॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
जाजलिस्तं विभाण्डं स ततो ददौ महामनुम् ।
पञ्चाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥ १ ॥
मन्त्रं प्राप्य महाभागो जाजलेराश्रमे स्थितः ।
बल्लालेशं समभ्यर्च्य व्रतं चकार भक्तितः ॥ २ ॥
गाणेशपञ्चकं कृत्वा ध्याननिष्ठो बभूव ह ।
कार्तिक्यां पूर्णिमायां तु ययौ बल्लालनायकः ॥ ३ ॥
तं दृष्ट्वा सहसोत्थाय विभाण्डः प्रणतोऽभवत् ।
पूज्य तुष्टाव विघ्नेशं नानास्तोत्रैः सुहर्षितः ॥ ४ ॥
ततः प्रसन्नतां यातो बल्लालेशो महामुने ।
योगशान्तियुतं विप्रं कृत्वाऽन्तर्धानगोऽभवत् ॥ ५ ॥
तदादिगाणपत्यश्च विभाण्डः प्रबभूव ह ।
बल्लालेशपरो भूत्वा चचार मनसेरितः ॥ ६ ॥
विभाण्डक उवाच ।
कृत्वैवं योगशान्तिस्थोऽभवं सर्वैः सुवन्दितः ।
बृहदश्व कुरुष्व त्वं व्रतं गाणेश्वरं परम् ॥ ७ ॥
एवमुक्त्वा ददौ तस्मै मुनिर्मन्त्रं दशाक्षरम् ।
गणेशस्य महायोगी विधियुक्तं महामुने ॥ ८ ॥
तं प्रणम्य ययौ स्थानं स्वकीयं बृहदश्वकः ।
चातुर्मास्यव्रतं चक्रे गाणेशपञ्चके रतः ॥ ९ ॥
बृहदश्वाय विघ्नेशो ददौ योगं सुशान्तिदम् ।
गणेश्वरं सोऽपि नित्यमभजद्भक्तिसंयुतः ॥ १० ॥
अन्यां च शृणु विप्रेश चातुर्मास्यभवां कथाम् ।
विभाण्डस्य च वीर्यं यत् पतितं भूमिमण्डले ॥ ११ ॥
तद्गृह्य च वने संस्था हरिणी तृणसंयुतम् ।
अमोघं तत्क्षणात् साऽभूद्गर्भयुक्ता महामुने ॥ १२ ॥
[[९५]]
तस्यां पुत्रोऽभवत् साक्षाद्ब्रह्मतेजोयुतः परः ।
ललाटे शृङ्गधारी स ऋष्यशृङ्गस्ततः स्मृतः ॥ १३ ॥
नारदेनाभ्यनुज्ञातो विभाण्डस्तं समानयत् ।
स्वाश्रमे सर्वसंस्कारान् कारयामास विप्रपैः ॥ १४ ॥
कदा तमृष्यशृङ्गं स लोमपादो नृपोत्तमः ।
अप्सरोभिः समाहृत्य स्वपुरे त्वानयन्मुनिम् ॥ १५ ॥
अनावृष्टिभवं दुःखं जनानां वीक्ष्य भूमिपः ।
स्वात्मजां प्रददौ तस्मै शान्तां गुणयुतां पराम् ॥ १६ ॥
सद्यो वृष्टिः समुत्पन्ना जनानां दुःखनाशिनी ।
शान्तया विप्रपो रेमे हर्षनिर्भरमानसः ॥ १७ ॥
कदा स्वपितरं विप्रो भार्यया प्रजगाम ह ।
नत्वा विभाण्डं तत्रैव संस्थितः सेवनोत्सुकः ॥ १८ ॥
विनयेन समायुक्तं पुत्रं दृष्ट्वा तपोयुतम् ।
जगाद तं महायोगी विभाण्डः प्रेमसंयुतः ॥ १९ ॥
विभाण्ड उवाच ।
ब्रह्मणि ब्रह्मभूतो यो ब्राह्मणः परिकीर्तितः ।
अतस्त्वं पुत्र भावेन भव ब्राह्मण उत्तमः ॥ २० ॥
एवमुक्त्वा ददौ तस्मै मन्त्रं गणपतेः शुभम् ।
सविधिं तं नमस्कृत्य पुत्रत्वं साधयत् परम् ॥ २१ ॥
शान्तया भार्यया सार्धं चातुर्मास्यव्रते रतः ।
गाणेशपञ्चकं सेव्य ध्याननिष्ठो बभूव ह ॥ २२ ॥
नित्यं योगपरो भूत्वा प्रार्थयद्गणनायकम् ।
कुरु योगीन्द्रवन्द्यं मां सभार्यं गणनायक ॥ २३ ॥
व्रतमात्रेण सन्तुष्टो ध्यानेन तपसा प्रभुः ।
ददौ योगं गणाधीश ऋष्यशृङ्गाय धीमते ॥ २४ ॥
ततः स भार्यया सार्धं गाणपत्यो बभूव ह ।
शान्तियुक्तः स्वभावेनाऽभजद्विघ्नेश्वरं मुदा ॥ २५ ॥
एतस्मिन्नन्तरे तत्र लोमपादो नृपोत्तमः ।
आययौ प्रार्थयामास विभाण्डं प्रीतिसंयुतः ॥ २६ ॥
ऋष्यशृङ्गं सुतायुक्तं प्रार्थयित्वा समानयत् ।
स्वपुरे तं समास्थाप्य तदाज्ञावशगोऽभवत् ॥ २७ ॥
नित्यं सोऽपि गणाधीशमभजन्नृपनायकः ।
उपदिष्टः स्वजामात्रा चातुर्मास्यपरायणः ॥ २८ ॥
अन्ते जगाम विघ्नेशं राजा धर्मभृतां वरः ।
एवं नाना जना विप्र व्रतेन सिद्धिमाययुः ॥ २९ ॥
तत्र तेऽहं कति ब्रूयां वक्तुं शक्तो न सर्वदा ।
चातुर्मास्यसमं मुख्यं व्रतं नैव विनिश्चितम् ॥ ३० ॥
एकः कैवर्तकः कोऽपि नाम्ना नादकरः स्मृतः ।
स कदाचित् द्विजान् दृष्ट्वा प्रणतोऽभून् महामुने ॥ ३१ ॥
चातुर्मास्यव्रते संस्थान् दृष्ट्वा पप्रच्छ भक्तितः ।
कीदृशं व्रतमुख्यं मे ब्रूत विप्रेन्द्रमुख्यकाः ॥ ३२ ॥
ततस्ते विनतं दृष्ट्वा कथयामासुरादरात् ।
व्रतं गाणेश्वरं मुख्यं सविधि मुनिसत्तम ॥ ३३ ॥
श्रुत्वाऽऽनम्य स तान् विप्रान् ययौ स्वगृहमादरात् ।
चातुर्मास्यव्रते स्नात्वा चक्रे गणेशदर्शनम् ॥ ३४ ॥
भजनं घटिकामात्रं ततः स कार्यकारकः ।
बभूव निन्दयन् देहं गणेशे भक्तिवर्जितम् ॥ ३५ ॥
ततः कदाचिन् मार्गस्थं कार्यार्थं वनगोचरम् ।
तत्र तं भक्षितुं याता वनस्था दश राक्षसाः ॥ ३६ ॥
[[९६]]
स गणेशं भयोद्विग्नः सस्मार हृदि सर्वपम् ।
राक्षसास्तस्य सान्निध्यमाजग्मुर्भक्षणार्थिनः ॥ ३७ ॥
दृष्ट्वा स जलमादाय गणेशाय नमो इति ।
मन्त्रमुच्चार्य तान् दुष्टान् सिषेच भयसङ्कुलः ॥ ३८ ॥
गणेशनाममन्त्रेण मन्त्रितेन जलेन ते ।
स्पृष्टा जातिस्मरा जाता रुरुदुस्तं प्रणम्य तु ॥ ३९ ॥
ऊचुः प्राञ्जलयो भूत्वा नादकरं महामुने ।
राक्षसा दुःखसंयुक्तास्तं प्रणम्य दयायुतम् ॥ ४० ॥
राक्षसा ऊचुः ।
वयं ब्राह्मणजातिस्था पूर्वजन्मनि शूद्रज ।
तत्राचारविहीनाश्चाभवाम स्म निरन्तरम् ॥ ४१ ॥
यथेच्छं विषये सक्ता मृता यमगृहे गताः ।
यमेन विविधेष्वेव निक्षिप्ता नरकेषु च ॥ ४२ ॥
भुक्त्वा पापभवं दुःखं राक्षसा मानदायक ।
जाताः क्षुधासमाविष्टा श्रमामो यत्र तत्र तु ॥ ४३ ॥
दैवयोगेन ते साधो दर्शनं भाग्यगौरवात् ।
प्राप्तं ते जलपातेन वयं जातिस्मराः कृताः ॥ ४४ ॥
अधुना तारयास्मांस्त्वं शरणं त्वां समागतान् ।
देहि पुण्यं महाभाग गणेशकीर्तने भवम् ॥ ४५ ॥
एवं तेषां नादकरो वचः श्रुत्वा दयायुतः ।
ज्ञात्वा माहात्म्यमुख्यं तानुवाच नामसम्भवम् ॥ ४६ ॥
नादकर उवाच ।
गणेशकीर्तनस्यैव पुण्यं वक्तुं न शक्यते ।
कथितं गुरुभिः पूर्वं ब्राह्मणैस्तत्त्वकोविदैः ॥ ४७ ॥
अतो राक्षसजातिस्था वचः शृणुत मे हितम् ।
चातुर्मास्ये मया नित्यं कीर्तनं क्रियते परम् ॥ ४८ ॥
एकनाम्नो भवं पुण्यं दास्यामि दयया युतः ।
चातुर्मास्ये कृतस्यापि कीर्तनस्य न संशयः ॥ ४९ ॥
तेन बन्धनहीनाश्च भविष्यथ विचक्षणाः ।
एवमुक्त्वा ददौ तेभ्यः पुण्यं नामैकसम्भवम् ॥ ५० ॥
दत्ते पुण्ये समायातास्तत्र गाणेशदूतकाः ।
तान् गृह्य निजलोकं तेऽभवन् गता महामुने ॥ ५१ ॥
गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूता बभूविरे ।
एवं व्रतस्य माहात्म्यं कथने नैव शक्यते ॥ ५२ ॥
चातुर्मास्यभवं चित्रं चरितं कथितं मया ।
सङ्क्षेपेण महाविप्र भुक्तिमुक्तिफलप्रदम् ॥ ५३ ॥
शृणुयाच्छ्रावयेद्यस्तु पठेद्भावसमन्वितः ।
सोऽपि व्रतफलं लब्ध्वा मनसेप्सितमाप्नुयात् ॥ ५४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते चातुर्मास्यव्रतमाहात्म्यनिरूपणं नाम चत्वारिंशोऽध्यायः ॥
[[९७]]