॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
विश्वावसुश्च नाम्ना को द्राविडे वैश्ययोनिजः ।
श्रुत्वा वैशाखमाहात्म्यं गाणेशं मुदितोऽभवत् ॥ १ ॥
स कुटुम्बपरो नित्यं व्यवसायं चकार ह ।
स्नात्वा वैशाखमासे तु दीपदानपरोऽभवत् ॥ २ ॥
पूर्णिमायां निशायां स स्वगृहं गन्तुमुद्यतः ।
व्यवसायं परित्यज्य मार्गसंस्थो बभूव ह ॥ ३ ॥
तत्र तं भक्षितुं कोऽपि राक्षसः क्रूररूपधृक् ।
आययौ नगरस्यैव वीथ्यां विश्वावसुं मुने ॥ ४ ॥
तमागतं समालोक्य विश्वावसुः सुविह्वलः ।
सस्मार गणपं चित्ते पपात भूतले भयात् ॥ ५ ॥
तमालोक्य धरासंस्थं राक्षसः सहसा मुने ।
जातिस्मरो बभूवाऽपि रुरोद तं प्रमार्जयन् ॥ ६ ॥
ततो विश्वावसुं वैश्यं सावधानं क्षणार्धतः ।
तं प्रणम्य महाभागं राक्षसस्तु वचोऽब्रवीत् ॥ ७ ॥
धूम्र उवाच ।
धूम्रनामानमेवं मां विद्धि वैश्यकुलोद्भव ।
तव दर्शनमात्रेण स्मरन् जातिं न संशयः ॥ ८ ॥
पूर्वजन्मनि विप्रोऽहं सुरुचिर्नामतोऽभवम् ।
विश्वामित्रकुले संस्थः पापकर्मपरायणः ॥ ९ ॥
मया शूद्राय दीक्षा वै दत्ता पौराणिकी परा ।
मात्स्यी स नित्यमेवेदं पुराणमपठन् मुदा ॥ १० ॥
ब्राह्मणैर्निन्दितं तत्र स्वधर्मदूषकं परम् ।
मृतं मां यमदूता वै गृह्य जग्मुः स्वमालयम् ॥ ११ ॥
चित्रगुप्त उवाचाऽथ यमं नीतिविशारदम् ।
स्वधर्मनिरतश्चायं सदाचारयुतोऽभवत् ॥ १२ ॥
मात्स्यं स विप्रः शूद्रायाऽशिक्षापयत् सुमन्दधीः ।
ब्रह्मणैर्वारितः पापी पापकर्मपरोऽभवत् ॥ १३ ॥
तच्छ्रुत्वा धर्मराजस्तमुवाच क्रोधसंयुतः ।
मां वीक्ष्य ताड्यतां दूतस्तथेति स चकार ह ॥ १४ ॥
भुक्तभोगोऽहमत्यन्तं राक्षसो वैश्यसत्तम ।
जातोऽत्र क्षुधयाऽऽविष्टो भ्रमामि तु दिवानिशम् ॥ १५ ॥
त्वां दृष्ट्वा पूर्वपुण्येन जातिस्मर इहाऽभवम् ।
अधुना तारयस्व त्वं मां संसारान् महामते ॥ १६ ॥
नोचेद्देहपरित्यागं करिष्यामि त्वदग्रतः ।
एवमुक्त्वा प्रणम्यादौ रुरोद राक्षसो महान् ॥ १७ ॥
ततो दयायुतो वैश्यस्तमुवाच सुविस्मितः ।
किं करोमि वद प्राज्ञ धूम्र ते तारणाय माम् ॥ १८ ॥
धूम्र उवाच ।
वैशाखे दीपदानं त्वं करोषि ढुण्ढिसन्निधौ ।
तद्भवं देहि मे पुण्यं तेन मुक्तो भवाम्यहम् ॥ १९ ॥
विश्वावसुरुवाच ।
दीपदानं गणेशाग्रे चेत् करोति नरोत्तमः ।
अपारं तद्भवं पुण्यं न दास्यामि कदाचन ॥ २० ॥
तथापि शृणु मे वाक्यमेकवर्तिजदीपतः ।
यज्जातं तद्गृहाण त्वं तेन मुक्तो भविष्यसि ॥ २१ ॥
एवमुक्त्वा ददौ तस्मै पुण्यं दीपसमुद्भवम् ।
एकवर्तिकृतं पूर्णं गणेशाग्रे महामुने ॥ २२ ॥
ततस्तत्र समायाता विमानवरसंस्थिताः ।
गाणेशा राक्षसं धूम्रं गृह्य स्वानन्दमाययुः ॥ २३ ॥
एवं व्रतस्य माहात्म्यं वैशाखे सम्भवस्य च ।
गाणेशानां महाभाग तत्र किं वर्णयाम्यहम् ॥ २४ ॥
अन्यच्च शृणु विप्रर्षे वैशाखमासगं महत् ।
चरित्रं सर्वपापघ्नं श्रवणात् पठनान्नृणाम् ॥ २५ ॥
[[६९]]
कश्चिच्छूद्रो महापापी गणेशालयमाययौ ।
चौर्यार्थं तत्र रात्रौ स वस्त्रग्रहणलालसः ॥ २६ ॥
समीपे गणराजस्य ययौ वैशाखमासके ।
दीपं तेजोविहीनं स ददर्श ढुण्ढिसन्निधौ ॥ २७ ॥
स वर्तिं चालयामास कृत्वा दीपं सुतेजसम् ।
वस्त्रग्रहणसंसक्तो बभूवे जातिदूषकः ॥ २८ ॥
ततोऽकस्मान्नरं तत्र राज्ञः कं च समागतम् ।
देवालस्य रक्षणार्थं तं दृष्ट्वा स पपाल ह ॥ २९ ॥
ततो हाहाकृतं तेन सद्यो लोकैः समागतैः ।
तैर्हतो योजने दूरं मृतो यामैर्हतोऽभवत् ॥ ३० ॥
भुक्त्वा नानाविधां याम्यां यातनां यमसन्निधौ ।
समानीतं यमः प्राह तं शूद्रं क्रोधसंयुतः ॥ ३१ ॥
वर्तिस्त्वया गणेशाग्रे चालिता दीपसंस्थिता ।
तेन प्रकाशकस्तत्र बभूव सुखदायकः ॥ ३२ ॥
तस्य पुण्यं त्वया प्राप्तं तद्भोक्ष्यसि पुराऽथ वा ।
पापानि वद पापिष्ठ करिष्यामि त्वदीप्सितम् ॥ ३३ ॥
शूद्रो यमं जगदाथाऽऽदौ पुण्यं देहि मे प्रभो ।
भोक्तुं पश्चान् महत् पापं तथेति स चकार ह ॥ ३४ ॥
ततः स वैश्यजो जातो नाम्ना धर्मप्रियो महान् ।
नानाभोगयुतो नित्यं यौवनस्थो बभूव ह ॥ ३५ ॥
गणेशभक्तोऽसौ तत्र प्रीतियुक्तो महामुने ।
दीपदानं विशेषेण चकार हर्षसंयुतः ॥ ३६ ॥
अन्ते पापविहीनः स जगाम गणनायकम् ।
ब्रह्मभूतो बभूवापि पूर्वसंस्कारभावतः ॥ ३७ ॥
एवं किञ्चिच्च संस्कारादुद्धरन्ति जनादयः ।
वैशाखजान्न सन्देहः कति तत्र ब्रुवे मुने ॥ ३८ ॥
इदं वैशाखमासस्य चरित्रं भुक्तिमुक्तिदम् ।
कथितं ते समासेन नानाभोगकरं परम् ॥ ३९ ॥
यः पठेच्छृणुयाद्वाऽपि स सर्वार्थयुतो भवेत् ।
अन्ते गणपतौ लीनो भवेद्भावपरायणः ॥ ४० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये नानाजनोद्धारवर्णनं नाम त्रिंशोऽध्यायः ॥