॥ श्रीगणेशाय नमः ॥
विभाण्डक उवाच ।
बल्लालस्य गतिं नाथ वद लेभे स कां पराम् ।
गाणपत्यो महाभागो दःखितो मुनिसत्तम ॥ १ ॥
जाजलिरुवाच ।
बल्लालो गणनाथं स सस्मार वनसंस्थितः ।
रक्तस्रावयुतश्चैको बद्धः पित्रा दुरात्मना ॥ २ ॥
विघ्नारिर्नाम देवेश कथं तेऽभूद्गजानन ।
भक्तविघ्नकरो मे किं विपरीतोऽसि निश्चितम् ॥ ३ ॥
मद्भक्तिखण्डनार्थं मां यदा छलयसे परम् ।
मया पुरा पदे नाथ देहोऽयं ते समर्पितः ॥ ४ ॥
पततु मे शरीरं तु न मुञ्चामि कदाचन ।
त्वां गणेश दयासिन्धो भक्तोऽहं भावसंयुतः ॥ ५ ॥
यदि मे सुदृढा भक्तिस्तव पादे निरन्तरम् ।
तदा कुष्ठयुतश्चान्धः पिता भवतु कुब्जकः ॥ ६ ॥
मूको बधिरतायुक्तो भवतु त्वत्प्रसादतः ।
अहं बन्धनहीनश्च विघ्नेश ते नमो नमः ॥ ७ ॥
गजाननैकभक्तस्य बल्लालस्य मुखान्मुने ।
वचनं निःसृतं यावत् स तावत् तादृशोऽभवत् ॥ ८ ॥
ततो गणेश्वरः प्रीतो ब्राह्मणस्य स्वरूपधृक् ।
तमाययौ महाभक्तं भक्तवचनयन्त्रितः ॥ ९ ॥
बद्धं बल्लालभक्तं स ददर्श ब्राह्मणोत्तमः ।
तत्क्षणाच्छिथिलान्येव बन्धनानि बभूविरे ॥ १० ॥
अङ्गानि क्षतहीनानि बभूवुर्मुनिसत्तम ।
ततः स हर्षितो मेने गणेशं द्विजरूपिणम् ॥ ११ ॥
उत्थाय तं स बल्लालः प्रणनाम पुपूज ह ।
पुनः प्रणम्य विघ्नेशं तुष्टाव करसम्पुटः ॥ १२ ॥
बल्लाल उवाच ।
गणेशाय धाम्ने परेशाय तुभ्यं सदाऽऽनन्दरूपाय सर्वातिगाय ।
अपारस्वरूपाय देवाधिदेव नमस्ते प्रभो भक्तसंरक्षकाय ॥ १३ ॥
हेरम्बाय नमस्तुभ्यं विघ्नेशाय परात्मने ।
ब्रह्मेशाय महायोगदात्रे शान्तिमयाय ते ॥ १४ ॥
स्वानन्दवासिने तुभ्यं स्वानन्दे खेलकाय ते ।
योगेशाय महोदाररूपधारिन्नमो नमः ॥ १५ ॥
सदा सन्मयकायायाव्यक्तशीर्ष्णे नमो नमः ।
योगरूपेण सर्वत्र संस्थिताय नमो नमः ॥ १६ ॥
सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिमयाय च ।
सिद्धिबुद्धिपते तुभ्यं नमस्ते गजवक्रिणे ॥ १७ ॥
लम्बोदराय देवाय चतुर्बाहुधराय ते ।
मूषकध्वजिने तुभ्यं पाशाङ्कुशप्रधारिणे ॥ १८ ॥
द्विजरूपधरायैव भक्तवत्सलभावतः ।
रक्षितुं भक्तवाक्यं तु समागताय ते नमः ॥ १९ ॥
त्वं माता त्वं पिता नाथस्त्वं सुहृत् कुलदैवतम् ।
द्रव्यं विद्यादिकं मे त्वं सर्वं ते वै नमो नमः ॥ २० ॥
देहेन वाचा मनसा कृतान् मे सांसर्गिकान् जागृतिस्वप्नजातान् ।
संसुप्तितो यान् सकलापराधान् क्षमस्व हेरम्ब दयानिधे त्वम् ॥ २१ ॥
एवमुक्त्वा ननर्ताऽसौ बल्लालो भक्तियन्त्रितः ।
साश्रुनेत्रः सरोमाञ्चो ब्राह्मणाग्रे महामुने ॥ २२ ॥
तमुवाच गणाधीशस्त्यक्त्वा ब्राह्मणरूपकम् ।
गजाननस्वरूपेण संयुक्तो भक्तमुत्तमम् ॥ २३ ॥
श्रीगणेश उवाच ।
वरान् ब्रूहि महायोगिन् यांस्ते चित्तगतान् परान् ।
दास्यामि भक्तितुष्टोऽहं नियमेन महामते ॥ २४ ॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति नरायैव पठते शृण्वते सदा ॥ २५ ॥
[[९३]]
यं यमिच्छति तं तं तु दास्याम्यनेन संस्तुतः ।
अन्ते सायुज्यदं मे वै भावि स्तोत्रं विशेषतः ॥ २६ ॥
बल्लाल उवाच ।
तव भक्तिं स्थिरां देहि सङ्गं मे भावितात्मनाम् ।
त्वयि विमुखभावानामनादरं गजानन ॥ २७ ॥
नान्यं किञ्चिद् वरं याचे दासोऽहं ते विनायक ।
त्वदेकविलयं नित्यं मां कुरुष्व विशेषतः ॥ २८ ॥
तथेति तमथोवाच गणेशो भक्तवत्सलः ।
त्वन्नामपूर्वकं नाम भविष्यत्यत्र मे परम् ॥ २९ ॥
अत्रैवाहं सदा सर्वान् बल्लालेशो गणेश्वरः ।
स्थास्यामि भक्तिसंयुक्ता पालयिष्यामि योगिनः ॥ ३० ॥
एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
तत्र देवालयं चित्रं बभूव तत्क्षणान् मुने ॥ ३१ ॥
बल्लालेशयुतं रम्यं दृष्ट्वा बल्लालवैश्यकः ।
विस्मितस्तं प्रणम्याऽऽदौ पूजार्थं सन्दधे मनः ॥ ३२ ॥
तत्र पूजोपचाराश्च पतिता वै समन्ततः ।
बल्लालस्य ततस्तं तैः पूजयामास वैश्यजः ॥ ३३ ॥
नियमं नित्यजं पूर्णं कृत्वा ध्यानपरोऽभवत् ।
तत उत्थाय हर्षेण ननाम गणनायकम् ॥ ३४ ॥
दिव्यज्ञानयुतः सद्यो बभूव परमाद्भुतः ।
स्वपरभ्रान्तिहीनः स बल्लालो गणपप्रियः ॥ ३५ ॥
ततो माता समायाता लोकैस्तं सा ददर्श ह ।
विस्मिता निर्व्रणं दृष्ट्वा मुक्तं देवालये स्थितम् ॥ ३६ ॥
वृत्तान्तं तन्मुखाच्छ्रुत्वा स तां पुनरुवाच ह ।
गणेशद्वेषिणं तातं न पश्यामि कदाचन ॥ ३७ ॥
नाना जन्मसु मे माता पिता नानाविधोऽभवत् ।
तेषु केषां धराम्येवाभिमानं तारणात्मकम् ॥ ३८ ॥
गच्छ त्वं स्वगृहं नाहं पुत्रो दुष्टस्य निश्चितम् ।
येन देवालयं भग्नं स देवं भक्तिखण्डने ॥ ३९ ॥
श्रुत्वा सा शोकसंयुक्ता स्वस्थानं तत आययौ ।
बल्लालस्तत्र विघ्नेशमभजत् हर्षसंयुतः ॥ ४० ॥
तत्राकस्मात् समायातं ज्योतीरूपं विमानकम् ।
तेन बल्लालवैश्यस्तु जगाम गणनायकम् ॥ ४१ ॥
विभाण्ड उवाच ।
कर्मणा यन्त्रिता लोकाः शुभाशुभपरायणाः ।
शुभाशुभे प्रकुर्वन्ति कर्मणा प्रेरिता पुनः ॥ ४२ ॥
तत्र योगी स बल्लालः स्वपरभ्रमवर्जितः ।
कथं कल्याणवैश्यं तं द्वेषिणं प्रददर्श ह ॥ ४३ ॥
जाजलिरुवाच ।
योगिषु गणनाथस्य भक्ताः श्रेष्ठा मता बुधैः ।
तेषु बल्लालवैश्योऽयं भक्तराजोऽभवत्परः ॥ ४४ ॥
गणेशभजने सक्ताः पूज्या मान्या निरन्तरम् ।
भक्तैस्तद्विपरीतास्ते त्याज्या वैरिसमानकाः ॥ ४५ ॥
अतो बल्लालवैश्यस्तु पितरं पूज्यमञ्जसा ।
गणेशार्थं गणेशस्य निन्दकं समभर्त्सयत् ॥ ४६ ॥
विभाण्डक उवाच ।
कुले यस्य महायोगिन् गाणपत्यो भवेत् कदा ।
तस्य वंशभुवः कोटिकुलस्योद्धारकारकः ॥ ४७ ॥
अयं कल्याणवैश्यस्य पुत्रः स्वानन्दगोऽभवत् ।
तदपि तस्य जनको माता भूमौ स्थितौ कथम् ॥ ४८ ॥
अन्ते तयोर्गतिश्चात्र कीदृशी सम्बभूव ह ।
कथां श्रुत्वा महाचित्रामाश्चर्यं मे हृदि स्थितम् ॥ ४९ ॥
जाजलिरुवाच ।
गाणपत्यः कुले जातः कुलोद्धारार्थमादरात् ।
यत्नं करोति चेद्विप्र तदा तस्य गतिर्भवेत् ॥ ५० ॥
[[९४]]
अथवा गणनाथं स तदा गच्छेन् महामुने ।
उद्धारं कुलजानां वै भवेत् सद्यो न संशयः ॥ ५१ ॥
बल्लालशापरक्षार्थं गणेशस्तस्य भावगः ।
अन्यजन्मनि चोद्धारं चकार स तयोः पुनः ॥ ५२ ॥
इदं बल्लालमाहात्म्यं कथितं ते समासतः ।
सर्वसिद्धिप्रदं पूर्णं शृण्वते पठते भवेत् ॥ ५३ ॥
न बले सदृशो येषां बल्लालास्ते प्रकीर्तिताः ।
तेषां स्वामी गणाधीशो बल्लालेश इति स्मृतः ॥ ५४ ॥
त्वमपि व्रतमुख्यं तत् कुरुष्व भक्तिसंयुतः ।
चातुर्मास्यभवं चित्रं बल्लालेशपरायणः ॥ ५५ ॥
तेन योगयुतः पूर्णः प्रसादेन भविष्यसि ।
बल्लालेशस्य विप्रेश नात्र कार्या विचारणा ॥ ५६ ॥
बल्लालेश्वरमाहात्म्यं यः शृणोति नरोत्तमः ।
पठति स महाभोगान् भुक्त्वा ब्रह्ममयो भवेत् ॥ ५७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते चातुर्मास्यमाहात्म्ये बल्लालेश्वरवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥