॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
धौम्यो जजाप मन्त्रं तं ध्यात्वा हृदि गजाननम् ।
क्रमेण योगभूमिस्थः शमदमपरोऽभवत् ॥ १ ॥
ततः समागतं वीक्ष्य मलमासं विशेषतः ।
अज्ञानमलनाशार्थं चकार तद्भवं व्रतम् ॥ २ ॥
उषः स्नात्वा विधानेन गाणेशे पञ्चके रतः ।
सदा गणपतिं धौम्यः सस्मार शुद्धचेतसा ॥ ३ ॥
आगतं गणराजं तं ततो भक्तो मुनीश्वर ।
अमायां स समालोक्य हर्षितोऽभून् महामुनिः ॥ ४ ॥
उत्थाय तं प्रणम्याऽऽदौ पुपूज भक्तिसंयुतः ।
पुनः प्रणम्य विघ्नेशं तुष्टाव कृतसम्पुटः ॥ ५ ॥
धौम्य उवाच ।
नमाम्यहं गणेशानं सर्वसिद्धिप्रदायिनम् ।
भक्तानां भवयुक्तानामन्येषां विपरीतगम् ॥ ६ ॥
धन्योऽहं सर्वभावेष्वधुना दृष्ट्वा गजाननम् ।
किं स्तौमि त्वां महाभाग योगेशं योगरूपिणम् ॥ ७ ॥
तव दर्शनमात्रेण ज्ञानयुक्तो वदाम्यहम् ।
स्तोत्रं ते प्रीतिदं पूर्णं शृणु सर्वज्ञसत्तम ॥ ८ ॥
गणेशाय नमस्तुभ्यं योगशान्तिप्रदायिने ।
शान्तीनां शान्तिरूपाय हेरम्बाय नमो नमः ॥ ९ ॥
अनामयाय ज्येष्ठाय ज्येष्ठपदप्रदायिने ।
ज्येष्ठानां ज्येष्ठरूपाय विघ्नेशाय नमो नमः ॥ १० ॥
नामरूपात्मकेष्वेव शक्तिरूपाय ते नमः ।
आत्मसु रवये तुभ्यं समेषु विष्णवे नमः ॥ ११ ॥
अव्यक्तेषु महेशाय संयोगेषु निजात्मने ।
निवृत्तिषु ह्ययोगाय कलांशेन नमो नमः ॥ १२ ॥
योगेषु शान्तिरूपाय ब्रह्मणस्पतये नमः ।
आदिमध्यान्तभेदैस्तु खेलकाय नमो नमः ॥ १३ ॥
नानामायाप्रचालाय सिद्धिबुद्धिपते नमः ।
स्वानन्दवासिने तुभ्यं भक्तरक्षणतत्पर ॥ १४ ॥
किं स्तौमि त्वां गणाधीश वेदा योगिन एव च ।
न समर्था अतो नाथ प्रणमामि गजाननम् ॥ १५ ॥
एवमुक्त्वा गणाधीशं पपाताऽसौ धरातले ।
दण्डवद्गणनाथस्य पादौ गृह्य महामुनिः ॥ १६ ॥
तमुत्थाप्य स्वयं प्राह गणेशो ब्रह्मणां पतिः ।
वरान् वरय धौम्य त्वं दास्यामि स्तोत्रतोषितः ॥ १७ ॥
स्तोत्रं त्वया कृतं मे यत् पठते शृण्वते सदा ।
सर्वसिद्धिप्रदं चास्तु नानाभावार्थदायकम् ॥ १८ ॥
योगशान्तिप्रदं पूर्णं मयि भक्तिविवर्धनम् ।
यं यमिच्छति तं तं वै दास्यामि स्तोत्रतोषितः ॥ १९ ॥
सूत उवाच ।
गणेशवचनं श्रुत्वा धौम्यो हर्षसमायुतः ।
तं जगाद गणाधीशं भक्तेशं भक्तवत्सलम् ॥ २० ॥
धौम्य उवाच ।
प्रसन्नोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् ।
देहि मे योगशान्तिं तु यत्र त्वं मोदसे सदा ॥ २१ ॥
तथेति गणनाथस्तमुक्त्वा चान्तर्हितोऽभवत् ।
धौम्यः खिन्न इवात्यन्तं तत्रैव संस्थितोऽभवत् ॥ २२ ॥
तत्र संस्थापयामास ब्राह्मणैर्मन्त्रकोविदैः ।
गणेशं तं सदा ध्यात्वा पूज्य भक्तिं चकार ह ॥ २३ ॥
शौनक उवाच ।
अकर्मकारिणः प्रोक्ता सात्त्विकाः शास्त्रसम्मतम् ।
कर्मकर्तार एवं तु राजसाः परिकीर्तिताः ॥ २४ ॥
विकर्मकारिणः सर्वे तामसाः सूत निश्चितम् ।
त्रिधा भेदयुताः सर्वे भवन्ति भुवि मानवाः ॥ २५ ॥
[[८१]]
ब्रह्मार्पणतया मुक्तिं गच्छन्ति द्विज सात्त्विकाः ।
सकामाद्राजसा जन्ममृत्युयुक्ता भ्रमन्ति ते ॥ २६ ॥
तामसा नरकेष्वेव शिश्नोदरपराः किल ।
गच्छन्ति त्रिगुणे भावे संस्था जनास्त्रिधा गतिम् ॥ २७ ॥
तत्र तामसभावाख्यः शङ्करः परिकीर्तितः ।
तं भजन्ति महाभागाश्चतुर्वर्गफलार्थिनः ॥ २८ ॥
तामसस्य तु ये भक्ता नारकाः सम्मताः पुरा ।
शिवभक्ताः कथं सर्वे भवन्ति ब्रह्मभूतकाः ॥ २९ ॥
सूत उवाच ।
सम्यक् पृष्टं त्वया विप्र सर्वेषामुपकारकम् ।
कथयामि यथा व्यासाच्छ्रुतं सर्वज्ञसत्तमात् ॥ ३० ॥
तम अज्ञानरूपं यत् सौषुप्तं शास्त्रसम्मतम् ।
अज्ञानात् द्विविधं सर्वं समुत्पन्नं विचारय ॥ ३१ ॥
सात्त्विकमान्तरं स्वाप्नं जागृद्बाह्यं तु राजसम् ।
तयोर्मूलस्वरूपत्वात्तामसः शङ्करः स्मृतः ॥ ३२ ॥
तत्राधिकारकं वक्ष्ये त्रिगुणरूपधारिणाम् ।
क्षणे क्षणे रजः संस्था ह्यवस्था विविधात्मिकाः ॥ ३३ ॥
सृजति सात्त्विकस्तद्वदवस्थाः पालको मतः ।
तामसस्ताः समाहृत्य लीनाः करोति सर्वदा ॥ ३४ ॥
अतः सर्वमिदं विप्र त्रिभिर्व्याप्तं समन्ततः ।
गर्भाधानादिप्रारभ्य मरणान्तं सुशोभते ॥ ३५ ॥
कर्माकर्मविकर्माणि त्रिगुणैः संयुतानि च ।
कर्मयोगस्य विप्रेश गुणा इमे प्रकीर्तिताः ॥ ३६ ॥
न तत्र शम्भुमुख्यास्ते सुरा ग्राह्या बुधैः कदा ।
अतः शङ्करभक्ताश्च लभन्ते सर्वमञ्जसा ॥ ३७ ॥
अधुना शृणु माहात्म्यं मलमासभवं परम् ।
वैश्यः कश्चिच्छमो नाम बभूवे मालवे मुने ॥ ३८ ॥
स श्रुत्वा मलमासस्य माहात्म्यं मलनाशनम् ।
गणेशभक्तिसंयुक्तश्चकार व्रतमुत्तमम् ॥ ३९ ॥
मलमासं समासाद्य स्नात्वा प्रातर्गणाधिपम् ।
सस्मार स्मरणेनैव ततः कार्यपरोऽभवत् ॥ ४० ॥
एकदा मार्गसंस्थं च वैश्यं निद्रायुतं निशि ।
तत्र तं भक्षितुं प्रेता दश याता महाबलाः ॥ ४१ ॥
तस्मिन् काले शमो दैवादभूज्जागृन् महामुने ।
ददर्श तान् महाप्रेतान् सस्मार गणनायकम् ॥ ४२ ॥
जगाद स्वान्तरे सोऽपि गणेश करुणानिधे ।
रक्ष मां प्रेत?पेभ्यस्त्वं त्वत्पादे भक्तिसंयुतम् ॥ ४३ ॥
मलमासस्य देवेश दिवसाः सप्त एव च ।
उर्वरिता व्रतं मेऽत्र भग्नं नोचेद्भविष्यति ॥ ४४ ॥
समाप्ते मलमासे मां मारयस्व गजानन ।
नाधुना व्रतसंस्थं तु रक्ष रक्ष दयानिधे ॥ ४५ ॥
मलमासव्रते संस्थं दृष्ट्वा प्रेता भयातुराः ।
जातिस्मरा बभूवुस्ते रुरुदुस्तं प्रणम्य वै ॥ ४६ ॥
ततः स विस्मितो भूत्वा तान् पप्रच्छ महाबलान् ।
किमर्थं दुःखसंयुक्ता भवन्तो मां ब्रुवन्तु च ॥ ४७ ॥
प्रेता ऊचुः ।
पूर्वजन्मनि भो वैश्य वयं ब्राह्मणसम्भवाः ।
अनाचाररताः सर्वे मृता यमगृहे गताः ॥ ४८ ॥
तत्र नानाविधां पूर्णां यातनां दुःखदां पराम् ।
भुक्त्वा प्रेताः कृतास्तेन यमेन साधुसत्तम ॥ ४९ ॥
अत्र शीतोष्णकाद्येषु नाना द्वन्द्वेषु सर्वदा ।
पतिता दुःखसंयुक्ता भ्रमामो यत्र तत्र ह ॥ ५० ॥
[[८२]]
अधुना दैवयोगेन भक्षितुं त्वां समागताः ।
त्वद्दर्शनजपुण्येन जातिस्मरा भवामहे ॥ ५१ ॥
मलमासव्रतस्थस्त्वं तारयास्मान् दयानिधे ।
गणेशस्मृतिसंयुक्तः स्नानं करोषि नित्यदा ॥ ५२ ॥
एकस्नानभवं पुण्यं देहि वैश्य वयं तदा ।
अस्मभ्यं तेन निःपापा गमिष्यामोऽपुनर्भवम् ॥ ५३ ॥
प्रेतानां वचनं श्रुत्वा हर्षयुक्तः शमोऽब्रवीत् ।
प्रेतान् दुःखयुतान् वीक्ष्य दयायुक्तः स्वभावतः ॥ ५४ ॥
शम उवाच ।
किं मया क्रियते प्रेता मलमासभवं व्रतम् ।
स्नानमात्रं कृतं नित्यं गणेशस्मृतिसंयुतम् ॥ ५५ ॥
गणेशस्मरणस्यैव महिमा केन गण्यते ।
पुराणेषु श्रुतं तस्मात् वचः शृणुत मे हितम् ॥ ५६ ॥
एकनामस्मृतेः पुण्यं ददामि स्नानसम्भवम् ।
तेन बन्धनहीनाश्च भविष्यथ न संशयः ॥ ५७ ॥
एवमुक्त्वा ददौ तेभ्य एकस्नानभवं फलम् ।
मलमासे गणेशस्य स्मृतियुक्तं महामुने ॥ ५८ ॥
ततस्तत्र समायाता गाणेशा यानसंयुताः ।
प्रेतान् गृह्य ययुः सर्वे स्वानन्दं गणपे रताः ॥ ५९ ॥
तत्र लम्बोदरं दृष्ट्वा ब्रह्मभूता बभूविरे ।
प्रेताः पश्य महाश्चर्यं शौनक मलमासगम् ॥ ६० ॥
एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः ।
ढौण्ढे मासे कति ब्रूयां सङ्ख्यातुं न क्षमो ह्यहम् ॥ ६१ ॥
सङ्क्षेपेण मया तुभ्यं कथितं चरितं शुभम् ।
मलमासभवं चित्रं श्रवणात् सर्वदायकम् ॥ ६२ ॥
यः पठेच्छ्रावयेद्वाऽपि शृणुयात् स लभेत् परम् ।
इह भुक्त्वाऽखिलान् भोगान् स्वजनैः परिवारितः ॥ ६३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते मलमासमाहात्म्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥