ह ।
पुनः प्रणम्य तुष्टाव यजुःस्तोत्रेण विघ्नपम् ॥ २८ ॥
योगशान्तिं प्रदत्वाऽसौ जैगीषव्याय धीमते ।
आचार्यतां तु योगस्य स्वयमन्तर्दधे विभुः ॥ २९ ॥
ततो गुरुं शिवं सोऽपि ढुण्ढिराजं तु दैवतम् ।
गाणपत्यस्वभावेनाभजत्काशीस्थितो मुनिः ॥ ३० ॥
अतस्त्वं गणनाथं तं भज शान्तिप्रसिद्धये ।
शान्तिभ्यः शान्तिदः प्रोक्तः सर्वेषां योगधारकः ॥ ३१ ॥
जरत्कारुरुवाच ।
एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् ।
विधियुक्तं गणेशस्य स्वशिष्यायोपमन्यवे ॥ ३२ ॥
तं प्रणम्य ययौ सोऽपि मन्त्रध्यानपरोऽभवत् ।
इष्टिं कृत्वा गणेशस्य शान्तिरूपो बभूव ह ॥ ३३ ॥
गणराजस्तुतमपि ययौ भक्तं महामुनिम् ।
दत्वा शान्तिं स्तुतस्तेनाऽन्तर्दधे ब्रह्मनायकः ॥ ३४ ॥
अतस्त्वं संशयं त्यक्त्वा भज विघ्नपतिं सुत ।
व्यभिचारो न ते भावी शान्तियुक्तो भविष्यसि ॥ ३५ ॥
सूत उवाच ।
एवमुक्त्वा ददौ तस्मै स्वमन्त्रं तु षडक्षरम् ।
विधियुक्तं गणेशस्यास्तीकाय मुनिसत्तमः ॥ ३६ ॥
आस्तीकः साधयामास ध्यात्वा हृदि गजाननम् ।
इष्टिं कृत्वा गणेशस्य शान्तियुक्तो बभूव ह ॥ ३७ ॥
गाणपत्यप्रियोऽत्यन्तं मातरं स जगाम ह ।
उपदिश्य गणेशानं शान्तियुक्तां चकार ताम् ॥ ३८ ॥
अतो गणपतिं नित्यमभजत् प्रीतिसंयुतः ।
अन्ते गाणेश्वरे धाम्नि ब्रह्मैव स बभूव ह ॥ ३९ ॥
एतत्ते कथितं सर्वं ब्राह्मणस्पत्ययज्ञजम् ।
माहात्म्यं गाणपत्यानां प्रियं सङ्क्षेपतो मया ॥ ४० ॥
यः शृणोति नरो भक्त्या पठते तस्य सिद्धिदम् ।
भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ ४१ ॥
ब्राह्मणस्पत्ययज्ञस्थं पुण्यं स लभते परम् ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भवेन्नरः ॥ ४२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते ब्राह्मणस्पत्ययज्ञमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥
[[१०९]]