॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
गणेशनाममाहात्म्यं वद मे करुणानिधे ।
एकनामभवेनैव पुण्येन दश चोद्धृताः ॥ १ ॥
सूत उवाच ।
गणेशनाममाहात्म्यं कथितुं कोऽर्हति प्रभो ।
अपारं वेदवादेषु कथितं वेदवादिभिः ॥ २ ॥
अत्रेतिहासकं वक्ष्ये सर्वसिद्धिप्रदं परम् ।
श्रवणात् पठनाच्चापि नरेभ्यो नात्र संशयः ॥ ३ ॥
जरत्कारुरिति ख्यातो ब्राह्मणो ब्रह्मवित्तमः ।
अपारतपसा युक्तः शापानुग्रहकारकः ॥ ४ ॥
तमाययौ महाभागः पुत्रस्तस्य महात्मनः ।
आस्तिकः पुण्यशीलश्च प्रणनाम कृताञ्जलिः ॥ ५ ॥
सेवायामुत्सुकस्तत्रोवास हर्षसमन्वितः ।
योगीन्द्रं पितरं सोऽपि कदा जगाद विप्रप ॥ ६ ॥
आस्तिक उवाच ।
जनमेजययज्ञेऽहं रक्षित्वा पन्नगोत्तमान् ।
समायातो महाभाग वन्दनार्थं पदस्य ते ॥ ७ ॥
तत्र सर्पगणानग्नौ मृतांश्च भृशपीडितान् ।
तान् दृष्ट्वा त्राससंयुक्तोऽभवं परमपावन ॥ ८ ॥
संसारं दुःखदं वीक्ष्य तं नेच्छामि महामुने ।
अतः सुशान्तिदं मार्गं वद योगप्रदायकम् ॥ ९ ॥
एवं पुत्रवचः श्रुत्वा हर्षयुक्तो महामुनिः ।
जरत्कारुर्जगादेदं वचनं योगभावितम् ॥ १० ॥
जरत्कारुरुवाच ।
ब्रह्मज्ञानं विना पुत्र शान्तिर्नैव प्रलभ्यते ।
नानाब्रह्मसु संस्थैश्चान्नप्राणादिषु मानद ॥ ११ ॥
शान्तिभ्यः शान्तिदं पूर्णं ब्रह्म वेदप्रकाशकम् ।
ब्रह्मणस्पतिसञ्ज्ञं तं भजस्व विधिसंयुतः ॥ १२ ॥
श्रुत्वा विप्रस्तमास्तीको जगाद तपसा युतः ।
कथं गणेश्वरं तात श्रेष्ठं वेदा ब्रुवन्ति वै ॥ १३ ॥
नामरूपधरो भूत्वा ब्रह्मणस्पतिवाचकः ।
कथं बभूव देवेशो वद तस्य स्वरूपकम् ॥ १४ ॥
जरत्कारुरुवाच ।
समूहे गणधातुश्च समूहा ब्रह्मरूपिणः ।
बाह्यान्तरैकभावाख्यास्तेषां स्वामी गणेश्वरः ॥ १५ ॥
सम्प्रज्ञातमयो देहोऽसम्प्रज्ञातमयं शिरः ।
गजरूपं तयोर्योगे देहधारी गजाननः ॥ १६ ॥
अज्ञानसंयुतान्यादौ भूतानि विविधानि तु ।
तेभ्यो ज्ञानप्रदानार्थं देहधारी बभूव ह ॥ १७ ॥
स्वसंवेद्येन योगेन दर्शनं तस्य जायते ।
योगिनां तेन विघ्नेशो निजलोकनिवासकृत् ॥ १८ ॥
सिद्धिरैश्वर्यरूपा सा भ्रान्तिदा सततं मता ।
बुद्धिर्भ्रान्तिधरा प्रोक्ता पञ्चचित्तस्वरूपिणी ॥ १९ ॥
तयोः स्वामी गणाधीशः खेलते चित्तसिद्धिगः ।
मायाभ्यां योगरूपोऽयं तदाकारः परात्परः ॥ २० ॥
अत्र ते कथयिष्यामि पुरातनं महाद्भुतम् ।
इतिहासं गणेशस्य नाममाहात्म्यसंयुतम् ॥ २१ ॥
त्वां मातुर्जठरे संस्थं प्रत्यज्याहं तु निर्गतः ।
योगार्थं योगनिपुणं कौण्डिण्यं सङ्गतोऽभवम् ॥ २२ ॥
स्थावरे नगरे सोऽपि गाणपत्याग्रणीर्महान् ।
चिन्तामणिं गणेशानमभजद् दूर्वया सदा ॥ २३ ॥
मां दृष्ट्वा हर्षसंयुक्तो जगाद स्वागतं मुने ।
जरत्कारो निषीद त्वं तापसोग्र महामते ॥ २४ ॥
एवमाभाष्य मां विप्रः कृत्वाऽऽतिथ्यं यथाविधि ।
पप्रच्छ किं महाविप्र वदेच्छसि शुभप्रदम् ॥ २५ ॥
कौण्डिण्यस्य वचः श्रुत्वा हर्षितोऽहं तमब्रुवम् ।
तात भ्रमणसंयुक्तो भ्रमामि पृथिवीतले ॥ २६ ॥
नानातपोयुतो नाथ न शान्तिमलभं कदा ।
तवाश्रममतो यातो वद शान्तिं सुशान्तिद ॥ २७ ॥
कौडिण्य उवाच ।
गणेशं भज भावेन तदा शान्तिमवाप्स्यसि ।
नान्यथा त्वं जरत्कारो श्रमयुक्तो भविष्यसि ॥ २८ ॥
एवं तस्य वचः श्रुत्वा पुनस्तमहमब्रुवम् ।
नामरूपधरं देवं कथं वदसि शान्तिदम् ॥ २९ ॥
ततो मामब्रवीत् सोऽपि दयायुक्तः स्वभावतः ।
शृणु पुरा भवं चित्रमितिहासं वदाम्यहम् ॥ ३० ॥
अहं योगार्थमत्यन्तमक्लिश्यं तपसा युतः ।
नाविन्दं तं ततो देवं ब्रह्माणं सङ्गतोऽभवम् ॥ ३१ ॥
तं प्रणम्य महाभागं योगशान्तिप्रदायकम् ।
अहं योगार्थमत्यन्तमक्लिश्यं तपसा युतः ॥ ३२ ॥
ब्रह्मोवाच ।
गणेशं भज भावेन ततः शान्तिमवाप्स्यसि ।
गच्छ स्थावरसञ्ज्ञे त्वं पुरे चिन्तामणिं भज ॥ ३३ ॥
चञ्चलं चित्तमाख्यातं स्थिरं यत्र बभूव ह ।
तेन स्थावरसञ्ज्ञं तत् क्षेत्रं नाम्ना मया कृतम् ॥ ३४ ॥
पञ्चचित्तप्रकाशो मे तत्र चिन्तामणिः प्रभुः ।
स्थापितोऽभून् मया पूर्वं साक्षाच्छान्तिप्रदायकः ॥ ३५ ॥
सृष्ट्यादौ तपसा तत्र मया संराधितोऽभवत् ।
तस्य वरप्रभावेण योगिवन्द्योऽभवं मुदा ॥ ३६ ॥
एवं तस्य वचः श्रुत्वा पुनस्तमहमब्रुवम् ।
नामरूपधरो नाथ शान्तिदः कथमञ्जसा ॥ ३७ ॥
ततो मामब्रवीद्ब्रह्मा हर्षयुक्तेन चेतसा ।
गणानां पतिभावेन स्थितोऽयं नामधारकः ॥ ३८ ॥
देहो जगन्मयस्तस्य गजाख्यं ब्रह्म मस्तकम् ।
तयोर्योगे स्वरूपस्थो बभूव भक्तकारणात् ॥ ३९ ॥
स्वानन्दो नगरं यस्य सिद्धिर्बुद्धिः प्रिये मते ।
लक्षलाभौ सुतौ प्रोक्तौ मूषको वाहनं तथा ॥ ४० ॥
एवं नानाविधानीह ब्रह्माकाराणि तस्य वै ।
सुहृदश्च ततः प्रोक्तो वेदेषु ब्रह्मणस्पतिः ॥ ४१ ॥
मायामोहयुतान्यादौ विश्वानि मुनिसत्तम ।
ब्रह्माणि योगदानार्थं तेभ्यो देहधरोऽभवत् ॥ ४२ ॥
स्वेच्छया देहधारी स स्वेच्छया मायया युतः ।
स्वेच्छया योगरूपोऽयं विनायकस्ततः स्मृतः ॥ ४३ ॥
नास्थिचर्मादिसंयुक्तो देहस्तस्य महात्मनः ।
तद्वर्जितो वै विप्रेश योगदेहधरोऽभवत् ॥ ४४ ॥
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
भ्रूशुण्डिनोऽमरर्षीणां संवादसम्भवं महान् ॥ ४५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते कौण्डिण्यब्रह्मसमागमो नामैकचत्वारिंशोऽध्यायः ॥
[[९९]]