॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
प्रसङ्गात् सर्वमासानां कथयामि चरित्रकम् ।
गणेशभक्तिदं चित्रं शृणुध्वं मुनयः परम् ॥ १ ॥
प्रातः स्नानं विधायैव गाणेशे पञ्चके रतः ।
नित्यं द्वादशमासेषु स सर्वार्थमवाप्नुयात् ॥ २ ॥
असाध्यं साधयेन् मर्त्यः परं यद्यपि दुर्लभम् ।
लभेत् द्वादशमासेषु गणेशे पञ्चके रतः ॥ ३ ॥
अत्र ते कथयिष्यामीतिहासं पूर्वसम्भवम् ।
श्रवणात् पठनात् नॄणां पावनं सर्वसिद्धिदम् ॥ ४ ॥
नलो नाम महाराजो निषधेषु बभूव ह ।
धर्मशीलो वदान्यश्च स्वधर्मनिरतः सदा ॥ ५ ॥
दमयन्त्या युतः सोऽपि विचारमकरोत् हृदि ।
त्रिलोकगमने शक्तो भविष्यामि कथं नरः ॥ ६ ॥
नरदेहधरो यस्तु स्वेच्छागतियुतो भवेत् ।
तदा तस्य यशो धन्यमिह सर्वातिगं भवेत् ॥ ७ ॥
[[८३]]
एवं विचार्य विप्रेशं गौतमं स ययौ नृपः ।
प्रणम्य तं महाभागं पप्रच्छ स्वहितावहम् ॥ ८ ॥
नल उवाच ।
नरदेहधरः स्वामिंस्त्रिलोकगः कथं भवेत् ।
तन्मे कथय तत्त्वज्ञ करिष्यामि यथातथम् ॥ ९ ॥
गौतम उवाच ।
श्रावणे तु प्रतिपदि शुद्धपक्षं महानृप ।
प्रातः स्नात्वा स्वशाखोक्तं कर्म नित्यात्मकं चरेत् ॥ १० ॥
ततो गाणेशकं राजन् पञ्चकं भक्तिसंयुतः ।
नियमेन समापूज्य व्रतयुक्तो भवेन्नरः ॥ ११ ॥
आषाढीं स समासाद्यामावास्यां गणपे रतः ।
मण्डपे गणनाथं च पूजयेद्धेमनिर्मितम् ॥ १२ ॥
द्वादश ब्राह्मणांस्तत्र वरयेद्वेदपारगान् ।
होमं कुर्यात् दशांशेन जपस्यैतैर्महामते ॥ १३ ॥
वायनं ब्राह्मणायैव प्रदद्यात् स बलिं चरेत् ।
ततः पूर्णाहुतिं कृत्वा भोजयेत्तांस्तु पायसैः ॥ १४ ॥
प्रतिपदि पुनः पूज्य गणेशं सर्वसिद्धिदम् ।
सुवासिनीभिः संयुक्तान् द्विजान् स्त्रीभिस्तु भोजयेत् ॥ १५ ॥
एकविंशतिसङ्ख्याकानथवा सङ्ख्ययातिगान् ।
दक्षिणां विपुलां दत्वा तोषयेत्तान् विशेषतः ॥ १६ ॥
योषिद्भ्यः कञ्चुकादींश्च नानालङ्कारकांस्तथा ।
प्रदद्याऽऽन्नम्य स सर्वान् गृह्याशिषं विसर्जयेत् ॥ १७ ॥
सोपस्कारं गणाध्यक्षं प्रदद्यात् गुरवे परम् ।
अन्येभ्यः शक्तिप्रायाण्यादद्याद्दानानि हर्षतः ॥ १८ ॥
एवं कुरु महीपाल ज्ञानयुक्तो भविष्यसि ।
त्रिलोकस्तथा सर्वं लभसे मनसीप्सितम् ॥ १९ ॥
एवमुक्त्वा महायोगी गौतमो विरराम ह ।
नलस्तं प्रणिपत्यैव स्वगृहं प्रययौ पुरा ॥ २० ॥
चकार सर्वधर्मज्ञो नलो गणपतौ रतः ।
यथाविधि व्रतं मुख्यं संवत्सरप्रमाणकम् ॥ २१ ॥
ततः स योगिवन्द्यश्च बभूव ज्ञानसंयुतः ।
त्रिलोक्यां गमने शक्तो भूपालो नरदेहगः ॥ २२ ॥
एवं नाना जना विप्र व्रतं संवत्सरात्मकम् ।
चक्रुस्ते योगिवन्द्याश्च बभूवुर्ज्ञानसंयुताः ॥ २३ ॥
मनेप्सितां प्रलभ्यैव दुर्लभां सिद्धिमुत्तमाम् ।
अन्ते स्वानन्दगाः सर्वे ब्रह्मभूता बभूविरे ॥ २४ ॥
तेषां चरित्रकं सर्वं मया वक्तुं न शक्यते ।
अनन्तत्वात् महाभाग सङ्क्षेपेण निरूपितम् ॥ २५ ॥
गाणेशपञ्चकस्यैव सेवने न समर्थकाः ।
किञ्चिन्नियमसंयुक्ता व्रतं चक्रुः परे नराः ॥ २६ ॥
तेऽपि सिद्धिं समासाद्य मनेप्सितां मुदा युताः ।
अन्ते गणपलोके तु गत्वा ब्रह्म प्रलेभिरे ॥ २७ ॥
शूद्रः कश्चिद् बृहत्कर्मा नाम्ना वन्ध्यो बभूव ह ।
पुत्रार्थं प्रयतो भूत्वा नानाकर्मपरोऽभवत् ॥ २८ ॥
न लेभे सन्ततिं सोऽपि ततोऽतिदुःखसंयुतः ।
प्रजगाम वनं घोरं तत्र विप्रान् ददर्श ह ॥ २९ ॥
तान् प्रणम्य महाभागानपृच्छत् पुत्रदायकम् ।
उपायं ते समाचख्युर्व्रतं संवत्सरात्मकम् ॥ ३० ॥
श्रुत्वा विधियुतं पूर्णं व्रतं गाणेश्वरं परम् ।
प्रणम्य तान् समायातः स्वगृहं हर्षसंयुतः ॥ ३१ ॥
गाणेशपञ्चकं पूर्णं सेवितुं न बभूव ह ।
समर्थः स ततो विप्र चकार स्वल्पभावतः ॥ ३२ ॥
स्नात्वा गणपतेः पूजां चकार पार्थिवीं पराम् ।
नाममन्त्रैः स्वयं नित्यं ब्रह्मचर्ययुतोऽभवत् ॥ ३३ ॥
एकभुङ् नियमे संस्थश्चकार व्रतमुत्तमम् ।
समाप्य तद्व्रतं पूर्णं गणेशमभजन्मुदा ॥ ३४ ॥
द्विजातीनां स शुश्रूषां चकार धर्मसंयुतः ।
मिलितेन तदन्नेन कुटुम्बं समपोषयत् ॥ ३५ ॥
ततः स्वल्पेन कालेन पुत्रं लेभे महामुने ।
ज्ञानयुक्तं सरूपं तं दृष्ट्वाऽतिहर्षितोऽभवत् ॥ ३६ ॥
क्रमेण पञ्च पुत्राश्च पुत्र्यस्तिस्रो बभूविरे ।
शूद्रस्य स गणेशानं मन्यते स्म समर्थकम् ॥ ३७ ॥
अन्ते स्वानन्दलोकं स जगाम भार्यया युतः ।
इह भुक्त्वाऽखिलान् भोगान् ब्रह्मभूतो बभूव ह ॥ ३८ ॥
एवं नाना जना विप्र किञ्चित् कृत्वा व्रतात्मकम् ।
नियमं सिद्धिसंयुक्ता बभूवुः कति ते ब्रुवे ॥ ३९ ॥
उद्यापनं मया प्रोक्तं तदेव सर्वसम्मतम् ।
सर्वमासेषु कर्तव्यं मासात्मकव्रतेऽपि च ॥ ४० ॥
चातुर्मास्यव्रते विप्र उद्यापनमिदं स्मृतम् ।
मलमासव्रते तद्वदिदं कर्तव्यमादरात् ॥ ४१ ॥
सांवत्सरं व्रतं मुख्यं कथितं ते समासतः ।
पठनाच्छ्रवणाच्चेदं सर्वदं प्रभविष्यति ॥ ४२ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते संवत्सरव्रतमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥