॥ श्रीगणेशाय नमः ॥
कौण्डिण्य उवाच ।
अहो गणेशमाहात्म्यमद्भुतं संश्रुतं मया ।
भ्रूशुण्डिनो वद त्वत्तो देवर्षीणां वचो मिथः ॥ १ ॥
ब्रह्मोवाच ।
एकदा मुनयः सर्वे ते विचार्य परस्परम् ।
समाययुर्विधातारं संशयस्यापनुत्तये ॥ २ ॥
प्रणम्य लोकधातारं जगुः सर्वे सुहर्षिताः ।
मुनयः कश्यपाद्या मां देवेन्द्रैर्मुनिमुख्यकैः ॥ ३ ॥
देवर्षय ऊचुः ।
सर्वपूज्यो गणेशोऽयं सर्वादिपूज्य एव सः ।
नामरूपधरो नित्यो ब्रह्मणस्पतिवाचकः ॥ ४ ॥
वेदेषु कथितं ब्रह्मन् ब्रह्म ब्रह्मैव केवलम् ।
तत्र सागुण्यनैर्गुण्यं विद्यते न कदाचन ॥ ५ ॥
देहधारी गणेशानो वेदेषु ब्रह्मणस्पतिः ।
अतः संशयसंयुक्ताः प्रष्टुं त्वां समुपागताः ॥ ६ ॥
त्वं साक्षाद्योगिवन्द्यश्च सर्वेषां प्रपितामहः ।
छिन्धि संशयकं नाथानुभवेन तदात्मना ॥ ७ ॥
ब्रह्मोवाच ।
तेषां वचनमाकर्ण्य ब्रह्मा चिन्तातुरोऽभवम् ।
न किञ्चिदवदं तत्र मोहयुक्तोऽहमञ्जसा ॥ ८ ॥
सर्वैस्तैः संयुतो वेधा अगमं केशवं पुरा ।
तं प्रणम्य महाभागा ह्यपृच्छत् संशयं परम् ॥ ९ ॥
विष्णुः खेदसमायुक्तो लेभे नैव तदुत्तरम् ।
तैः सार्धं शङ्करं सोऽपि जगाम ज्ञानसिद्धये ॥ १० ॥
प्रणम्य गिरिजानाथं जगाद संशयं परम् ।
तच्छ्रुत्वा शङ्करस्तत्र निश्चयं कर्तुमक्षमः ॥ ११ ॥
शिवस्तान् प्रत्युवाचेदं वचनं सुखदायकम् ।
?भ्रूशुण्डिनं च स्वगुरुं चित्ते स्मृत्वा गणेश्वरम् ॥ १२ ॥
श्रीशिव उवाच ।
आदिमध्यावसानेषु ?भ्रॄशुण्डी मुनिपुङ्गवः ।
तिष्ठति सर्वभावज्ञो गुरुर्नो हितकारकः ॥ १३ ॥
गणेशनाममाहात्म्यं सम्पूर्णं कथयिष्यति ।
जानाति नात्र सन्देहो नाम्ना सिद्धेश्वरोऽभवत् ॥ १४ ॥
ततस्तेन समायुक्ता जग्मुर्देवर्षयो मुने ।
?भृशुण्डिनं महाभागममलाश्रमसंस्थितम् ॥ १५ ॥
तं प्रणम्य महात्मानं स्थिताः सर्वे सुरर्षयः ।
स तान् पूज्य जगादेदं वचनं हितकारकम् ॥ १६ ॥
भ्रूशुण्ड्युवाच ।
धन्यं मे जन्मकर्मादि येन वो दर्शनं महत् ।
प्राप्तं वदत वाक्यं मां किमर्थमागताः पराः ॥ १७ ॥
साक्षाद्गणपतेः सर्वे विभूतिपदधारकाः ।
यूयं गणेश सामान्याः पावनार्थं समागताः ॥ १८ ॥
?भ्रूशण्डिवचनं श्रुत्वा जगाद शङ्करो वचः ।
प्रणम्य तं महाभागं योगीन्द्राणां गुरोर्गुरुम् ॥ १९ ॥
श्रीशङ्कर उवाच ।
गणेशस्य महत्तत्त्वं परिपूर्णं महामते ।
त्वं जानासि न सन्देहः साक्षाच्छुण्डाधरो भवान् ॥ २० ॥
अतः संशयसंयुक्ता वयं सर्वे समागताः ।
तं तेऽहं शृणु वक्ष्यामि भ्रान्तिदायकमुत्तमम् ॥ २१ ॥
नामरूपधरो नित्यः कथं विघ्नेश्वरोऽभवत् ।
ब्रह्मणस्पतिसञ्ज्ञस्तु वेदवादेषु योगिप ॥ २२ ॥
तेषां वचनमाकर्ण्य तान् जगाद महामुनिः ।
भ्रूशुण्डी सर्वसारज्ञो गाणपत्याग्रणीर्महान् ॥ २३ ॥
भ्रूशुण्ड्युवाच ।
गः शक्तिः सूर्य अः प्रोक्तो णो विष्णुरः शिवः स्मृतः ।
तेषां स्वामी गणेशानस्तेनाऽयं ब्रह्मणस्पतिः ॥ २४ ॥
गणाः समूहवाच्याश्च बाह्यान्तरैकभावतः ।
तेषां स्वामी गणेशानस्तेनायं ब्रह्मणस्पतिः ॥ २५ ॥
गो बोध अविबोधस्थो णः स्वानन्दो निवृत्तिकृत् ।
तेषां स्वामी गणेशानस्तेनाऽयं ब्रह्मणस्पतिः ॥ २६ ॥
विश्वानि ग प्रसूतानि ब्रह्माणि ण गतानि तु ।
तेषां स्वामी गणेशानस्तेनाऽयं ब्रह्मणस्पतिः ॥ २७ ॥
एवं नानार्थसंयुक्तं नाम तस्य महात्मनः ।
तेष्वर्थान् देवविप्राद्याः कति ब्रूयां न शक्यते ॥ २८ ॥
चित्तरूपा महामाया पञ्चधा परिकीर्तिता ।
सा बुद्धिर्भ्रान्तिदा तत्र सिद्धिर्माया परा स्मृता ॥ २९ ॥
ताभ्यां नानाविधान्यादौ चकार खेलनार्थतः ।
विश्वानि मोहयुक्तानि ब्रह्माणि ब्रह्मणस्पतिः ॥ ३० ॥
तेषां मोहविनाशार्थं योगदानार्थमादरात् ।
नामरूपधरो जातो गणेशो गणवल्लभः ॥ ३१ ॥
अर्थसत्तासमायुक्तं नाम तस्य सुरर्षयः ।
कथं नाशविनाशादि भेदास्तत्र भवन्त्यतः ॥ ३२ ॥
अथ रूपं प्रवक्ष्यामि गणेशस्य सुखप्रदम् ।
येन संशयहीनास्तं भजिष्यथ निरन्तरम् ॥ ३३ ॥
समष्टिव्यष्टिरूपाख्ये कुम्भस्थले महात्मनः ।
त्रयी त्रिनेत्ररूपा तु शुण्डा तुरीयवाचका ॥ ३४ ॥
धर्माधर्मौ गणेशस्?याधरौ बिन्दुर्गलाकृतिः ।
देही दन्तः सदैकस्तु बोधो जठरवाचकः ॥ ३५ ॥
साङ्ख्यं कर्णात्मकं तस्य हस्ताश्च त्वर्थवाचकाः ।
मायामायिकरूपौ वै पादौ गणपतेः स्मृतौ ॥ ३६ ॥
एषां संयोगरूपाख्यो देहस्तस्य सुरर्षयः ।
स्वसंवेद्यात्मकः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः ॥ ३७ ॥
अभिमानेन शून्यत्वादेषामयोगवाचकः ।
देहो देहधरस्याऽपि गणेशस्य विचक्षणाः ॥ ३८ ॥
संयोगायोगयोर्योगे देहधारी गजाननः ।
बभूव योगदानार्थं जगद्भ्यो ब्रह्मभ्यः पर ॥ ३९ ॥
विश्वं कण्ठादधस्तस्य शिरो ब्रह्म गजात्मकम् ।
तयोर्योगे गणेशानो देहधारी बभूव च ॥ ४० ॥
एवं नानार्थभावेन ध्यायन्ते योगिनोऽमलाः ।
देहं गणपतेः प्राज्ञा मायामोहविवर्जिताः ॥ ४१ ॥
शब्दार्थसत्तया युक्तं वपुस्तस्य विराजति ।
नाशानाशादिभावैश्च वर्जितं तन्मयं तथा ॥ ४२ ॥
एतत् सर्वं समाख्यातं नामरूपरहस्यकम् ।
गणेशस्य महाभागा यथा मुद्गलभाषितम् ॥ ४३ ॥
गणेशेति सकृज्जप्त्वा ब्रह्मभूतो भवेन्नरः ।
द्विवारं चेद्गणेशानः ?तस्यर्णी नाऽत्र संशयः ॥ ४४ ॥
गणेशेति सकृज्जप्त्वा यस्तिष्ठति नरोत्तमः ।
जगद्ब्रह्मयुतस्तेन संस्मृतो गणनायकः ॥ ४५ ॥
अतो गणेशनाम्नश्च स्मरणं न करोति यः ।
स दुरात्मा परित्याज्यश्चाण्डालानां शिरोमणिः ॥ ४६ ॥
गणेशनमनं कृत्वा नरस्तिष्ठति यो भुवि ।
तेन नानाविधं विश्वं ब्रह्म सन्नमितं भवेत् ॥ ४७ ॥
गणेशरूपं सन्ध्याने धृतं येन महात्मना ।
जगद्ब्रह्मयुतो योगो ध्यातस्तेन न संशयः ॥ ४८ ॥
गणेशमूर्तिरूपं तु दृष्टं येन सुरर्षयः ।
नानाब्रह्म तथा विश्वं दृष्टं सोऽपि गजाननः ॥ ४९ ॥
अनन्तानि महाभागा विश्वानि ब्रह्मकाणि तु ।
तेषां तु पूजनं केन भवेदानन्त्यभावतः ॥ ५० ॥
ततः सुलभभावार्थं तेषां योगमयः प्रभुः ।
नामरूपधरो ढुण्ढिर्बभूव भक्तिलालसः ॥ ५१ ॥
[[४३]]
तस्य पूजादिभावेन पूजितं सर्वमञ्जसा ।
जगद्ब्रह्म न सन्देहो विविधं शान्तिरूपकम् ॥ ५२ ॥
इदं सर्वं समाख्यातं रहस्यं गणपस्य च ।
नामरूपात्मकं पूर्णं सङ्क्षेपेण सुरर्षयः ॥ ५३ ॥
भजध्वं तं विशेषेण सर्वसंशयवर्जिताः ।
तेनैव कृतकृत्याश्च भविष्यथ सुरर्षयः ॥ ५४ ॥
एवमुक्त्वा महायोगी विरराम महामुने ।
?भृशुण्डी सर्वसारज्ञो गजानन इवापरः ॥ ५५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते गणेशनाममाहात्म्यकथनं नाम द्विचत्वारिंशोऽध्यायः ॥