४५ जरत्कारुयोगप्राप्तिवर्णनम्

॥ श्रीगणेशाय नमः ॥

जरत्कारुरुवाच ।
ब्रह्म नानाविधं वेदेषु प्रोक्तं वेदवादिभिः ।
अन्नप्राणादिभेदैश्च संयुक्तं क्रमसिद्धये ॥ १ ॥

मनोमयं ब्रह्म तेषु मनः कोशप्रकाशकम् ।
न मुख्यं तन् महाभाग सूक्ष्मं स्वप्नविकारजम् ॥ २ ॥

मनोबुद्धिरहङ्कारश्चित्तं चतुर्विधं परम् ।
अन्तःकरणमित्युक्तं शास्त्रेषु मुनिसत्तमैः ॥ ३ ॥

चित्तमत्र समाख्यातं तत्र चिन्तामणिः स्थितः ।
चित्तप्रकाशकत्वाद्वै मनो ब्रह्म कलात्मकः ॥ ४ ॥

प्राणो मनश्च विज्ञानं त्रिविधं स्वप्नमुच्यते ।
तेष्वेकदेशतः सोऽपि ब्रह्माकारो गजाननः ॥ ५ ॥

कथं शान्तिप्रदं तत्त्वं वदसि ब्रह्मणस्पतिम् ।
वेदेषु कथितं विप्र कथं तन्नैव बुध्यते ॥ ६ ॥

कौण्डिण्य उवाच ।

सम्यक् पृष्टं त्वया विप्र सर्वेषां हितकारकम् ।
कथयामि महाप्रीत्या प्रणम्य गणनायकम् ॥ ७ ॥

साङ्ख्ययोगादिभेदस्थैर्मार्गा नानाविधाः स्मृताः ।
पदार्थशोधनार्थं ते ज्ञातव्या वेदवादतः ॥ ८ ॥

अन्नप्राणादिकाः शब्दा ब्रह्मणो वाचका मताः ।
तत्र चित्तं समाख्यातमन्तःकरणगं परम् ॥ ९ ॥

एकभागाश्रितं चित्तं मनो ब्रह्मणि संस्थितम् ।
पदार्थशोधनाख्ये तद्विधौ जानीहि मानद ॥ १० ॥

कुत्र वेदविवादेषु मनसः परमा मता ।
बुद्धिस्तस्याः परं ब्रह्म शान्तिदं सर्वसम्मतम् ॥ ११ ॥

अन्तःकरणगा बुद्धिरेकदेशप्रभावतः ।
न मुख्या सा समाख्याता तद्वच्चित्तं मतं बुधैः ॥ १२ ॥

अत्रान्यं बोधदं मार्गं वदामि वेदगं परम् ।
समाहितमना विप्र शृणु संशयनाशनम् ॥ १३ ॥

देहः क्रियात्मकः प्रोक्तो मनो बोधात्मकं मतम् ।
तयोर्योगे स्वयं बुद्धिर्मोहदा द्वन्द्वधारिका ॥ १४ ॥

गणेशोपासनेनैव द्वन्द्वदुःखहरा भवेत् ।
ब्रह्माकारात्मयोगेन बुद्धिर्बुद्धिमतां परा ॥ १५ ॥

ततः परं स्वयं लीना जायते गणपे परे ।
तदा शान्तियुतो जन्तुर्ब्रह्मभूतो भवेत् स्वयम् ॥ १६ ॥

अहं गणेशरूपश्चेत्तदा मे देहजो भ्रमः ।
कुत्र मनोमयो मोहो विवेकदायकः परः ॥ १७ ॥

तयोर्योगे योगमयः कुत्र मे सम्भवेद्भ्रमः ।
द्वन्द्वभावयुतः सोऽपि द्वन्द्वसंवर्जितः स्मृतः ॥ १८ ॥

[[१०६]]

एवं ज्ञात्वा महायोगी शान्तिं संलभते पराम् ।
गणेशे गणनाथोऽयं भवते मुनिसत्तम ॥ १९ ॥

अनेन विधिना विद्धि चित्तं बुद्धिमयं परम् ।
तत्र चिन्तामणिं ज्ञात्वा ब्रह्मभूतो नरो भवेत् ॥ २० ॥

अन्यच्च शृणु विप्रेश मनो विवेकधारकम् ।
विवेकादभिमानश्चोत्पद्यते विविधेषु वै ॥ २१ ॥

अतो बुधैरहङ्कारो मनोमय उदाहृतः ।
कथितं वेदवादेषु मता बुद्धिर्मनः परा ॥ २२ ॥

बुद्धिर्ज्ञानात्मिका प्रोक्ता सैव द्वेधाऽभवन् मुदा ।
जडा देहे क्रियामूला चैतन्यदा मनोमयी ॥ २३ ॥

वृद्विक्षयादिकं ज्ञानं सदा देहे प्रतिष्ठितम् ।
तदेव बुद्धिजं विद्धि जरत्कारो सुयोगतः ॥ २४ ॥

देहात्मनि विवेकाख्यं ज्ञानं मनसि संस्थितम् ।
बुद्धिजं क्षयवृद्ध्यादिहीनं चैतन्यधारकम् ॥ २५ ॥

तयोर्योगे स्वयं बुद्धिर्ज्ञानरूपा ययोः परा ।
ब्रह्माहमिति शब्दाख्या मनोवाणीविवर्जिता ॥ २६ ॥

बुद्धिरूपं महच्चित्तं जानीहि तत्स्वरूपकम् ।
कथयाम्यधुना प्रीत्या सर्वसंशयनाशनम् ॥ २७ ॥

चित्तं प्रकाशकं प्रोक्तं प्रकाशो बुद्धिगो मतः ।
अतः चिन्तामणिः प्रोक्तो बुद्धीशो गणनायकः ॥ २८ ॥

चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामुने ।
विक्षिप्तं मुनिभिर्मुख्यैरेकाग्रं च निरोधकम् ॥ २९ ॥

देहदेहिमयं चित्तमेकाग्रं शास्त्रसम्मतम् ।
मनः स्वप्नमयं ब्रह्म देहरूपं विचारय ॥ ३० ॥

अतो मनोमयं चित्तं मा जानीहि महत्परम् ।
प्रकाशकारकं चित्तं सर्वशास्त्रेषु सम्मतम् ॥ ३१ ॥

संयोगाऽयोगगं चित्तं निरोधवाचकं मतम् ।
नानाब्रह्माणि चैकाग्रनिरोधमयगानि तु ॥ ३२ ॥

देहदेहिप्रकाशत्वादेकाग्रं चित्तमुच्यते ।
संयोगायोगकाशत्वान्निरोधं चित्तमञ्जसा ॥ ३३ ॥

इति सर्वं समाख्यातं भज त्वं गणनायकम् ।
तेन योगीन्द्रवन्द्यो वै भविष्यसि सुशान्तिगः ॥ ३४ ॥

जरत्कारुरुवाच ।
एवमुक्त्वा महायोगी कौण्डिण्यो विरराम ह ।
जरत्कारुः प्रणम्यैवागमं तं हर्षसंयुतः ॥ ३५ ॥

साधयित्वा महायोगं गाणपत्योऽभवं सुत ।
गणनाथं त्वमपि तं भज शान्त्यर्थमादरात् ॥ ३६ ॥

सूत उवाच ।

एवमुक्त्वा महायोगी जरत्कारुर्महामुने ।
विरराम पुनस्तं चास्तीक ऊचे विशेषवित् ॥ ३७ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते जरत्कारुयोगप्राप्तिवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥

[[१०७]]