४४ जरत्कारुमन्त्रोपदेशवर्णनम्

॥ श्रीगणेशाय नमः ॥

देवर्षय ऊचुः ।
ब्रह्म नानाविधं प्रोक्तं क्रमार्थं प्राप्तिहेतवे ।
गणेशस्य न सन्देहः पात्रभेदप्रभावतः ॥ १ ॥

अग्नीन्द्रकादयः सर्वे ब्रह्मशब्दप्रयाचकाः ।
पुराणेषु महाभाग तेभ्यो ब्रह्मादयोऽभवन् ॥ २ ॥

पितामहः समाख्यातो ब्रह्मा तेभ्यो मुने कथम् ।
बभूव शम्भुमुख्याश्चाभवन् वेद महामते ॥ ३ ॥

इति तेषां वचः श्रुत्वा हर्षितो मुनिसत्तमः ।
?भृशुण्डी प्रत्युवाचेदं वाक्यं संशयनाशनम् ॥ ४ ॥

?भ्रशुण्ड्युवाच ।
तत्त्वरूपा समाख्याता ब्रह्माकारा न संशयः ।
ब्रह्मादयः समुत्पन्ना देवास्तेभ्यः सुरर्षयः ॥ ५ ॥

अश्विनौ नासिकायाश्च देवौ सर्वत्र संस्थितौ ।
ब्रह्माकारेण ताभ्यां तु पृथ्वीतत्त्वं विनिःसृतम् ॥ ६ ॥

प्रकृतिर्भूमिराख्याता गन्धः पुरुष उच्यते ।
तयोर्योगेऽश्विनौ देवौ ब्रह्माकारौ मतौ बुधैः ॥ ७ ॥

पृथ्वीतत्त्वमयो देहस्त्रिगुणात्मशरीरिणाम् ।
ब्रह्मादीनां च ताभ्यां स निःसृतो नाऽत्र संशयः ॥ ८ ॥

विराड्रूपं पृथिव्यास्तु ताभ्यां जातं न संशयः ।
प्रणवो पृथिवीदेहस्तथा जातः सुरर्षयः ॥ ९ ॥

अनेन विधिना ब्रह्मा कथ्यते शास्त्रवेदिभिः ।
तस्माद्विश्वं समुद्भूतं तत्र चित्रं न विद्यते ॥ १० ॥

नरोऽश्विनौ समाराध्य जित्वा पृथ्वीभवं भ्रमम् ।
पुनः स जलतत्त्वार्थं वरुणं भजते परम् ॥ ११ ॥

तदाऽश्विनौ प्रनष्टौ च दृष्टौ तेन महात्मना ।
मुख्यं वारुणकं ब्रह्म तस्माज्जातमिदं जगत् ॥ १२ ॥

एवं परम्परा मार्गा ब्रह्मरूपा मताः परे ।
इन्द्राद्यास्तत्त्वरूपस्थास्तत्वैः सम्भावयन्ति ते ॥ १३ ॥

शिवादिदेहरूपेषु संस्थितास्तत्त्वधारकाः ।
देवा इन्द्रमुखास्तेन तदाधाराः शिवादयः ॥ १४ ॥

गौणमार्गेण देवेशाः शम्भ्वादयो बभूविरे ।
इन्द्रादिभ्यो न सन्देहो न मुख्यं तत्प्रकीर्तितम् ॥ १५ ॥

मुख्यभावेन देवेन्द्रा इन्द्रादयः समुद्भवाः ।
शिवादिभ्यश्च सम्पूर्णकलाभिर्नात्र संशयः ॥ १६ ॥

एवमुक्त्वा महायोगी ?भृशुण्डी विरराम ह ।
देवर्षयः प्रणेमुस्तं जगुर्हर्षसमन्विताः ॥ १७ ॥

देवर्षय ऊचुः ।
सर्वसंशयहीनाश्च कृता वयं महामुने ।
त्वया न चित्रमेवेदं गणेशाकाररूपिणा ॥ १८ ॥

देवर्षयस्ततः स्वस्वस्थलं जग्मुः सुहर्षिताः ।
संशयेन विहीनास्तेऽभजन्नित्यं गणेश्वरम् ॥ १९ ॥

ब्रह्मोवाच ।
एतत्ते कथितं वत्स रहस्यं शान्तिदायकम् ।
तस्मात्त्वं गणनाथं तं भज शान्तिमवाप्स्यसि ॥ २० ॥

एवमुक्त्वा ददौ तस्मै ब्रह्मा मन्त्रं षडक्षरम् ।
विधियुक्तं गणेशस्य सर्वसिद्धिप्रदायकम् ॥ २१ ॥

कौण्डिण्य उवाच ।

ततो ब्रह्माणमानम्यागमं चिन्तामणिं मुदा ।
तपोयोगेन विघ्नेशं मन्त्रेणाराधयन् परम् ॥ २२ ॥

गते वर्षशते देवः प्रसन्नो वरदोऽभवत् ।
आययौ मां वरं दातुं सिद्धिबुद्धिसमन्वितः ॥ २३ ॥

तं दृष्ट्वा सहसोत्थायाऽऽपूज्याऽऽनम्य गजाननम् ।
स्तौमि हर्षेण संयुक्तः कौथुमेन महामुने ॥ २४ ॥

ततो मे वाञ्छितं दत्वा योगं योगपति स्वयम् ।
जगाम स्वस्थलं विप्राहं खिन्न इव संस्थितः ॥ २५ ॥

[[१०४]]

तदादि गाणपत्योऽहं जातः सम्पूर्णभावतः ।
अभजं तं विशेषेण पत्न्या चिन्तामणिं सदा ॥ २६ ॥

प्रियां गणेशस्यात्यन्तं दूर्वां ज्ञात्वा महामुने ।
दूर्वाभिरयुतेनाऽपूजयं तं नित्यमादरात् ॥ २७ ॥

मदीयसहगत्वेन किञ्चिच्छुद्धाऽब्रवीद्वचः ।
आश्रया मां किमर्थं त्वं तृणानुष्ठानतत्परः ॥ २८ ॥

भार्याया वचनं श्रुत्वा संशयेन समन्वितम् ।
तस्यै गणेश्वरे भक्तिदानार्थं त्वब्रवं वचः ॥ २९ ॥

दूर्वार्पणेन विघ्नेशः सन्तुष्टो जायते परे ।
न तथा द्रव्यकाद्यैश्च वस्त्रैर्नैवेद्यमुख्यकैः ॥ ३० ॥

विना दूर्वां निराहारो तिष्ठति गणनायकः ।
निष्फला जायते पूजा कृता नानाविधा किल ॥ ३१ ॥

एकदूर्वाङ्कुरं भक्त्या फलं केन न गण्यते ।
समर्पयेद्गणेशाय तस्मात्तं दूर्वयाऽर्चयेत् ॥ ३२ ॥

ततस्तस्या हृदि संस्थः संशयो न जगाम ह ।
एकदूर्वाङ्कुरं गृह्याऽऽददां तस्यै हिताय च ॥ ३३ ॥

अवदं गच्छ देवेशं देवेन्द्रं दूर्वया समम् ।
सुवर्णं देहि विघ्नेश पूजायां स्थितया प्रभो ॥ ३४ ॥

प्रियेन न्यूनमधिकं त्वया ग्राह्यं कदाचन ।
तथेति नम्य मां सा वै जगाम देवनायकम् ॥ ३५ ॥

तेन सम्पूजिता देवी जगाद मे वचो हितम् ।
स इन्द्रो हर्षसंयुक्तस्तथा चकार विप्रप ॥ ३६ ॥

त्रैलोक्यं घटमध्ये स समारोप्य क्रमेण च ।
तथापि दूर्वया तुल्यं न बभूव महामुने ॥ ३७ ॥

दृष्ट्वाऽतिखेदसंयुक्तः सस्मार पञ्च देवपान् ।
तेऽपि स्वपुरसंयुक्ता जग्मुः कार्यप्रसिद्धये ॥ ३८ ॥

सर्वे सग्रामसस्त्रीकाः शिवविष्णुमुखाऽमराः ।
घटे स्थितास्तथा तेऽपि दूर्वया नाभवन् समाः ॥ ३९ ॥

ततस्तैर्मायया सर्वं ब्रह्माण्डं लोकसङ्कुलम् ।
घटे क्षिप्तं तथा तन्न दूर्वया च समं कदा ॥ ४० ॥

दृष्ट्वा ते भयसंयुक्ता मम शापाच्च विप्रप ।
आययुश्चाश्रयायुक्ता आश्रमे मे सुदुःखिनः ॥ ४१ ॥

प्रणम्य मां विधिस्तत्र सर्वैर्जगाद शोकतः ।
दासास्ते मुनिशार्दूल दूर्वापुण्येन वै कृताः ॥ ४२ ॥

एकदूर्वासमं नैव ब्रह्माण्डं भवति प्रभो ।
गणेशपूजने क्षिप्ता त्वया कौण्डिण्यसत्तम ॥ ४३ ॥

एकदूर्वाङ्कुराज्जातं फलं चिन्तामणिः स्वयम् ।
दास्यति ते महाभाग न वयं तत्समा यतः ॥ ४४ ॥

आज्ञापय करिष्यामो दासास्ते कार्यमुत्तमम् ।
नित्यं कार्यकरान् स्वामिन् पालयस्व सुरेश्वरान् ॥ ४५ ॥

तेषां वचनमाकर्ण्य तान् पूज्य प्राब्रवं वचः ।
विधे सर्वैः समायुक्तो गच्छ त्वं स्वपदं प्रभो ॥ ४६ ॥

नाहं दूर्वाफले सक्तो भार्याबोधार्थमञ्जसा ।
कृतं मया महादेवा दासोऽहं क्षम्यतामिति ॥ ४७ ॥

ततस्ते सर्वदेवेशा ययुः स्वस्वपदं मुदा ।
भार्या मे श्रद्धया युक्ता गाणपत्याऽभवत् सदा ॥ ४८ ॥

स्त्रिया नित्यं महाभाग भजामि गणनायकम् ।
चित्तस्थिरकृते क्षेत्रे स्थितं चिन्तामणिं मुदा ॥ ४९ ॥

अतस्त्वमपि विप्रेश शान्तिमिच्छसि चेत्तदा ।
भज विघ्नेश्वरं तेन योगिवन्द्यो भविष्यसि ॥ ५० ॥

[[१०५]]

एवमुक्त्वा ददौ मह्यं मन्त्रं गणपतेः परम् ।
षडक्षरं विधानेन पुत्र सर्वार्थदायकम् ॥ ५१ ॥

तं प्रणम्य महाभागमपृच्छं विनयान्वितः ।
योगप्राप्त्यर्थमत्यन्तं वचनं संशयात्मकम् ॥ ५२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते जरत्कारुमन्त्रोपदेशवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥