॥ श्रीगणेशाय नमः ॥
देवर्षय ऊचुः ।
एतादृशं गणेशस्य माहात्म्यं मुनिसत्तम ।
दर्शनस्मरणाद्यं तु सर्वसिद्धिप्रदायकम् ॥ १ ॥
जना गणेश्वरस्यैवं दर्शनं नामकीर्तनम् ।
सकृत् कुर्वन्ति विप्रेशाऽथ वाऽधिकं न संशयः ॥ २ ॥
ते सर्वे सुखसंयुक्ता भुक्त्वा भोगान् मनोगतान् ।
ब्रह्मभूता न जायन्ते वद तत्रापि कारणम् ॥ ३ ॥
?भ्रशुण्ड्युवाच ।
अविश्वासेन तेषां तु फलमर्धं गतं भवेत् ।
अभक्त्या पादसम्भूतं दम्भेन त्रिपदं तथा ॥ ४ ॥
अतः सम्पूर्णभावेन फलहीना जनाः किल ।
न प्राप्नुवन्ति पुण्यं ते सर्वशास्त्रप्रकीर्तितम् ॥ ५ ॥
अन्यच्च शुणुत प्राज्ञाः पुण्यं पापं समं मतम् ।
बलेन तेजसा भावैः शास्त्रेष्वत्र न संशयः ॥ ६ ॥
यथा गणेशनाम्नश्च कीर्तने पुण्यमुत्तमम् ।
तथा निन्दादिजं पापमतुलं जायते किल ॥ ७ ॥
यथा जना भजन्ते तं बाह्यभावपरायणाः ।
तथा ते तस्य निन्दां वै ?कुर्वते पश्यत प्रियाः ॥ ८ ॥
अन्यच्च कथयिष्यामि संशयस्यापनुत्तये ।
उल्लङ्घनादिजं पापं मानाच्छतगुणं भवेत् ॥ ९ ॥
ज्ञात्वा गणेश्वरं सर्वे कुर्वन्त्युल्लङ्घनं सदा ।
तेन भोगविहीनास्ते गच्छन्ति नरके किल ॥ १० ॥
नानाविघ्नसमायुक्ता जन्मजन्मसु ते जनाः ।
भवन्ति नाऽत्र सन्देहो गणेशोल्लङ्घनेन च ॥ ११ ॥
गणेशमानजं पुण्यं स्वल्पं किं सुखदं भवेत् ।
उल्लङ्घनबलेनैव हतं मन्दमिव प्रियाः ॥ १२ ॥
यथा विस्मृतिभावेन विस्मृतो गणनायकः ।
विधेर्यज्ञे भवन् सर्वे जलरूपाः सुरास्तथा ॥ १३ ॥
महातपोयुताभिश्च स्त्रीभिर्देवाः पुनः कृताः ।
स्वल्पोल्लङ्घनजं पापं पश्यध्वं तु सुरर्षयः ॥ १४ ॥
अतो दुःखयुता लोका गणेशस्मरणादिभिः ।
गच्छन्ति नरके युक्ताः गणेशोल्लङ्घनादिभिः ॥ १५ ॥
अन्यच्च कथयिष्यामि कर्म शास्त्रे प्रकीर्तितम् ।
प्रत्यवायाकुलं सर्वं सर्वत्र विविधं पुरा ॥ १६ ॥
प्रत्यवायमनादृत्य कर्म कुर्वन्ति मानवाः ।
ते सर्वे सकलं पुण्यं प्राप्नुवन्ति न निश्चितम् ॥ १७ ॥
इत्यादि बहवो भेदाः कृताः विघ्नेश्वरेण च ।
अखण्डक्रीडनार्थं कथयितुं नैव शक्यते ॥ १८ ॥
अपारमहिमायुक्तं माहात्म्यं गणपस्य च ।
तस्य खण्डनभावार्थं निन्दादिकं चकार सः ॥ १९ ॥
अतो गणपतिं देवा भजध्वं यत्नसंयुताः ।
मुनयस्तेन सम्पूर्णं गणपं परमाप्स्यथ ॥ २० ॥
सुरर्षय ऊचुः ।
गणेशो योगरूपोऽयं कथं पुम्भावमाश्रितः ।
एकदेशमयं योगिन् वद तस्य चरित्रकम् ॥ २१ ॥
भ्रूशुण्ड्युवाच ।
यथा ब्रह्म महाभागा नपुंसकप्रवाचकम् ।
स्त्रीपुम्भावविहीनं तदेकमार्गपरं मतम् ॥ २२ ॥
स्त्रीपुन्नपुंसकं सर्वं त्रिविधं त्रयवाचकम् ।
आत्मा तुरीयसञ्ज्ञश्च पुंवाचकस्त्रिवर्जितः ॥ २३ ॥
जनानां कथने वेदास्तं वदन्ति गजाननम् ।
एकमार्गाश्रितं सर्वं कथने नाभवन् क्षमाः ॥ २४ ॥
अतोऽयं गणनाथस्तैः पुम्भावात्मक उच्यते ।
यथा योगादिकाः शब्दास्तथा देवादयो मताः ॥ २५ ॥
वामाङ्गं प्राकृतं रूपं सिद्धिस्तस्य महात्मनः ।
दक्षिणाङ्गं महाभागा बुद्धिः पुरुषवाचिका ॥ २६ ॥
तयोर्योगे गणेशानो योगाकारो न संशयः ।
पुम्भावादियुतोऽयं न तेभ्यः संवर्जितो न च ॥ २७ ॥
देवर्षय ऊचुः ।
चतुर्थी गणनाथस्य प्रियाऽत्यन्तं तिथिः परा ।
कथं रिक्ता तु सा प्रोक्ता विवाहादौ विवर्जिता ॥ २८ ॥
साक्षान् मङ्गलमूर्तेश्च तिथिर्मङ्गलदायिका ।
सर्वदा रिक्तभावेन कथं युक्ता बभूव सा ॥ २९ ॥
?भ्रशुण्ड्युवाच ।
पक्षयोरुभयोः संस्था चतुर्थी गणपप्रिया ।
व्रतानामादिभूता वै गणेशप्राप्तिकारिका ॥ ३० ॥
व्रतं चतुःप्रदं पूर्णं सर्वसिद्धिप्रदायकम् ।
नित्यवन् मानवैः सर्वैः कर्तव्यं चादिरूपकम् ॥ ३१ ॥
तदा चतुः पदार्थास्तैर्लभ्यन्ते नाऽत्र संशयः ।
नो चेत् कर्म कृतं सर्वं निष्फलं जायते नरैः ॥ ३२ ॥
अतः सा सम्मता सद्भिः सर्वकार्येषु देवपाः ।
व्रतभङ्गो न कर्तव्यो नानाकार्यपरैरपि ॥ ३३ ॥
विवाहादिषु कार्येषु भोजनं क्रियते जनैः ।
नानाविषयसङ्गश्च व्रतं तत्र कुतो भवेत् ॥ ३४ ॥
अतः संशयहीनास्तां भजन्ते व्रतमार्गतः ।
मङ्गलायतनां पूर्णां चतुर्थीं सर्वसिद्धिदाम् ॥ ३५ ॥
जन्ममृत्युयुतैलोकैः पूरितं सकलं जगत् ॥ ३६ ॥
चतुर्थी व्रतकर्तारो जन्ममृत्युविवर्जिताः ।
त्यक्त्वा कर्मफलं कर्म गच्छन्ति निजलोककम् ॥ ३७ ॥
सर्वसङ्कटहीनास्ते भुक्त्वा भोगान् मनेप्सितान् ।
ब्रह्मभूता भवन्त्येव चतुर्थीव्रतकारकाः ॥ ३८ ॥
व्रतमात्रेण रिक्तं स कुरुते विश्वमञ्जसा ।
तेन रिक्ता समाख्याता चतुर्थी नाऽत्र संशयः ॥ ३९ ॥
विश्वं त्यक्त्वा गणेशानं गच्छन्ति व्रतकारिणः ।
तेन रिक्तं जगत् सर्वं भवते मुनयोऽमराः ॥ ४० ॥
नान्यतिथिसमा देवी मता रिक्ता चतुर्थिका ।
ब्रह्मभूयप्रदातृत्वात् सर्वेभ्यः सुखदायिका ॥ ४१ ॥
एतत् सर्वं समाख्यातं गणेशस्य महात्मनः ।
रहस्यं व्रतमुख्यस्य किं भूयः श्रोतुमिच्छथ ॥ ४२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते चतुर्थीरहस्यवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥
[[१०३]]