३७ विभाण्डव्रतोपदेशवर्णनम्

॥ श्रीगणेशाय नमः ॥

शौनक उवाच ।

चातुर्मास्य व्रतं ब्रूहि गाणेशं सर्वदायकम् ।
न तृप्यामि कथां श्रुत्वा नानाश्चर्यविवर्द्धिनीम् ॥ १ ॥

सूत उवाच ।

अत्र ते कथयिष्यामि पुरातनभवं परम् ।
इतिहासं महाभाग श्रवणात् सर्वदायकम् ॥ २ ॥

बृहदश्व इति ख्यातो ब्राह्मणः परमार्थवित् ।
तपोयुक्तो महातेजाः शापानुग्रहणे क्षमः ॥ ३ ॥

नानातपःप्रभावेणाऽन्तर्ज्ञानं सम्बभूव ह ।
हृदि तस्य ततः सोऽपि शमदमपरोऽभवत् ॥ ४ ॥

सोऽहम्ब्रह्मणि संस्थोऽभूत् अन्ते शून्यमये मुनिः ।
शान्तियुक्तः स्वभावेन संस्थितो ब्रह्मवित्समः ॥ ५ ॥

तस्याऽऽश्रमे महायोगी विभाण्डः सहसाऽऽगतः ।
तं प्रणम्य महाभागं पुपूज भक्तिसंयुतः ॥ ६ ॥

विश्रान्तं मुनिमुख्यं स जगाद हर्षसंयुतः ।
विभाण्डं विनयेनैव युक्तो वचनमुत्तमम् ॥ ७ ॥

बृहदश्व उवाच ।

निरालम्बमयं ब्रह्म सदैकरूपधारकम् ।
ध्यातृध्यानविहीनं यत् तत्त्वमेव न संशयः ॥ ८ ॥

महाभाग्येन दृष्ट्वा त्वां साक्षात् योगीश्वरं परम् ।
अधुना कृतकृत्योऽहं जातस्ते पाददर्शनात् ॥ ९ ॥

एवं तस्य वचः श्रुत्वा विभाण्डस्तमुवाच ह ।
योगयुक्तं सुनैपुण्यं ज्ञात्वा शान्तिप्रदायकः ॥ १० ॥

[[८५]]

विभाण्ड उवाच ।

अहं गणेशरूपश्चेत्तत्रैकत्वं न विद्यते ।
निरालम्बभवं सौख्यं मुने कुत्र प्रवर्तते ॥ ११ ॥

तस्य तद्वचनं श्रुत्वा बृहदश्वस्तमब्रवीत् ।
सुशान्तिदं विस्मितः किं तदर्थं लालसी सदा ॥ १२ ॥

बृहदश्व उवाच ।

पूर्णशान्तिप्रदं नाथ वद मां करुणानिधे ।
सोहङ्कारात्परं भावं न जानामि कदाचन ॥ १३ ॥

विभाण्ड उवाच ।

अहं पुरा तपोनिष्ठोऽभवं तत्र समाययुः ।
इन्द्रेण प्रेषिता नार्यस्तपोभङ्गार्थमादरात् ॥ १४ ॥

नृत्यगानादि चिह्नैर्मां मोहनाय समुद्यताः ।
अप्सरसस्ततो धैर्यमहं धृत्वा स्थितोऽभवम् ॥ १५ ॥

ततोऽति हठसंयुक्ताः स्त्रियः कामसमन्विताः ।
हावभावकटाक्षाद्यैश्चिह्नैर्मां समपीडयन् ॥ १६ ॥

ततो मे विह्वलत्वाद्वै वीर्यं पपात भूतले ।
तृणयुक्ते सुसङ्खिन्नोऽगमं त्यक्त्वा स्वमाश्रमम् ॥ १७ ॥

ततस्त्वप्सरसः सर्वा जग्मुः स्वर्गं महामुने ।
अहं जाजलिकं विप्रमगमं तं नतोऽभवम् ॥ १८ ॥

तेन सम्मानितो नित्यमवसं तपसा युतः ।
अवदं गणनाथस्य पूजने सक्तमादरात् ॥ १९ ॥

एकनिष्ठतया स्वामिन्नित्यं भक्तिसमन्वितः ।
त्यक्त्वा देवेन्द्रकान् सर्वान् गणेशं भजसे कथम् ॥ २० ॥

एवं पृष्टो मया योगी जाजलिः परमार्थवित् ।
मामुवाच दयायुक्तस्तत्तेऽहं कथयामि तु ॥ २१ ॥

जाजलिरुवाच ।
गणेशान्न परं ब्रह्म वेदे पश्य महामते ।
ब्रह्मणस्पति सञ्ज्ञं तं वदन्ति वेदवादिनः ॥ २२ ॥

अहं पुरा तपोनिष्ठोऽभवं नित्यं महामुने ।
अत्यन्ततपसा मेऽभूद् व्याप्तं सर्वं चराचरम् ॥ २३ ॥

ततोऽकस्मात् समायातमाश्रमे मे महामुनिः ।
लोमशं तं प्रणम्याहमपूजं भक्तिसंयुतः ॥ २४ ॥

ततो मामब्रवीत् विप्रो लोमशः सर्वविन् मुनिः ।
दयायुक्तः स्वभावेन महायोगीन्द्रवन्दितः ॥ २५ ॥

लोमश उवाच ।

किं तपोनिष्ठभावेन साध्यं कर्तुमभीप्ससि ।
योगं साधय तत्त्वज्ञ स्वयं ब्रह्म भविष्यसि ॥ २६ ॥

तपसा सर्वभोगश्च लभ्यते मानवैः सदा ।
पुनः पतनभावात्तन्नमत्तं द्वन्द्वसंयुतः ॥ २७ ॥

एवं तस्य वचः श्रुत्वा तं प्रणम्य पुनर्मुनिम् ।
अपृच्छं योगदं मार्गं विनयेन समन्वितः ॥ २८ ॥

केन मार्गेण योगज्ञ लभे योगं महामुने ।
तं वदस्व करिष्यामि त्वच्छिष्योऽहं विधानतः ॥ २९ ॥

लोमश उवाच ।

पुराऽहं कर्मयोगेन मूकस्तपःसमन्वितः ।
प्रणम्य भक्त्या ब्रह्माणमपृच्छं सर्वदं वद ॥ ३० ॥

ततस्तेन समाख्यातं सर्वसारं सुशान्तिदम् ।
गाणेशं सर्वमान्यं तत् पुराणं संश्रुतं मया ॥ ३१ ॥

श्रवणस्य च माहात्म्याद्वाणीयुक्तोऽभवं पुरा ।
ततो हर्षसमायुक्तो मुने विधिं नतो विभुम् ॥ ३२ ॥

ततः स्वमाश्रमं गत्वा गणेशकथितं परम् ।
गीताज्ञानं समाराध्य योगिवन्द्योऽभवं मुदा ॥ ३३ ॥

ततो गणेश्वरं स्थाप्य स्वाश्रमे तं विधानतः ।
पूज्य ध्यानपरो भूत्वा तोषयामि स्म विघ्नपम् ॥ ३४ ॥

[[८३]]

एकाक्षरजपासक्तं मां ज्ञात्वा गणनायकः ।
शतवर्षैः प्रसन्नोऽभूदाययौ वरदः प्रभुः ॥ ३५ ॥

तमागतं समालोक्योत्थाय नत्वा गजाननम् ।
पूज्य नानाविधैः स्तोत्रैः स्तुतोऽसौ मामुवाच ह ॥ ३६ ॥

श्रीगणेश उवाच ।

वरं वृणु महाभागेप्सितं मनसि लोमश ।
दास्यामि तपसा तुष्टो भक्त्या ते मुनिसत्तम ॥ ३७ ॥

लोमश उवाच ।

गाणपत्यं कुरुष्व त्वं मां ते भक्तिसमन्वितम् ।
नान्यं याचे वरं नाथ मिथ्या मायाभ्रमात्मकम् ॥ ३८ ॥

आयुष्यं विपुलं देहि तेन युक्तो निरन्तरम् ।
भजिष्यामि गणेशान चरणं ते तदर्थतः ॥ ३९ ॥

ततो मामब्रवीद्देवो गणेशो भक्तवत्सलः ।
गाणपत्यप्रियोऽत्यन्तं भविष्यसि स्वयं मुदा ॥ ४० ॥

कल्पे कल्पे च ते रोम लयं गच्छति नित्यदा ।
एवं क्रमेण सर्वाणि यान्ति लोमानि नाशकम् ॥ ४१ ॥

तदा देहं परित्यज्य मल्लोके आगमिष्यसि ।
तत्र मां भक्तिभावेन भजिष्यसि न संशयः ॥ ४२ ॥

यद्यदिच्छसि योगीश तत्तत्ते सफलं सदा ।
भविष्यति स्मृतः कार्ये प्रकटोऽहं भवामि ते ॥ ४३ ॥

एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
खिन्नोऽहं तं समास्थाप्य नित्यपूजापरायणः ॥ ४४ ॥

ततो बहौ गते काले मुने मन्वन्तरात्मके ।
मघवाऽन्यः समुत्पन्नस्त्रिलोकीराज्यकारकः ॥ ४५ ॥

विश्वकर्माणमाहूय जगाद मघवा वचः ।
गृहं मे कुरु शोभाढ्यं नानाऽऽश्चर्ययुतं परम् ॥ ४६ ॥

वाटिकादिकमेवं मे भोगार्थं रचयस्व च ।
तथेति विश्वकर्माऽसौ चकार दुःखसंयुतः ॥ ४७ ॥

तथापि मघवा शान्तो न बभूव महामुने ।
तेनाश्चर्ययुतोनित्यमिदं कुरु महामते ॥ ४८ ॥

विश्वकर्मा ततः खिन्नः सस्मार गणनायकम् ।
इन्द्रं त्यक्त्वाऽन्यदेवानां गृहार्थं व्याकुलोऽभवत् ॥ ४९ ॥

कदाऽयं गृहकार्यं तु गजाननः समाप्य माम् ।
मोचयिष्यति देवेशोऽन्यदेवकार्यसिद्धये ॥ ५० ॥

ततोऽहं दैवयोगेनागमं देवेन्द्रसत्तमम् ।
मघवा पूज्य मां वाक्यं जगाद हर्षसंयुतः ॥ ५१ ॥

इन्द्र उवाच ।

धन्यं मे जन्मकर्मादि त्वत्पादयुगदर्शनात् ।
किं पत्रं मस्तके विप्र पलाशस्य धृतं वद ॥ ५२ ॥

लोमश उवाच ।

देहो नश्वररूपोऽयं पतिष्यति न संशयः ।
तदर्थं गृहसम्भूतं श्रमं कः प्रसमाचरेत् ॥ ५३ ॥

वृष्टिसंवारणार्थायोष्णभावार्थनिवारणात् ।
पत्रं गृहस्वरूपं तु पुरन्दर धृतं मया ॥ ५४ ॥

एवं मद्गिरमाकर्ण्य मामुवाच पुरन्दरः ।
कल्पे लोम्नः प्रणाशस्ते भवेत्ते नैव लोमशः ॥ ५५ ॥

आज्ञां कुरु महाभाग त्वदर्थं गृहमुत्तमम् ।
कारयिष्यामि विप्रेश तत्र नित्यं सुखी भव ॥ ५६ ॥

वयं चतुर्दश प्राज्ञाऽभवन् त्वल्लोमनाशके ।
तदपि त्वं किमर्थं तं देहं वदसि नश्वरम् ॥ ५७ ॥

श्रुत्वाऽहं मघवन्तं तमवदं हर्षसंयुतः ।
इन्द्र किं मां त्वं वदसि भ्रान्तिदं योगनाशनम् ॥ ५८ ॥

नष्टं देहं समालोक्य कः श्राम्येत्तत्र पण्डितः ।
योगामृतेन सन्तुष्टोऽहं भ्रमामि यदृच्छया ॥ ५९ ॥

पिपीलिका भवच्चेन्द्रो नरः सुद्युम्नसञ्ज्ञितः ।
पूर्वसंस्कारयोगेनाश्वमेधशतकारकाः ॥ ६० ॥

[[८७]]

स त्वं यज्ञफलं भोक्तुं जातोऽसि मघवाऽधना ।
पतिष्यसि पुनर्देव तत्र का ते गतिर्भवेत् ॥ ६१ ॥

एवमुक्त्वा महायोगी लोमशः स्वप्रभावतः ।
ददौ जातिस्मरत्वं तु मघवते महायशाः ॥ ६२ ॥

मघवा सर्वमालोक्य त्रासयुक्तो बभूव ह ।
प्रणम्य लोमशं सोऽपि पप्रच्छ हितकारकम् ॥ ६३ ॥

इन्द्र उवाच ।

जन्ममृत्युहरं तात वद योगं परात् परम् ।
येन कामादिकं सर्वं नाशं गच्छति तत्क्षणात् ॥ ६४ ॥

लोमश उवाच ।

गणेशं भज भावेन ततो योगमवाप्स्यसि ।
ब्रह्मणां ब्रह्मरूपोऽयं सदा शान्तिपरायणः ॥ ६५ ॥

इन्द्र उवाच ।

नामरूपधरं देवं वदसे किं गणेश्वरम् ।
योगाकारं महाभाग वद तस्य महो महत् ॥ ६६ ॥

लोमश उवाच ।

योगरूपो गणेशोऽयं योगप्राप्त्यर्थमादरात् ।
नामरूपधरो जातो भक्तानां क्रीडनोत्सुकः ॥ ६७ ॥

सम्प्रज्ञातमयो देहो मस्तकं गजवाचकम् ।
असम्प्रज्ञातरूपं तत्तयोर्योगे गजाननः ॥ ६८ ॥

सिद्धि?र्भ्रान्तिकरी माया बुद्धिर्भ्रान्तिधरा मता ।
ताभ्यां क्रीडति ब्रह्मेशो जगत्सु ब्रह्मसु प्रभो ॥ ६९ ॥

स्वसंवेद्येन योगेन दर्शनं तस्य जायते ।
तेन स्वानन्दवासी स कथितः शास्त्रवादिभिः ॥ ७० ॥

गणाः समूहरूपाश्च बाह्यान्तरादियोगतः ।
ब्रह्माकारो गणेशानस्तेषां स्वामी प्रकीर्तितः ॥ ७१ ॥

एवमुक्त्वा महायोगी लोमशो मन्त्रमादिशत् ।
षडक्षरं गणेशस्येन्द्रार्थं विधिसमन्वितम् ॥ ७२ ॥

इन्द्रः प्रणम्य विप्रेशमुवाच विनयान्वितः ।
वद शीघ्रं गणेशस्य दर्शनं मे कथं भवेत् ॥ ७३ ॥

लोमश उवाच ।

दक्षिणायनरूपा सा रात्रिर्देवी दिवौकसाम् ।
रात्रौ कर्माधिकारो न नराणां भूनिवासिनाम् ॥ ७४ ॥

तज्ज्ञात्वा दुःखसंयुक्ता रात्रिर्ब्रह्माणमावदत् ।
सत्कर्मसंयुतां नाथ मां कुरुष्व पितामह ॥ ७५ ॥

ततो ब्रह्मा ददौ तस्यै मन्त्रं षोडशवर्णकम् ।
गणेशस्य ययौ सा तं प्रणम्य वनमुत्तमम् ॥ ७६ ॥

ध्यात्वा हृदि गणाधीशं तताप तप उत्तमम् ।
आषाढ्यां पूर्णिमायां सा समारेभे ततः परम् ॥ ७७ ॥

कार्तिक्यां पूर्णिमायां तां प्रसन्नोऽभूद्गजाननः ।
आययौ वरदानार्थं रात्रिं भक्तिनियन्त्रितः ॥ ७८ ॥

समागतं गणाध्यक्षं सा विलोक्य ननाम तम् ।
तुष्टाव विविधैः स्तोत्रैर्भक्तिनम्रात्मकन्धरा ॥ ७९ ॥

ततः प्रसन्नतां यातो गणेशस्तामुवाच ह ।
वरान् वरय रात्रे त्वं दास्यामि हृदि ते स्थितान् ॥ ८० ॥

रात्रिरुवाच ।
भक्तिं ते चरणे नाथ देहि मेऽनन्यधर्मिणीम् ।
सत्कर्मसंयुतां मां त्वं कुरुष्व रात्र्यपि प्रभो ॥ ८१ ॥

तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः ।
भक्तिर्मदीयपादे ते भविष्यति महामते ॥ ८२ ॥

आषाढी पूर्णिमाद्यं च कार्तिकी पूर्णिमान्तगम् ।
चातुर्मास्यं सिद्धिदं च भविष्यति सुधर्मिणाम् ॥ ८३ ॥

गाणेशपञ्चकं सेव्यं चातुर्मास्ये त्वदीयिके ।
सर्वसिद्धिसमायुक्ता भविष्यसि न संशयः ॥ ८४ ॥

[[८८]]

षण्मासेषु महाभागे भव सत्कर्मसंयुता ।
नाना देवप्रियाऽत्यन्तं सत्कर्मणः प्रतापतः ॥ ८५ ॥

विवाहादिकमेवं ते समयेन भविष्यति ।
अन्यन्नानाविधं कर्म देवतोषं तथाऽस्तु च ॥ ८६ ॥

चातुर्मास्यव्रतेनैव मां नराः पर्युपासते ।
सांवत्सरभवं पुण्यं लभन्ते पूर्णभावतः ॥ ८७ ॥

एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो भक्तवत्सलः ।
रात्रिस्तं प्रणिपत्यैव हर्षयुक्ताऽभवत् सदा ॥ ८८ ॥

अतस्त्वं देवराजेन्द्र चातुर्मास्यव्रतं कुरु ।
योगयुक्तो महाभागो भविष्यसि न संशयः ॥ ८९ ॥

एवमुक्त्वा महेन्द्रं तं पूजितस्तेन चागमम् ।
स्वस्याश्रमं गणेशानमभजं मुनिसत्तम ॥ ९० ॥

इन्द्रस्ततः समाहूय विश्वकर्माणमादरात् ।
जगाद तं महाभागं गच्छ त्वं स्वगृहं सुर ॥ ९१ ॥

विश्वकर्मा ययौ स्थानं स्वकीयं हर्षसंयुतः ।
अभजद्गणनाथं स विस्मितः सन् महामतिः ॥ ९२ ॥

इन्द्रो राज्यं विनिक्षिप्य देवेषु वनगोऽभवत् ।
ध्यात्वा हृदि गणेशानमजपन् मन्त्रमुत्तमम् ॥ ९३ ॥

चातुर्मास्यव्रतं चक्रे गाणेशे पञ्चके रतः ।
तेन व्रतप्रभावेण योगयुक्तो बभूव ह ॥ ९४ ॥

चित्तमोहं परित्यज्य स चिन्तामणितन्मयः ।
भूत्वा स्वगृहमागत्य चकार राज्यमुत्तमम् ॥ ९५ ॥

निःस्पृहः सर्वभोगेषु सदा विघ्नेशतत्परः ।
बभूव राज्यसंस्थोऽपि महेन्द्रः परमार्थवित् ॥ ९६ ॥

नित्यव्रतं चकारासौ महेन्द्रो भक्तिसंयुतः ।
चातुर्मास्यभवं विप्र सर्वसिद्धिप्रदायकम् ॥ ९७ ॥

भुक्त्वा मन्वन्तरस्थं स्वराज्यं निहतकण्टकम् ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ॥ ९८ ॥

जाजलिरुवाच ।
देवाः कर्मफलं भुक्त्वा पतन्ति भूमिमण्डले ।
स्वर्गेषु यत् कृतं कर्म फलहीनं मतं बुधैः ॥ ९९ ॥

इन्द्रः कथं महाभाग चातुर्मास्यव्रतोद्भवम् ।
फलं प्राप्य गणेशानं ययावन्ते वद प्रभो ॥ १०० ॥

लोमश उवाच ।

त्वयोक्तं जाजले वाक्यं तदेव सर्वसम्मतम् ।
स्वर्गभूमौ कृतं कर्म निष्फलं जायते सदा ॥ १०१ ॥

पृथिव्यां भारते खण्डे समागत्य महामुने ।
देवाः कुर्वन्ति कर्माणि तानि सत्फलकानि तु ॥ १०२ ॥

कर्मभूमौ कृतं कर्म देवैर्वा दानवैर्नरैः ।
जन्तुभिर्विविधैः सर्वैः सफलं सम्भवेत् सदा ॥ १०३ ॥

अतो व्रतं मुख्यतमं कुरु विघ्नेशतत्परः ।
चातुर्मास्यभवं चित्रं गाणेशपञ्चके रतः ॥ १०४ ॥

गणेशकृपया सर्वं ज्ञास्यसि नात्र संशयः ।
अन्ते तल्लीनतां विप्र गमिष्यसि विशेषतः ॥ १०५ ॥

जाजलिस्तं प्रणम्याऽऽददौ लोमशं गुरुमुख्यकम् ।
जगाम स्वाश्रमं त्यक्त्वा बल्लालेशं महामतिः ॥ १०६ ॥

तत्र गत्वा व्रतं मुख्यं चकार भक्तिसंयुतः ।
चातुर्मास्ये यथाशास्त्रयुक्तं पयः प्रभक्षयन् ॥ १०७ ॥

समाप्ते तद्व्रते सद्यः प्रसन्नो गणनायकः ।
आययौ जाजलिं विप्रं वरदो भक्तवत्सलः ॥ १०८ ॥

तमागतं समालोक्य जाजलिः प्रणनाम ह ।
पूज्य नम्य प्रतुष्टाव कृत्वा करपुटं प्रभुम् ॥ १०९ ॥

जाजलिरुवाच ।
नमस्ते ब्रह्मनाथाय बल्लालेशस्वरूपिणे ।
बल्लालवरदात्रे ते गणेशाय नमो नमः ॥ ११० ॥

[[८९]]

विघ्नेशाय महाविघ्ननाशनाय परात्मने ।
भक्तानां भक्तनाथायाभक्तानां विघ्नकारिणे ॥ १११ ॥

परात्परतरायैव सगुणाय चतुर्भुज ।
निर्गुणाय तयोर्योगे हेरम्बाय नमो नमः ॥ ११२ ॥

वक्रतुण्डाय देवायैकदन्ताय महोदर ।
लम्बोदराय सर्वेषां मात्रे पित्रे नमो नमः ॥ ११३ ॥

स्वानन्दवासिने तुभ्यं सदा स्वानन्दभोगिने ।
नानामायाप्रचालाय मायिकाय नमो नमः ॥ ११४ ॥

सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय ते ।
अमेयशक्तये चैव शक्तिहीनाय ते नमः ॥ ११५ ॥

देवाय दानवायैव देवदानवमर्दिने ।
सर्वाकाराय सर्वेभ्यो हीनाय ते नमो नमः ॥ ११६ ॥

योगानां योगनाथाय शान्तीनां शान्तिरूपिणे ।
ब्रह्मणां पतये तुभ्यं चिन्तामणे नमो नमः ॥ ११७ ॥

किं स्तौमि त्वां गणाध्यक्ष यत्र वेदा विसिस्मिरे ।
धन्योऽहं सर्वभावैः पश्यामि त्वां योगरूपिणम् ॥ ११८ ॥

एवमुक्त्वा गणेशानं ननाम भक्तिभावतः ।
तमुत्थाप्य गणेशानो जगाद भक्तवत्सलः ॥ ११९ ॥

श्रीगणेश उवाच ।

त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
पठतां शृण्वतां विप्र मयि भक्तिविवर्धनम् ॥ १२० ॥

वरान् ब्रूहि महाभाग दास्यामि मनसीप्सितान् ।
तपसा भक्तिभावेन तुष्टो व्रतेन निश्चितम् ॥ १२१ ॥

जाजलिरुवाच ।
तव भक्तिं स्थिरां देहि गाणपत्यपदप्रदाम् ।
योगशान्तिकरीं नाथ नान्यं याचे गजानन ॥ १२२ ॥

ओमित्युक्त्वा गणाधीशोऽन्तर्दधे मुनिसत्तम ।
जाजलिस्तं प्रणम्यैव हर्षयुक्तो बभूव ह ॥ १२३ ॥

एवं व्रतस्य माहात्म्यं विभाण्ड कथितं मया ।
येनाहं योगिनां वन्द्योऽभवं योगपरायणः ॥ १२४ ॥

तदादि वार्षिकं विप्र चातुर्मास्यभवं व्रतम् ।
करोमि गणपप्रीत्यै बल्लालेशं समाश्रितः ॥ १२५ ॥

त्वमप्येतादृशं विप्र व्रतं कुरु महाद्भुतम् ।
चातुर्मास्ये महायोगिवन्द्यः सद्यो भविष्यसि ॥ १२६ ॥

एवमुक्त्वा ददौ तस्मै मन्त्रमष्टाक्षरं मुनिः ।
सविधिं गणराजस्य विभाण्डाय महात्मने ॥ १२७ ॥

।।ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते चातुर्मास्यमाहात्म्ये विभाण्डव्रतोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥

[[३८]]