३१ जालन्धरवधः

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

अधुना शृणु माहात्म्यं श्रावणस्य सुखप्रदम् ।
गणनाथप्रियं विप्र समासेन वदाम्यहम् ॥ १ ॥

रामो दाशरथिः शूरः साक्षाद्विष्णुः प्रतापवान् ।
?सभासनगतस्तत्रागतान् विप्रान्ननाम ह ॥ २ ॥

पूजितास्तेन तं सर्वे जगुर्लवणचेष्टितम् ।
तद्वधार्थं वयं राम यातास्तं जहि राघव ॥ ३ ॥

तथेति तानुवाचाऽसौ द्विजान् पप्रच्छ राघवः ।
दुर्जयस्य जयः केन भविष्यति च मे द्विजाः ॥ ४ ॥

ततस्तं ब्राह्मणाः प्राहुर्गणेशस्याभिषेचनम् ।
सूक्तैर्गाणेशकैस्तेन विजयी त्वं भविष्यसि ॥ ५ ॥

मासेषु श्रावणो मुख्यः समागतोऽधुना प्रभो ।
विघ्नेशप्रीतिदोऽत्यन्तममायुक्तो व्रतं कुरु ॥ ६ ॥

एवमुक्त्वा विधिं तस्मै कथयामासुरादरात् ।
गणेशमभजत्तत्र शत्रुघ्नः परवीरहा ॥ ७ ॥

उपोषणसमायुक्तः स्वयं दुग्धमभक्षयत् ।
अभिषेकपरो भूत्वा तोषयामास विघ्नपम् ॥ ८ ॥

मासमात्रं व्रतं कृत्वा गणेशं नम्य राघवः ।
शत्रुघ्नो ब्राह्मणैः सार्धं ययौ लवणराक्षसम् ॥ ९ ॥

त्रिशूलेन विहीनं संरुध्य तं लक्ष्मणानुजः ।
स्मृत्वा गणेश्वरं दुष्टं जघान शरघाततः ॥ १० ॥

महोऽग्रं पतितं युद्धं तयोः सर्वभयङ्करम् ।
ततः खड्गेन शत्रुघ्नस्तस्य चिच्छेद मस्तकम् ॥ ११ ॥

ततो देवगणाः सर्वे पुष्पवृष्टिं प्रचक्रिरे ।
शत्रुघ्नोपरि शत्रुघ्नो जय हेरम्ब चाब्रवीत् ॥ १२ ॥

ब्राह्मणैः पूजितः सोऽपि प्रणम्य द्विजपुङ्गवान् ।
आवासं मथुरां तत्र सुदेशां तां चकार ह ॥ १३ ॥

गते कियति काले संस्थाप्य पुत्रं महामतिः ।
माथुरे रामचन्द्रं तु ययौ भक्तिपरायणः ॥ १४ ॥

एवं श्रावणमासे वै गणेशस्य महात्मनः ।
अनुष्ठानफलं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥ १५ ॥

अन्यत्त्वं शृणु माहात्म्यं श्रावणव्रतजं महत् ।
जालन्धरवधार्थाय यच्छिवेन कृतं पुरा ॥ १६ ॥

जालन्धरेण दैत्येन जितं सर्वं चराचरम् ।
त्रैलोक्याधिपतिः सोऽपि बभूव वरदानतः ॥ १७ ॥

आसुरं कर्म सर्वत्र कारयामास दैत्यपैः ।
न स्वाहा न स्वधा कुत्र बभूवे भूमिमण्डले ॥ १८ ॥

एवं बहौ गते काले गृहीतुं पार्वतीं ययौ ।
जालन्धरस्ततो युद्धं बभूवे देवदैत्ययोः ॥ १९ ॥

देवैः पराजिता दैत्याः पपलुस्ते दिशो दश ।
ततो जालन्धरः क्रुद्धो युयुधे शस्त्रधारकः ॥ २० ॥

जितः शम्भुः सुरेशानैः पपाल भयसङ्कुलः ।
अन्तर्दधे महाशक्तिः स ततो विस्मितोऽभवत् ॥ २१ ॥

स्वगृहं दैत्यराजः स समागत्यातिविह्वलः ।
कामबाणाभिभूतः सन् सस्मार जगदम्बिकाम् ॥ २२ ॥

न लेभे कुत्रचिच्छर्म नानाशीतलजातिषु ।
जज्वाल कामजेनैव वह्निना भृशदुःखितः ॥ २३ ॥

अथ देवगणाः सर्वे पर्वतद्रोणिमाश्रिताः ।
विचारं तस्य नाशार्थं चक्रुर्जालन्धरस्य ते ॥ २४ ॥

ततो बृहस्पतिः प्राह शङ्करादीन् सुरेन्द्रकान् ।
श्रावणे गणनाथस्यानुष्ठानं कुरुत प्रियाः ॥ २५ ॥

तथेति गुरुणा युक्ता देवाः शम्भ्वादयोऽपरे ।
मुनयो गणनाथं वै दूर्वाभिरन्वतोषयन् ॥ २६ ॥

दिवा रात्रौ गणाधीशमभजन्नैकचेतसः ।
समाप्ते श्रावणे मासे भाद्रिं यात्रां प्रचक्रिरे ॥ २७ ॥

पञ्चम्यां पारणं कृत्वा प्रणिपत्य गजाननम् ।
प्रेरिता आकाशगिरा तं महादैत्यमाययुः ॥ २८ ॥

युद्धं कृत्वा महाघोरं जलन्धरेण शङ्करः ।
स्मृत्वा गजाननं चित्ते त्रिशूलेन जघान तम् ॥ २९ ॥

स स्मृतः शिवदेहे तु लयं ययौ महासुरः ।
देवा मुनियुताः शम्भुं तुष्टुवुः पूज्य भक्तितः ॥ ३० ॥

जालन्धरं महादैत्यमेवं जित्वा सदाशिवः ।
स्थापयामास देवादीन् स्वस्थानेषु यथा पुरा ॥ ३१ ॥

वर्णाश्रमयुतांल्लोकान् चकार शङ्करः प्रभुः ।
नित्यवच्छ्रावणे मासेऽनुष्ठानसंयुतोऽभवत् ॥ ३२ ॥

[[७१]]

एकनिष्ठतया शम्भुः सिषेवे गणनायकम् ।
नित्यं ध्यानपरो भूत्वा तमेवाचिन्तयत् प्रभुम् ॥ ३३ ॥

एवं श्रावणमासस्य व्रतं ते कथितं मया ।
येन व्रतप्रभावेण शम्भुर्जिग्ये जलन्धरम् ॥ ३४ ॥

इदं यः शृणुयान्नित्यं श्रावयेद्वा पठेत् स्वयम् ।
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात् ॥ ३५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते श्रावणमासमाहात्म्ये जालन्धरवधो नामैकत्रिंशोऽध्यायः ॥