॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
गणेशप्राप्तिकामार्थं गालवो मुनिसत्तमम् ।
पुनः पप्रच्छ सद्बुद्धिर्विनयेन द्विजोत्तमः ॥ १ ॥
गालव उवाच ।
द्रष्टुमिच्छामि विघ्नेशं तदुपायं वद प्रभो ।
तवाज्ञावशगो भूत्वाऽऽचरिष्यामि तदेव च ॥ २ ॥
विश्वामित्र उवाच ।
प्राप्तं श्रावणमासं त्वं विद्धि गालव सौख्यदम् ।
तत्रानुष्ठानभावेन गणेशं पश्य सिद्धिज ॥ ३ ॥
एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं मुनिः ।
तं प्रणम्य महाविप्रं गालवस्तादृशे रतः ॥ ४ ॥
श्रावणे गणपं ध्यात्वा पुरश्चरणतत्परः ।
जजाप मन्त्रराजं स विधियुक्तं विधानवित् ॥ ५ ॥
पयो भुक्त्वा गणेशानं तोषयामास गालवः ।
सदा ध्यानपरो भूत्वा चिन्तयत्तं महामतिः ॥ ६ ॥
अमायां गणराजस्तु ययौ भक्तिनियन्त्रितः ।
सिद्धिबुद्धियुतो विप्रं सिंहगः सर्वभाववित् ॥ ७ ॥
तमागतं समालोक्य गालवः प्रेमसंयुतः ।
समुत्थाय प्रणम्यादौ पुपूज विघ्ननायकम् ॥ ८ ॥
पुनः प्रणम्य सर्वेशं तुष्टाव स कृताञ्जलिः ।
साश्रुनेत्रो गणाध्यक्षं सर्वसिद्धिप्रदायकम् ॥ ९ ॥
गालव उवाच ।
अमेयमायामयरूपधारिणे मायाविहीनाय परात्परात्मने ।
योगाय योगेश सुयोगदायिने विघ्नेश्वरायैव नमो नमः प्रिय ॥ १० ॥
अचिन्त्यरूपधाराय विघ्नेशाय नमो नमः ।
सिंहगाय चतुर्बाहुधारकाय सुरूपिणे ॥ ११ ॥
स्वानन्दनगरस्थायिन् सदा स्वानन्दरूपिणे ।
अनन्तविभवायैव हेरम्बाय नमो नमः ॥ १२ ॥
लम्बोदराय देवाय देवदेवेशरूपिणे ।
असुराणां निहन्त्रे च असुराय नमो नमः ॥ १३ ॥
[[७५]]
सिद्धिबुद्धिविलासस्य कारिणे ब्रह्मरूपिणे ।
ब्रह्माकारशरीरायैकदन्ताय नमो नमः ॥ १४ ॥
सगुणाय नमस्तुभ्यं निर्गुणाय गुणात्मने ।
सदा शान्तिप्रदात्रे ते धूम्रवर्णाय ते नमः ॥ १५ ॥
पाशाङ्कुशधरायैकदन्ताभयप्रधारिणे ।
नाभिशेषाय सर्वादौ पूज्याय ते नमो नमः ॥ १६ ॥
किं स्तौमि त्वं गणाध्यक्ष यत्र वेदा विसिस्मिरे ।
अतो नमनमात्रेण प्रसन्नो भव विघ्नप ॥ १७ ॥
सूत उवाच ।
एवं स्तुत्वा गणेशानं ननर्त प्रेमविह्वलः ।
धन्योऽहं कृतकृत्योऽहमुच्चरंश्च पुनः पुनः ॥ १८ ॥
तमुवाच गणाधीशो वरान् वरय गालव ।
दास्यामि श्रावणस्यैव व्रतेन तुष्टिमागतः ॥ १९ ॥
त्वया कृतमिदं स्तोत्रं भवेत् सर्वार्थदायकम् ।
पठतां शृण्वतां विप्र मद्भक्तिवृद्धिकारकम् ॥ २० ॥
धनधान्यप्रदं पूर्णं भुक्तिमुक्तिप्रदायकम् ।
आरोग्यादिकरं चास्तु ब्रह्मश्रद्धा प्रवर्धनम् ॥ २१ ॥
एवमुक्त्वा गणेशानो विरराम महामते ।
गालवस्तं प्रणम्यादौ जगाद करसम्पुटः ॥ २२ ॥
गालव उवाच ।
भक्तिं देहि त्वदीयां मे गाणपत्यं कुरु प्रभो ।
योगं शान्तिप्रदं पूर्णं नान्यं याचे गजानन ॥ २३ ॥
तथेति तमथोक्त्वाऽसौ गणेशोऽन्तरधीयत ।
गालवः खेदसंयुक्तो वियोगाद्गणपस्य तु ॥ २४ ॥
ततो जगाम विप्रेन्द्रं विश्वामित्रं ननाम सः ।
वृत्तान्तं कथयामास सोऽपि संहर्षितोऽवदत् ॥ २५ ॥
विश्वामित्र उवाच ।
धन्योऽसि कृतकृत्योऽसि मान्योऽसि मे महामुने ।
सच्छिष्येण त्वया पुत्र तारितोऽहं न संशयः ॥ २६ ॥
एवं प्रशंसितो विप्रो विश्वामित्रेण गालवः ।
तं प्रणम्य ययौ सोऽपि स्वेच्छाचारी यथा तथा ॥ २७ ॥
सदा गणपतिं भक्त्याऽभजदनन्यचेतसा ।
गालवो योगिवन्द्यश्च बभूव परमार्थवित् ॥ २८ ॥
गाणेशानि जगामासौ क्षेत्राणि गणपे रतः ।
अन्ते मयूरक्षेत्रे तु वासं चकार हर्षितः ॥ २९ ॥
तत्रैव गणनाथं सोऽभजद्भावसमन्वितः ।
क्षेत्रसन्न्यासविप्रैश्च पूजितोऽकथयत् कथाः ॥ ३० ॥
इदं गालवमाहात्म्यं कथितं पापनाशनम् ।
पठनाच्छ्रवणात् सर्वसिद्धिदं जन्तवे भवेत् ॥ ३१ ॥
अन्यच्छृणु चरित्रं यत् सर्वसौख्यकरं मुने ।
महाराष्ट्रेऽन्त्यजः कश्चिच्छुश्राव श्रावणस्य च ॥ ३२ ॥
माहात्म्यं गणनाथस्य भक्त्याश्रितं द्विजात् पुरा ।
तत्र चित्तं समानीय गणराजपरोऽभवत् ॥ ३३ ॥
आगते श्रावणे मासे स्नात्वा देवालये स्थितम् ।
ननाम नियमेनैव नित्यं भक्तिसमन्वितः ॥ ३४ ॥
ततः स्वव्यवासायेषु कुटुम्बपोषणे रतः ।
चकार विविधान् कामांल्लोकानां द्रव्यकारणात् ॥ ३५ ॥
समाप्ते श्रावणे मासे मृतं तं दैवयोगतः ।
प्रगृह्य गाणपा जग्मुः स्वालयं हर्षसंयुताः ॥ ३६ ॥
मार्गे सङ्गच्छतस्तस्याङ्गाद्वायुः सहसाऽऽययौ ।
पञ्चचौरशरीराङ्गे पस्पर्श दैवयोगतः ॥ ३७ ॥
चौराणां बुद्धिभेदोऽथ बभूवे तेन ते पुनः ।
ऊचुः परस्परं चौराः पापकर्मपरायणाः ॥ ३८ ॥
[[७६]]
चौरा ऊचुः ।
नित्यं पापसमाचारा वयं चौर्यपरायणाः ।
लोकेभ्यो दुःखदाः पूर्णा का गतिर्वो भविष्यति ॥ ३९ ॥
पापिनां नरकेष्वेव गतिर्दुःखतरा भवेत् ।
यमस्य यातना तत्र दुःसहा नात्र संशयः ॥ ४० ॥
नरके वासिनो नित्यं भविष्यामो वयं यतः ।
अतः परं न कर्तव्यं चौर्यं चौराः कदाचन ॥ ४१ ॥
एवं निश्चत्य मार्गे ते वनस्थे संस्थिता मुधा ।
तत्राऽकस्मात् समायाता ब्राह्मणा दश तापसाः ॥ ४२ ॥
तान् दृष्ट्वा गोभिरानन्दसंयुक्तान् पापनिश्चयाः ।
चौराः खड्गधरा याता हन्तुं तांस्ते द्विजा जगुः ॥ ४३ ॥
द्विजा ऊचुः ।
किमर्थं शस्त्रसंयुक्ताश्चौरा यूयं समागताः ।
गावो ग्राह्याः सुखेनैव वयं गच्छामहे पुनः ॥ ४४ ॥
मा हिंसां कुरुत प्राज्ञा ब्राह्मणवधसंश्रिताम् ।
ब्रह्महत्याभवं पापं वज्रलेपसमं भवेत् ॥ ४५ ॥
तेषां तद्वचनं श्रुत्वा चौरास्तान् खड्गधारकाः ।
ऊचुर्नियम्य स्वात्मानं पापत्रासभयातुराः ॥ ४६ ॥
चौरा ऊचुः ।
ब्रह्महत्याभवं पापं तत् कीदृक् यातनाप्रदम् ।
कनोपायेन पापानि लयं गच्छन्ति भो द्विजाः ॥ ४७ ॥
वयं पापसमाचारा जन्मादारभ्य नित्यदा ।
नानाविधानि पापानि कुर्महे चाधुनावधिम् ॥ ४८ ॥
चराम किं वयं चौरास्तदर्थं पापनाशकम् ।
उपायं तद्वदध्वं नो दयया ब्राह्मणोत्तमाः ॥ ४९ ॥
चौराणां वचनं श्रुत्वा ब्राह्मणास्तानथाब्रुवन् ।
विस्मिता भयसंयुक्ता लोकोद्धारपरायणाः ॥ ५० ॥
ब्राह्मणा ऊचुः ।
अनुतापेन पापानि नश्यन्ति चौरनायकाः ।
अतः परं च पापानि मा चरध्वं तदा किल ॥ ५१ ॥
श्रावणे गणनाथं ते सेवध्वं ब्रह्मनायकम् ।
तेन पापविहीनाश्च गमिष्यथ परां गतिम् ॥ ५२ ॥
एवमुक्त्वा महाभागास्ताननुज्ञाप्य ते ययुः ।
ब्राह्मणाः स्वाश्रमं गोभिर्युक्ता हर्षसमन्विताः ॥ ५३ ॥
समीपे श्रावणं मासं समागतं विलोक्य ते ।
चौराः स्वगृहमागत्य गणेशमभजन् परम् ॥ ५४ ॥
स्नात्वा प्रातर्गणेशानं प्रणम्य भावसंयुताः ।
प्रदक्षिणपराः सर्वे प्रहरं ह्यभवन् मुने ॥ ५५ ॥
ते च एकभुजः सर्वे ब्रह्मचर्यपरायणाः ।
मासमात्रं व्रतं चक्रुः साधवस्ते बभूविरे ॥ ५६ ॥
इह भुक्त्वाऽखिलान् भागानन्ते स्वानन्दमाययुः ।
एवं नाना जना विप्र श्रावणे लेभिरे गतिम् ॥ ५७ ॥
तेषां चरित्रकं पूर्णं कथने नैव शक्यते ।
किञ्चिन्नियमयुक्तानां का कथा व्रतकारिणाम् ॥ ५८ ॥
एवं श्रावणमाहात्यं गाणपत्यपदप्रदम् ।
कथितं मुनिशार्दूल समासेन सुखप्रदम् ॥ ५९ ॥
शृणुयाच्छ्रावयेद्वाऽपि पठेद्यो स लभेत् पदम् ।
गाणेशं विविधान् भोगान् भुक्त्वाऽन्ते मुनिसत्तम ॥ ६० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते श्रावणमासमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥
[[७७]]