॥ श्रीगणेशाय नमः ॥
विभाण्ड उवाच ।
बल्लालेशचरित्रं मे ब्रूहि योगीन्द्रसत्तम ।
बल्लालेशः कथं नाम्ना गणेशोऽभूच्छुभप्रदः ॥ १ ॥
केनासौ स्थापितो देवः पल्लीसामीप्यगोऽभवत् ।
चरित्रं वद योगीश सर्वसिद्धिकरं परम् ॥ २ ॥
जाजलिरुवाच ।
सिन्धुदेशे समाख्याता पल्ली नाम्नी पुरी पुरा ।
तत्र कल्याणनाम्नैको वैश्यो धर्मयुतोऽभवत् ॥ ३ ॥
इन्दुमती महाभागा पत्नी तस्य सुरूपिणी ।
तस्यां पुत्रौऽभवत्तस्माद्बल्लालो भक्तिसंयुतः ॥ ४ ॥
पुत्रस्यैकादशे नाम दिवसे स चकार ह ।
बल्लालो ब्राह्मणैरुक्तो भक्तिबलसमन्वितः ॥ ५ ॥
बल्लालो गणनाथस्य ध्यानयुक्तः सदाऽभवत् ।
क्षुधां तृषां न जानाति भक्तिभावात् स्म नित्यदा ॥ ६ ॥
माता पुत्राय स्तन्यं तु ददौ हर्षसमन्विता ।
कृत्वा स्मरणमत्यन्तमतिविस्मितमानसा ॥ ७ ॥
न रुरोद कदा बालस्तन्यार्थं मुनिसत्तम ।
ततश्चचाल पद्भ्यां स जानुना वैश्यनन्दनः ॥ ८ ॥
पृथिव्यां गणपं धूलिमयं कृत्वा महामतिः ।
धूल्योपचारकैस्तं स पूजयामास भक्तितः ॥ ९ ॥
ततः पद्भ्यां गतिं चक्रे बल्लालो गणपे रतः ।
अवदत् स्खलितां वाचं जय विघ्नेश आदरात् ॥ १० ॥
ततः किञ्चिद्गते काले स वयस्यैः समन्वितः ।
पुपूज गणनाथं तं यत्र तत्र महीतले ॥ ११ ॥
बालान् संशिक्षयामास मा खेलं कुरुत प्रियाः ।
नाशभूतं महाभागाः खेलं गाणेशचिह्नितम् ॥ १२ ॥
भजध्वं गणपं नित्यं तेन सर्वं हितं भवेत् ।
ततस्ते तादृशं चक्रुर्गाणपत्यपरायणाः ॥ १३ ॥
ततः काले गते किञ्चित्तत्र लोकभवं परम् ।
विघ्नं भक्तिविघाताख्यं ज्ञात्वा सोऽपि सुदुःखितः ॥ १४ ॥
विचार्य हृदि बालैः स मुदा ग्रामसमीपगम् ।
पर्वतं वैश्यपुत्रोऽपि जगाम भक्तिकारणात् ॥ १५ ॥
तत्र सुन्दररूपं स पाषाणं स्थाप्य बालकैः ।
पुपूज वनजैः पत्रैः फलैः पुष्पैर्गजाननम् ॥ १६ ॥
त्रिकालपूजनं कृत्वा रात्रौ स्वगृहमाययौ ।
भुक्त्वा सुष्वाप बल्लालो गाणपत्याग्रणीर्महान् ॥ १७ ॥
पुनः प्रातः समुत्थाय बालकैः स जगाम ह ।
गणेशं भक्तिसंयुक्तस्तैः पुपूज महामुने ॥ १८ ॥
ततो लोकाः पुरे संस्था बालान् सन्ताड्य तान् जगुः ।
अभुक्त्वा नित्यमानन्दात् कुत्र गच्छथ बालकाः ॥ १९ ॥
निशायामेकभुक्तेन कथं तिष्ठथ नित्यदा ।
बल्लालसङ्गसंयुक्ता मा गच्छथ कदाचन ॥ २० ॥
एवं क्रोधसमायुक्ता जना नगरवासिनः ।
अशिक्षयन् स्वपुत्रादींस्ते तथापि वनं ययुः ॥ २१ ॥
बल्लालसहिताः सर्वे गणेशभजने रताः ।
नानाछन्दयुतास्तं ते गणेशमभजन् परम् ॥ २२ ॥
ततोऽतिक्रोधसंयुक्ताः कल्याणं प्रययुः किल ।
जनाः श्रेष्ठं महावैश्यं जगुस्तं भयवर्जिताः ॥ २३ ॥
नागरा ऊचुः ।
बल्लालो बालकान् गृह्य याति नित्यं वनान्तरम् ।
उपोषणसमायुक्तान् रात्रावागच्छति प्रभो ॥ २४ ॥
कृशा नो बालकाः सर्वे कृतास्तेन दुरात्मना ।
अद्य श्वो वा मरिष्यन्ति स्वसुतं शिक्षयाऽधुना ॥ २५ ॥
[[९९]]
नानाप्रयत्नवन्तोऽपि वयं सर्वे महामते ।
ताडयामः सुतान् गृह्य तथापि त्वत्सुते रताः ॥ २६ ॥
तेषां तद्वचनं श्रुत्वा कल्याणः क्रोधसंयुतः ।
विसृज्य तान् ययौ शीघ्रं वने हन्तुं सुतं शुभम् ॥ २७ ॥
महान्तं दण्डमादाय क्रोधयुक्तः स्वभावतः ।
जगाम बालसामीप्ये ददर्श बालकान् मुने ॥ २८ ॥
तृणकाष्ठादिभिश्चित्रं धातुभी रञ्जितं परम् ।
कृत्वा देवालयं देवं स्थाप्य पूजापरायणान् ॥ २९ ॥
कांश्चित् प्रदक्षिणपरान् नामकीर्तनसंयुतान् ।
ध्याननिष्ठान् तपोनिष्ठान् पुराणवाचकान् परान् ॥ ३० ॥
नानाछन्दकरान् वैश्यो गाणेशान् परमार्थकान् ।
बल्लालं ध्यानसंस्थं तु गणेशस्य पुरः सुतम् ॥ ३१ ॥
ततो दण्डेन देवस्य देवालयं बभञ्ज ह ।
दृष्ट्वा बाला भयोद्विग्नाः पपलुः सर्वतो दिशम् ॥ ३२ ॥
एक एव स बल्लालो न चचाल दृढाऽऽसनात् ।
नियमस्थो महाभक्तस्तं जग्राह पिता सुतम् ॥ ३३ ॥
दण्डेन ताडयामास बल्लालं यमसन्निभः ।
तस्य देहात् प्रसुस्राव रुधिरं सर्वतो द्विज ॥ ३४ ॥
तथापि स गणेशानं न मुमोच हृदि स्थितम् ।
सस्मार देहसन्त्यागे तत्परो वैश्यजः प्रभुम् ॥ ३५ ॥
ततो देवं प्रगृह्यैव चिक्षेप गणनायकम् ।
दूरे पर्वतभागे स वल्लीपाशानथानयत् ॥ ३६ ॥
तैः सुतं हस्तपादेषु बबन्ध दृढमेव सः ।
ततस्तं क्रोधसंयुक्तो जगाद वैश्यजोऽधमः ॥ ३७ ॥
कल्याण उवाच ।
मामनादृत्य नित्यं त्वं देवपूजापरोऽसि वै ।
तस्येदं त्वं फलं मुख्यं भुङ्क्ष्व पुत्र महाद्भुतम् ॥ ३८ ॥
लोका मां लज्जया हीना वदन्ति त्वद्विचेष्टितम् ।
अयशस्कारिणं पुत्रं मारयस्व महामते ॥ ३९ ॥
त्वया पुत्रेण सर्वत्र निन्दितोऽहं कृतोऽधुना ।
वन्ध्यः पुरा मुदा युक्तः सुयशा नगरेषु तु ॥ ४० ॥
अतो देहं परित्यज्य गच्छ विघ्नेश्वरं सुत ।
स तं सर्वं शुभं देवः करिष्यति न संशयः ॥ ४१ ॥
एवमुक्त्वा महापापी जगाम नगरं पुनः ।
गृहे समागतस्तत्र विघ्नयुक्तो बभूव ह ॥ ४२ ॥
गलत्कुष्ठयुतश्चान्धो बधिरः कुब्ज एव च ।
मूककीटसमायुक्तो बभूव सहसा मुने ॥ ४३ ॥
ततोऽतिखेदसंयुक्तो बभूव वैश्यदूषकः ।
पत्नी तं तादृशं दृष्ट्वा शुशोच दुःखसंयुता ॥ ४४ ॥
पप्रच्छ तं पतिं सा तु न स शुश्राव तां गिरम् ।
मूकत्वान्न स्वयं किञ्चिज्जगाद दुःखसंयुतः ॥ ४५ ॥
ततो जना जगुस्तां ते नागरा भयसंयुताः ।
वृत्तान्तं वनसम्भूतं बल्लालताडनात्मकम् ॥ ४६ ॥
ततोऽतिदुःखसंयुक्ता सा जगाम वनं जनैः ।
सुतं द्रष्टुं सती विप्र रुदतीन्दुमती परम् ॥ ४७ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते कल्याणदुर्गतिवर्णनं नामाष्टत्रिंशोऽध्यायः ॥
[[९२]]