॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
मलमासभवं चित्रं चरित्रं कथयाम्यहम् ।
सङ्क्षेपेण मुनिश्रेष्ठ शृणु सर्वार्थदायकम् ॥ १ ॥
कलिकल्मषरूपेण मलेन पीडिताः सुराः ।
शरणं केशवस्यैव ययुर्विप्रेन्द्रमुख्यकैः ॥ २ ॥
स्तुत्वा नानाविधैस्तोत्रैर्विष्णुं धर्मप्रपालकम् ।
घोरं कलिभवं पापं तदर्थमब्रुवन् वचः ॥ ३ ॥
देवर्षय ऊचुः ।
लेशमात्रेण धर्मस्तु संस्थितोऽधर्मसंहतः ।
तेनोपोषणसंयुक्तान् रक्षस्व शरणार्थिनः ॥ ४ ॥
कलिना पापरूपेण जनार्दन जिता वयम् ।
पृथिवीं त्वमपि त्यक्त्वा किं स्थितोऽसि महाप्रभो ॥ ५ ॥
तेषां तद्वचनं श्रुत्वा तानुवाच स्वयं हरिः ।
मेघगम्भीरया वाचा सर्वेषां पालकः प्रभुः ॥ ६ ॥
हरिरुवाच ।
मा भयं देवविप्राद्याः कुरुताहं न संशयः ।
करिष्यामि भवत् कार्यं कलिं जित्वा सुदुर्जयम् ॥ ७ ॥
एवमुक्त्वा महाविष्णुर्देवर्षीन् विससर्ज ह ।
विचारमकरोच्चित्ते दृष्ट्वा घोरं कलेर्बलम् ॥ ८ ॥
कलिमलप्रणाशार्थं समर्थं चिन्त्य माधवः ।
आययौ मयूरक्षेत्रे तपोर्थं गणपे रतः ॥ ९ ॥
मलमासं समासाद्य नानामलनि?कृन्तनम् ।
गाणेशपञ्चकं पूज्यं व्रतं चकार मासजम् ॥ १० ॥
घृतभुक् गणनाथं सोऽसेवयद्यत्नसंयुतः ।
उषःस्नात्वा यथान्यायं चकार ढुण्ढिचिन्तनम् ॥ ११ ॥
ढौण्ढं मासव्रतं कृत्वा परिपूर्णं जनार्दनः ।
पारणं ब्राह्मणैः सार्धं निशि निद्रायुतोऽभवत् ॥ १२ ॥
स्वप्ने ददर्श विघ्नेशं धूम्रवर्णं गजाननम् ।
अश्ववाहं द्विहस्ताभ्यां खड्गचर्मधरं हरिः ॥ १३ ॥
स उवाच महाविष्णुं स्वभक्तं भक्तपालकः ।
मेघगम्भीरनादेन हर्षयन् हर्षवर्धनः ॥ १४ ॥
श्रीगणेश उवाच ।
नानामलप्रणाशार्थं मलमासव्रतं चरेत् ।
तदेव सुकृतं विष्णो त्वया मद्भक्तिकारिणा ॥ १५ ॥
मलमासस्य देवोऽहं ढुण्ढयित्वा विशेषतः ।
हरामि मलसम्भूतं दुःखं पापमयं परम् ॥ १६ ॥
अतस्त्वमीदृशो भूत्वा मां स्मृत्वा हृदि भक्तितः ।
कलिं जेष्यसि देवेश धर्मं संस्थापयिष्यसि ॥ १७ ॥
एवमुक्त्वा गणेशानस्ततोऽंर्धानमाकरोत् ।
प्रबुद्धः केशवोऽत्यन्तं स्मृत्वा हर्षयुतोऽभवत् ॥ १८ ॥
प्रणम्य स मयूरेशं धृत्वा वेषं नराधिकम् ।
अश्वगः श्यामवर्णस्थो बभूव खड्गधारकः ॥ १९ ॥
कल्किर्नाम्ना महाबाहुः स्मृत्वा विघ्नेश्वरं हृदि ।
स्वाङ्गान्नानाविधां सेना कल्प्य दुष्टवधे रतः ॥ २० ॥
नाना जनहृदिस्थः स कलिः प्रयत्नसंयुतः ।
तं जेतुं ययते स्माऽपि हीनवीर्यो बभूव ह ॥ २१ ॥
ततो धर्मयुतांल्लोकांश्चकार स जनार्दनः ।
हत्वा दुष्टान् महाघोरानानाय्य ब्राह्मणोत्तमान् ॥ २२ ॥
एवं कृत्वाऽन्तर्दधेऽसौ स्तुतो देवर्षिभिर्हरिः ।
विकुण्ठमगमत् सद्यो हर्षनिर्भरमानसः ॥ २३ ॥
शौनक उवाच ।
धूम्रवर्णावताराख्यो गणेशः कलिना पुरा ।
युयुधे तं विजित्वा स कलिं कृतमधारयत् ॥ २४ ॥
कल्किर्विष्णुस्तथा दुष्टं कलिं जिग्ये तथाऽधुना ।
वर्णितं तत्र किं मुख्यं द्विविधं संशयप्रदम् ॥ २५ ॥
सूत उवाच ।
महाघोरस्वरूपोऽयं कलिः सृष्टः स्वयम्भुवा ।
पापसेनासमायुक्तो जिग्ये धर्मं क्षणे क्षणे ॥ २६ ॥
तन्नाशार्थं विशेषेण देवा मुनिगणास्तस्था ।
नानावताररूपैस्तं जयन्ति स्म प्रयत्नतः ॥ २७ ॥
गणराजस्य तदपि वरेण मूलवर्जितः ।
कलिर्न जायते विप्र पुनर्वृद्धिं प्रयाति सः ॥ २८ ॥
दशवर्षवयोयुक्ता नारी गर्भवती भवेत् ।
गृहे गृहे तथा त्रिंशत् परमायुर्भवेन्नृणाम् ॥ २९ ॥
वर्णसङ्कररूपाश्च जनाः सर्वे धरातले ।
सार्धैकभागो विश्वस्थो भवेद्धर्मों महामुने ॥ ३० ॥
तदा विष्णुः सुराद्यैः सम्प्रार्थितः कल्किरूपधृक् ।
जित्वा कलिं पुनः सोऽपि धर्मं संस्थापयेत् परम् ॥ ३१ ॥
यदा पञ्च वयो वर्षा नारी गर्भवती भवेत् ।
षोडशाब्दपरं चायुर्मानवानां गृहे गृहे ॥ ३२ ॥
महाघोरं कलिं वीक्ष्य कस्मिन् कल्पे शिवादयः ।
तं जेतुं न समर्थाश्च बभूवुर्विष्णुमुख्यकाः ॥ ३३ ॥
विश्वाधर्मात्र रूपेण धर्मस्तिष्ठेद्धरातले ।
हाहाकाररवैर्युक्ता जनास्तत्र सुदुःखिनः ॥ ३४ ॥
तदा विघ्नेश्वरं सर्वे गच्छन्ति स्म शरण्यकम् ।
धूम्रवर्णो गणाध्यक्षो कलिं जिग्ये सुदुर्जयम् ॥ ३५ ॥
पुनर्धर्मं समास्थाप्य कृतं तथा महामुने ।
एवं कलिबलं दृष्ट्वाऽवतारं कुरुते स्म च ॥ ३६ ॥
एवं मलभवे मासे व्रतं कृत्वा जनार्दनः ।
जिग्ये कलिमलं पूर्णं महापापौघरूपिणम् ॥ ३७ ॥
अन्यच्छृणु महाविप्र माहात्म्यं मलसम्भवम् ।
धौम्यः सौम्यतपोयुक्तो बभूव परमद्युतिः ॥ ३८ ॥
स ययौ योगप्राप्त्यर्थं दधीचिं योगपारगम् ।
तं प्रणम्य विनीतात्मा संस्थितस्तेन पूजितः ॥ ३९ ॥
उवाच तं महाभागं दधीचिं मुनिवन्दितम् ।
कृताञ्जलिर्नतो भूत्वा धौम्यश्च तपतां वरम् ॥ ४० ॥
धौम्य उवाच ।
तपसा स्वर्गभोगश्च लभ्यते सर्वजन्तुभिः ।
ब्रह्मभूयप्रदं विप्र तपो नैव प्रकीर्तितम् ॥ ४१ ॥
अतो मां शाधि तं योगिन् योगं शान्तिपदप्रदम् ।
संसाध्य कृतकृत्योऽहं भविष्यामि विशेषतः ॥ ४२ ॥
ब्रह्मणि तन्मया विप्र कथ्यन्ते ब्राह्मणा बुधैः ।
अतो मां ब्राह्मणं पूर्णं कुरुष्व कृपया विभो ॥ ४३ ॥
धौम्यस्य वचनं श्रुत्वा हर्षयुक्तो महामुने ।
दधीचिस्तं महाभागं जगाद हर्षसंयुतः ॥ ४४ ॥
दधीचिरुवाच ।
ब्रह्म नाना विधं प्रोक्तं वेदादिषु विशेषतः ।
गाणेशं तेषु मुख्यं च ब्रह्मणां ब्रह्मदायकम् ॥ ४५ ॥
अहं पुरा तपोनिष्ठः क्षुपं राजशिरोमणिम् ।
स्पर्धयित्वा महाभागाऽभवं शैवो निरन्तरम् ॥ ४६ ॥
क्षुपार्थमागतं विष्णुं जित्वा योगपरायणः ।
ब्रह्मणि सहजे विप्र संस्थितोऽहं सुसौख्यदे ॥ ४७ ॥
तत्र स्वाधीनभावं च दृष्ट्वा श्रान्तोऽभवं पुरा ।
स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते ॥ ४८ ॥
ततोऽहं शान्तिप्राप्त्यर्थं शङ्करं चागमं प्रभुम् ।
तं प्रणम्य महादेवमस्तवं विविधैः स्तवैः ॥ ४९ ॥
ततो मामब्रवीच्छम्भुः स्मयमान इदं वचः ।
किमर्थमागतो विप्र दधीचे वद साम्प्रतम् ॥ ५० ॥
शिवस्य वचनं श्रुत्वा हर्षयुक्तो महादरात् ।
पुनः प्रणम्य विश्वेशं कृताञ्जलिपुटोऽवदम् ॥ ५१ ॥
[[७९]]
दधीचिरुवाच ।
नमस्ते शङ्करायैव शिवाय सुखवादिने ।
ब्रह्मणे सहजायैव नेतिरूपप्रधारिणे ॥ ५२ ॥
स्वामिन्नव्यक्तगोऽहं तु ब्रह्मप्राप्त्यर्थमादरात् ।
घोरं सहजजं तत्र भावं दृष्ट्वाऽतिविस्मितः ॥ ५३ ॥
स्वाधीनत्वं कथं तत्र सहजे ब्रह्मणि प्रभो ।
स्वाधीनान्न परं ब्रह्म लभ्यते योगसेवया ॥ ५४ ॥
स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते ।
कथं स्वाधीनजं मोहं दधते सहजात्मकम् ॥ ५५ ॥
अहं शैवः सदा नाथं त्वां जानामि परात्परम् ।
अतस्त्वां शरणं यातः शान्तियोगं वदस्व माम् ॥ ५६ ॥
श्रीशिव उवाच ।
सम्यक् पृष्टं त्वया विप्र सर्वेभ्यः सुखदायकम् ।
कथयामि महायोगं ब्रह्म तन्मयताकरम् ॥ ५७ ॥
स्वाधीनं त्रिविधं तात वर्तते न कदाचन ।
तुरीयं सहजं ब्रह्म स्वाधीनं नात्र संशयः ॥ ५८ ॥
चतुर्णामत्र संयोगे स्वानन्दः परिकीर्तितः ।
स्वसंवेद्येन योगेन लभ्यते योगिभिः परः ॥ ५९ ॥
पञ्चभिर्वर्जितो योगो ह्ययोग इति कथ्यते ।
न तत्र ब्रह्मणां योगो जगतां जायते कदा ॥ ६० ॥
तयोर्योगे महायोगिन् शान्तियोगः प्रकीर्तितः ।
पञ्चचित्तभवं भावं त्यक्त्वा शान्तिमवाप्स्यसि ॥ ६१ ॥
अहं गणेशरूपश्च भिन्नत्वं मे न वर्तते ।
सदा संयोगता कुत्राऽयोगता भ्रान्तिदा भवेत् ॥ ६२ ॥
पञ्चचित्तमयी बुद्धिः सिद्धिर्भ्रान्तिकरी मता ।
मा?ये त्यक्त्वा स्वयं चिन्तामणिः साक्षाद्भविष्यसि ॥ ६३ ॥
एवमुक्त्वा स्वयं मह्यं ददौ शम्भुर्महामनुम् ।
एकाक्षरं गणेशस्य तेनाहं भ्रामितोऽवदम् ॥ ६४ ॥
शैवोऽहं सततं नाथ किं मां वदसि मानद ।
गणेशोपासनं केन मार्गेण तं भजाम्यहम् ॥ ६५ ॥
शिव उवाच ।
गणाः समूहरूपास्तांस्तद्रूपान् भावयाधुना ।
सहजानां समायोगे गणोऽहं गणपस्य वै ॥ ६६ ॥
गणेशाकारभावेन गणाः सर्वे विचारय ।
तत्र किं व्यभिचारस्ते भवते वद साम्प्रतम् ॥ ६७ ॥
एवमुक्त्वा स्वयं शम्भुर्विरराम महामते ।
अहं संशयहीनस्त्वं प्रणम्य वनगोऽभवम् ॥ ६८ ॥
शम्भुना कथितं योगं साधयित्वा परात् परम् ।
योगशान्तियुतोऽहं तु जातः शम्भुप्रसादतः ॥ ६९ ॥
सदा शान्तिसमायुक्तो भजामि द्विरदाननम् ।
गुरुरूपधरं शम्भुं गाणपत्योऽहमादरात् ॥ ७० ॥
एतत्ते कथितं सर्वं ब्रह्मभूयकरं परम् ।
त्वमपि गणराजं तं भजस्व भावसंयुतः ॥ ७१ ॥
एवमुक्त्वा ददौ तस्मै गाणेशं षोडशाक्षरम् ।
मन्त्रं दधीचिः प्रेम्णा संयुतः सकलसिद्धिदम् ॥ ७२ ॥
पुनश्चोवाच योगज्ञो दधीचिस्तं विशेषवित् ।
दधीचिर्गणनाथं तमभजद्भावसंयुतः ॥ ७३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते मलमासमाहात्म्ये दधीचिधौम्यसंवादो नाम चतुस्त्रिंशोऽध्यायः ॥
[[८०]]