३२ गालवसंशयनाशनम्

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

अवन्तीनगरीमध्ये बभूव ब्राह्मणोत्तमः ।
गालवः सर्वधर्मज्ञः सर्वशास्त्रविशारदः ॥ १ ॥

शापानुग्रहयोः शक्तस्तपस्तेजोयुतो मुनिः ।
चचार पृथिवीं सर्वां मुने यात्रापरः कदा ॥ २ ॥

स्वगुरुं स समागम्य विश्वामित्रं महामुनिम् ।
यात्रां समाप्य तत्रैव संस्थितोऽभूत् सुशीलगः ॥ ३ ॥

गणेशभजने सक्तं विश्वामित्रं तपोनिधिम् ।
एकनिष्ठतया दृष्ट्वा तमुवाच कृताञ्जलिः ॥ ४ ॥

गालव उवाच ।

पञ्चभूतात्मको देहो नश्वरः सर्वसम्मतम् ।
देहसंस्थं गणेशानं तं कथं भजसे प्रभो ॥ ५ ॥

योगीन्द्राणां गुरुः साक्षात्त्वं ब्रह्मपदधारकः ।
ब्रह्मभूतस्वभावं किं त्यक्त्वा भजसि विघ्नपम् ॥ ६ ॥

अयं ब्रह्मपतिः साक्षाद्वेदेषु कथितोऽभवत् ।
कथं देहधरः सोऽपि बभूव च गजाननः ॥ ७ ॥

रुच्यर्थं ब्रह्मप्राप्त्यर्थं सेवनं चास्य मुख्यकम् ।
तदर्थं कथितं स्वामिन् वेदैः किं योगिनां मतम् ॥ ८ ॥

गणेशपूजनेनैव शुद्धचित्तो नरो भवेत् ।
स्वल्पकालेन योगज्ञो योगनिष्ठो न संशयः ॥ ९ ॥

सर्वत्रात्मस्वभावेनैकाग्रवृत्तिपरो यदा ।
त्यक्त्वा गजाननं तात जडोन्मत्तादिवच्चरेत् ॥ १० ॥

त्वं शान्तियोगयुक्तः सन्नधुनाऽपि गजाननम् ।
भजसे किं महायोगिन् लोकानां सङ्ग्रहाय वा ॥ ११ ॥

सूत उवाच ।

एवं वदन्तमत्यन्तं मुनिर्निर्भर्त्स्य गालवम् ।
विश्वामित्रः स्वशिष्यं तमुवाच ज्ञानदायकः ॥ १२ ॥

विश्वामित्र उवाच ।

मूर्खोऽसि नैव जानासि गणेशं ब्रह्मनायकम् ।
सर्ववत्तं विशेषेण त्वं मा जानीहि गालव ॥ १३ ॥

पञ्चचित्तमयी बुद्धिः स्वेच्छया देहधारिणी ।
नानाभ्रान्तिकरी सिद्धिर्बभूवे सर्वदा तथा ॥ १४ ॥

तयोः स्वामी गणेशानो देहधारी बभूव ह ।
स्वेच्छया क्रीडनार्थाय मायाभ्यां मायिको यथा ॥ १५ ॥

देहो जगन्मयो यस्य गजाकारं शिरः प्रभोः ।
ब्रह्ममयं तयोर्योगे देहधारी गजाननः ॥ १६ ॥

[[७२]]

योगिनां हृदये ढुण्ढिर्वर्तते कथितो मया ।
अज्ञानिनां निराकारः पञ्चभूतात्मकस्तथा ॥ १७ ॥

सगुणं निर्गुणं भिन्नं गणेशस्य न विद्यते ।
नोत्पत्तिनाशभावश्च सर्ववन्मूर्खसत्तम ॥ १८ ॥

अयं देहयुतः प्रोक्तः स्वेच्छया देहवर्जितः ।
अन्तर्धाय स्वमात्मानं तिष्ठति योगनायकः ॥ १९ ॥

विश्वं ब्रह्मयुतं सर्वं लयं गतं यदा मुने ।
ब्रह्मणस्पतिसञ्ज्ञे च योगे तन्मयभावतः ॥ २० ॥

नरकुञ्जररूपं तदभेदेन समास्थितम् ।
तत्प्राप्त्यर्थं विभिन्नं च भवति भक्तिलालसम् ॥ २१ ॥

योगी योगबलेनैव भवति ब्रह्मरूपगः ।
तथापि ब्रह्मसामर्थ्यं तस्य देहे न विद्यते ॥ २२ ॥

ब्रह्मणस्पतिशब्दार्था सत्ता गाणेशदेहके ।
वर्तते सर्वदा तस्मात्तं भजन्ते तु योगिनः ॥ २३ ॥

एवमुक्त्वा महायोगी विश्वामित्रः प्रतापवान् ।
गालवं तूष्णीम्भावेनाभजत्तं गणनायकम् ॥ २४ ॥

तमुवाच पुनः शिष्यो गालवः प्रणिपत्य च ।
निन्दयस्वात्मनात्मानं संशयस्यापनुत्तये ॥ २५ ॥

गालव उवाच ।

अज्ञानेनावृतोऽहं त्वां पृच्छामि मुनिसत्तम ।
शिष्यं तारय योगेन योगयुक्तं तथा कुरु ॥ २६ ॥

गणेशो योगशान्तिस्थो सदा योगीन्द्रसत्तम ।
कथं देव इति ख्यातः कथितो वेदवादिभिः ॥ २७ ॥

देवाः सत्त्वयुता नाथ नरा राजसतां गताः ।
तामसा असुराः प्रोक्तास्त्रिलोके वासकारिणः ॥ २८ ॥

एवं मे संशयं स्वामिन्नुद सर्वज्ञ ते नमः ।
येन संशयहीनोऽहं भजिष्यामि गजाननम् ॥ २९ ॥

विश्वामित्र उवाच ।

देवाः सत्त्वगुणेनैव युक्ताः स्वर्गनिवासिनः ।
इन्द्रादयो न सन्देहस्तेष्विन्द्रः परमा गतिः ॥ ३० ॥

ब्रह्मणो दिवसान्ते ते लयं गच्छन्ति नित्यदा ।
अन्ये कर्मकरा देवा भवन्ति मानवाः पुनः ॥ ३१ ॥

कर्मणा लभते स्थानं ब्रह्मणः सृष्टिकारिणः ।
कर्मरूपः स वै प्रोक्तो न देवसमतां व्रजेत् ॥ ३२ ॥

परमेष्ठी समाख्यातः परा सेष्ठिस्तदात्मिका ।
इष्ट्यास्तस्मान् परं किञ्चिल्लभ्यते नैव मानवैः ॥ ३३ ॥

शिवो विष्णुस्तथा भानुः शक्तिश्चत्वार ईश्वराः ।
अभवन् सत्यसङ्कल्पाः सगुणा निर्गुणा मुदा ॥ ३४ ॥

गणेशो ब्रह्मभूतो वै स्वेच्छाचारो महामते ।
एवं भेदप्रकारेण ज्ञातव्यो निश्चयार्थिभिः ॥ ३५ ॥

दिवु क्रीडात्मको धातुः पठ्यते मुनिभिर्मुदा ।
सर्वत्र क्रीडनाद्देवाः कथिताः सर्वपूजिताः ॥ ३६ ॥

स्वधर्मनिष्ठजे स्वस्वकर्मणि क्रीडने रताः ।
देवा इन्द्रमुखास्तेन कथिताः शास्त्रवादिभिः ॥ ३७ ॥

सृष्ट्वा चराचरं सर्वं तत्र क्रीडति नित्यदा ।
ब्रह्मा तेन मुनीन्द्रैः स देव इत्यभिधीयते ॥ ३८ ॥

अनन्तकोटिब्रह्माण्डानि रचित्वा स्वमायया ।
शिवादयश्च चत्वारस्तेषु क्रीडन्ति देवकाः ॥ ३९ ॥

सत्यसङ्कल्पकत्वाद्वै ईश्वरास्ते प्रकीर्तिताः ।
देवाः क्रीडनभावाच्च सगुणनिर्गुणादिषु ॥ ४० ॥

असत् सत् स मनेतीति परं सृष्ट्वा चतुर्विधम् ।
विश्वं विश्वात्मसंयुक्तं तत्र क्रीडति विघ्नपः ॥ ४१ ॥

जगत्सु ब्रह्मसु प्राज्ञैः क्रीडनाद्गणजातिषु ।
देवो गणेश्वरः प्रोक्तः पश्य वेदेषु वर्णितम् ॥ ४२ ॥

[[७३]]

अतो देवसमानास्ते न भवन्ति कदाचन ।
ब्रह्मादयो महाभागा देवशब्दप्रधारकाः ॥ ४३ ॥

सूत उवाच ।

विश्वामित्रवचः श्रुत्वा गालवोऽत्यन्तविस्मितः ।
जगाद तं महाभागं संशयेन समन्वितः ॥ ४४ ॥

गालव उवाच ।

देवा हविर्भुजः सर्वे तद्वदिमे महामते ।
हविर्भुजो महेशाद्या अभवन् भागमिश्रिताः ॥ ४५ ॥

दैत्याद्यैः कर्मनाशेन पीडिता अमरा यदि ।
तदा शम्भ्वादयस्तद्वदुपोषणयुताः कृताः ॥ ४६ ॥

तेन देवसमानास्ते दृश्यन्ते नाऽत्र संशयः ।
वद संशयनाशार्थं शिष्यं योगीन्द्रसत्तम ॥ ४७ ॥

विश्वामित्र उवाच ।

अज्ञानासुरभावार्थैर्देवा ब्रह्मादयः किल ।
उपोषणयुताः सर्वे कृता दैत्यैर्भवन्त्यतः ॥ ४८ ॥

अथाऽन्यच्छृणु तत्त्वं त्वं सर्वसंशयनाशनम् ।
खण्डैश्वर्ययुता इन्द्रादयो देवाः प्रकीर्तिताः ॥ ४९ ॥

मन्वन्तरे गते देवा इन्द्राद्या भागवर्जिताः ।
देहत्यागं प्रकुर्वन्ति तपसा ध्यानशालिना ॥ ५० ॥

अन्ये देवा भवन्ति स्मान्यस्मिन् मन्वन्तरे मुदा ।
इन्द्राद्यास्तेन ते प्रोक्ताः खण्डैश्वर्यात्मका मुने ॥ ५१ ॥

स्वस्वमन्वन्तरेष्वेव ते भवन्ति हविर्भुजः ।
नष्टे मन्वन्तरे देवा हविर्भागविवर्जिताः ॥ ५२ ॥

तथा ब्रह्मा स्वयं साक्षाद्धविर्भागधरो न च ।
द्विपरार्धमयं कालं भुनक्ति स हविः प्रभुः ॥ ५३ ॥

अत ऐश्वर्यसंयुक्तः कल्पमात्रं न संशयः ।
कथमिन्द्रादिकैरस्य समता भवतीत्यहो ॥ ५४ ॥

बुधैः स परमेष्ठीति कथितश्चेष्टिभक्षणाम् ।
अखण्डैश्वर्यसंयुक्तेष्टिश्च सर्वत्र सम्मता ॥ ५५ ॥

शिवादयः समाख्याता हविर्भुजस्ततोऽधिकः ।
अत ऐश्वर्यसंयुक्ता अखण्डं हि हविर्भुजः ॥ ५६ ॥

गालव उवाच ।

हविर्भुजः समाख्याता देवाः शास्त्रेषु मानद ।
यज्ञभागविहीनत्वात् कथं देवो गजाननः ॥ ५७ ॥

विश्वामित्र उवाच ।

यज्ञेषु विविधेष्वेव गणेश आदिरुच्यते ।
पूज्यस्तथा हविर्भोक्ता सर्वसिद्धिप्रदायकः ॥ ५८ ॥

एकभागाश्रिता भावाद्गणेश इति कथ्यते ।
समूहानां समायोगस्तत्र किं संशयो मुने ॥ ५९ ॥

वेदेषु गणराजस्य यज्ञो भिन्नो निरूपितः ।
ब्राह्मणस्पत्यसञ्ज्ञस्तु हविर्भुक् तत्र विघ्नपः ॥ ६० ॥

एकभागाश्रिता देवा विष्णुशङ्करमुख्यकाः ।
अतः स्वस्वपदेष्वेव पूजनीयाः प्रयत्नतः ॥ ६१ ॥

सर्वकर्मसु विघ्नेश आदिपूज्यः प्रकीर्तितः ।
सर्वपूज्यो महाविघ्नसमूहानां प्रपालनात् ॥ ६२ ॥

गालव उवाच ।

पञ्च देवाः समानाश्च सगुणा निर्गुणा मताः ।
गणेशः सर्वपूज्यादिपूज्यः कथं बभूव ह ॥ ६३ ॥

विश्वामित्र उवाच ।

सगुणा निर्गुणाः प्रोक्ता ईश्वराः शम्भुमुख्यकाः ।
सत्यसङ्कल्पभावेन योगरूपा न तेऽभवन् ॥ ६४ ॥

एकगुणाश्रिताः सर्वे सगुणाः परिकीर्तिताः ।
महालये लयं ते वै गच्छन्ति गुणधारणात् ॥ ६५ ॥

सगुणा नाशवन्तस्ते निर्गुणा नाशवर्जिताः ।
योगरूपास्तयोर्योगे शिवाद्याः सम्मता बुधैः ॥ ६६ ॥

नरकुञ्जरयोगत्वात् गणेशो योगवाचकः ।
सगुणो निर्गुणः सोऽपि तादृशस्तन्मयोऽभवत् ॥ ६७ ॥

[[७४]]

योगरूपः सदा देवो सगुणो निर्गुणोऽपि वा ।
स्वेच्छया द्विविधं सृष्ट्वा खेलते भाववर्जितः ॥ ६८ ॥

स्वानन्दनगरे संस्थो देहधारी गजाननः ।
स्वानन्दस्य लयो नास्ति वेदादिषु विचारय ॥ ६९ ॥

अतोऽयं नाशहीनोऽपि देहभृच्छोभते स्वयम् ।
सगुणे योगनाथश्चान्तर्धाय निर्गुणे रतः ॥ ७० ॥

अन्तर्धाय गणेशानो निर्गुणं योगशान्तिदः ।
योगरूपे रतः सद्यः स्वेच्छया नात्र संशयः ॥ ७१ ॥

अतोऽयं ज्येष्ठराजश्च कथितो वेदवादिभिः ।
ज्येष्ठानां ज्येष्ठभावाद्वै गतः सर्वादिपूज्यताम् ॥ ७२ ॥

पञ्चचित्तमयी बुद्धिः सिद्धिर्भ्रान्तिप्रदा मता ।
तयोः स्वामी गणेशानः सेव्यते मे हृदि स्थितः ॥ ७३ ॥

एवमुक्त्वा महायोगी विरराम महामुने ।
गालवः संशयं त्यक्त्वा प्रणनाम कृताञ्जलिः ॥ ७४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते श्रावणमासमाहात्म्ये गालवसंशयनाशनं नाम द्वात्रिंशोऽध्यायः ॥