॥ श्रीगणेशाय नमः ॥
शिवदत्त उवाच ।
श्रुत्वा त्वद्वदनाम्भोजाच्छुकगीतां सुतोषितः ।
जातोऽधुना गणेशस्य प्राप्त्यर्थं वद मां पितः ॥ १ ॥
गर्ग उवाच ।
समीपे व्रतमुख्यं यत् समागतं सुसिद्धिदम् ।
वैशाखमासजं कृत्वा गाणपत्यो भविष्यसि ॥ २ ॥
एवमुक्त्वा महायोगी गर्गस्तस्मै ददौ परम् ।
गाणेशपञ्चकेनैकाक्षरं विधिसमन्वितम् ॥ ३ ॥
ततस्तेनाभ्यनुज्ञातो गर्गः स्वेच्छाचरो ययौ ।
शिवदत्तो व्रतं चक्रे गणेशप्रीतये परम् ॥ ४ ॥
वैशाखे ध्यानसंयुक्तस्तोषयामास शौनक ।
गाणेशपञ्चकेनैव गणेशं सर्वसिद्धिदम् ॥ ५ ॥
चतुर्थ्यां गणराजस्तु शुक्लायां प्रययौ मुनिम् ।
ब्राह्मणस्य स्वरूपेण भिक्षार्थं क्षुधितो भृशम् ॥ ६ ॥
तमागतं समालोक्य प्रणनाम कृताञ्जलिः ।
जगाद तं द्विजं विप्रः शिवदत्तो महायशाः ॥ ७ ॥
शिवदत्त उवाच ।
आस्यतां किं वद मुने कारणार्थं समागतः ।
शक्यं चेत्तत् करिष्यामि प्रीतये विघ्नपस्य च ॥ ८ ॥
द्विज उवाच ।
पाराशर्यं महाभाग मां जानीहि न संशयः ।
क्षुधितं वै समायातं त्वद्गेहे भोजनाय तु ॥ ९ ॥
तस्य तत् वचनं श्रुत्वा हर्षयुक्त उवाच तम् ।
तात शुक्लचतुर्थीजं व्रतं वदसि किं मुने ॥ १० ॥
उपोषणसमायुक्ता देवर्षयो गजाननम् ।
सेवन्ते त्वं महाभाग विस्मृतोऽसि वदस्व माम् ॥ ११ ॥
तस्य तद्वचनं श्रुत्वा पाराशर्यस्तमब्रवीत् ।
न जानामि व्रताद्यं तु सदा भक्षणलालसः ॥ १२ ॥
श्रुत्वा प्रणम्य गार्ग्यः स नैवेद्यं गणपस्य च ।
ददौ तस्मै स भुक्त्वा तं तृप्त्वा जगाद हर्षितः ॥ १३ ॥
पाराशर्य उवाच ।
तव भावेन सन्तुष्टो जातोऽहं द्विजसत्तम ।
वरं ब्रूहि प्रदास्यामि यत्ते चित्ते भवेन् मुने ॥ १४ ॥
[[६६]]
गार्ग्य उवाच ।
किं वृणोमि महाविप्र सर्वं मायामयं जगत् ।
गणेशतत्परश्चाहं गच्छ त्वं निजमन्दिरम् ॥ १५ ॥
एवं तस्य वचः श्रुत्वा पुनस्तं स द्विजोऽब्रवीत् ।
नयामि स्वगृहं विप्र वरदोऽहं समागतः ॥ १६ ॥
ततस्तं हठसंयुक्तं दृष्ट्वा गार्ग्य उवाच ह ।
गणेशं दशर्य स्वामिन्नान्यं याचे वरं परम् ॥ १७ ॥
एवमुक्तो द्विजस्तं सञ्जगाद मोहदं वचः ।
त्यक्त्वा नानाविधैश्वर्यं किं वृणोषि गजाननम् ॥ १८ ॥
अहं योगीन्द्रमुख्यश्च दास्यामि सकलं सुखम् ।
एवमुक्त्वा स गार्ग्याय दर्शयामास चैन्द्रकम् ॥ १९ ॥
नानादेवयुतो विप्रमिन्द्रस्तं प्रणनाम ह ।
दासोऽहं ते महाभाग भुङ्क्ष्व त्वं सुखमैन्द्रजम् ॥ २० ॥
एवमुक्त्वा चकाराऽसौ मायया वैभवं परम् ।
गार्ग्यस्तं नश्वरं मत्वा न द?ध्रे गणपे रतः ॥ २१ ॥
ततोऽन्तर्धानमकरोदिन्द्रः स्वनगरं ययौ ।
सत्यलोकसमायुक्तस्तत्र ब्रह्मा समाययौ ॥ २२ ॥
जगाद सत्यलोकस्य गार्ग्यं ब्रह्मा मुदान्वितः ।
राज्यं कुरु महाभाग भज पश्चाद्गणेश्वरम् ॥ २३ ॥
अनौपम्यं सुखं दृष्ट्वा गार्ग्यो विघ्नेश्वरे रतः ।
न मुमोह जगादैव भोगं नेच्छामि भो विधे ॥ २४ ॥
ततोऽन्तर्धानमकरोद्ब्रह्मा लोकपितामहः ।
आययौ केशवस्तत्र विकुण्ठेन समन्वितः ॥ २५ ॥
विकुण्ठविभवं दृष्ट्वा गार्ग्यो गणपतिं भजन् ।
प्रार्थयन्तं महाविष्णुं त्यक्त्वा योगपरोऽभवत् ॥ २६ ॥
ततः सोऽपि ययौ स्थानमाययौ तत्र शङ्करः ।
कैलासेन समायुक्तो नानाविभवमोहदः ॥ २७ ॥
शिवेन प्रार्थितो गार्ग्यः कैलासे राज्यकारणात् ।
न चकार स वै तत्र मतिं गणपतौ रतः ॥ २८ ॥
शिवोऽन्तर्धानमकरोत्ततस्तं पुनरब्रवीत् ।
पाराशर्यो महायोगी गार्ग्यं निन्दापरायणः ॥ २९ ॥
पाराशर्य उवाच ।
मूर्खोऽसि हतभाग्योऽसि गणेशं किं करिष्यसि ।
ब्रह्माकारमतो भुङ्क्ष्व भोगान्नानाविधान् परान् ॥ ३० ॥
सत्यसङ्कल्पजान् भोगान् भुक्त्वा चान्ते गणेश्वरम् ।
भजिष्यसि न सन्देहो ब्रह्माण्डाधिपतिर्भव ॥ ३१ ॥
गार्ग्य उवाच ।
असत्यं दीनजं सौख्यं पराधीनात्मकं मुने ।
सत्यसङ्कल्पजं सौख्यं सत्यमनुपमं परम् ॥ ३२ ॥
सत्यासत्यादिभेदाश्च मायायुक्ता न संशयः ।
क्षणभङ्गुरदेहस्थो नेच्छामि योगिसत्तम ॥ ३३ ॥
अथ वेश्वरभावेनामृतरूपं करोषि माम् ।
तथापि योगनिपुणः सुखं नेच्छामि चैश्वरम् ॥ ३४ ॥
त्वं किमर्थमिहायातश्छलयितुं महाखल ।
गच्छ स्व भवनं विप्र गणेशे भक्तिखण्डक ॥ ३५ ॥
एवं तिरस्कृतस्तेन पाराशर्यो महामुनिः ।
प्रहस्य गणपाकारो बभू?वे तत्क्षणान् मुने ॥ ३६ ॥
जगाद तं महाभागं शिवदत्तं गजाननः ।
पश्य मां गणनाथं त्वं पराशरसुतं मुने ॥ ३७ ॥
स दृष्ट्वा गणराजं तं प्रणनाम कृताञ्जलिः ।
साश्रुनेत्रोऽभवत् सद्यो ननर्त प्रेमविह्वलः ॥ ३८ ॥
देहभावं समासाद्य तं पुपूज गजाननम् ।
मुदा युतः प्रतुष्टाव शिवदत्तः कृताञ्जलिः ॥ ३९ ॥
[[६७]]
शिवदत्त उवाच ।
गणेशाय नमस्तुभ्यं पराशरात्मजाय ते ।
शिवपुत्राय शेषस्य पुत्राय वै नमो नमः ॥ ४० ॥
सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः ।
भ्रात्रे सुहृद्गणायैव स्नुषादिवेषधारिणे ॥ ४१ ॥
अनन्तरूपिणे तुभ्यं नानाभोगविहारिणे ।
भोगहीनाय देवाय सुराय ते नमो नमः ॥ ४२ ॥
अपारगुणधाराय गुणानां पतये नमः ।
गणेशाय परेशाय पूर्णानन्दाय ते नमः ॥ ४३ ॥
आदिमध्यान्तरूपैश्च स्रष्ट्रे पात्रे प्रहारिणे ।
आदिमध्यान्तहीनाय साक्षिणे ते नमो नमः ॥ ४४ ॥
स्वानन्दपतये तुभ्यं मूषकवाहनाय च ।
सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिपते नमः ॥ ४५ ॥
योगानां पतये तुभ्यं योगशान्तिस्वरूपिणे ।
गजाननाय शान्तिभ्यः शान्तिदात्रे नमो नमः ॥ ४६ ॥
परेशाय महादीनपालकाय नमो नमः ।
सर्वेभ्यः सुखदात्रे ते विघ्नेशाय नमो नमः ॥ ४७ ॥
किं स्तौमि त्वां गणाध्यक्ष वेदाः शान्तिं गतास्त्वयि ।
अतो नमो नमो नाथ तुष्टो भव महोदर ॥ ४८ ॥
रजांसि स्वस्थितास्तारा मेघबिन्दूंश्च मानवः ।
गणयेत् कोऽपि ते नाथ न गुणान् वर्णितुं क्षमः ॥ ४९ ॥
धन्योऽहं सर्वभावैश्च येन दृष्टो गजाननः ।
वेदान्तागोचरे गम्यो योगिभिश्च शिवादिभिः ॥ ५० ॥
एवं स्तुत्वा गणेशानं ननाम मुनिपुङ्गवः ।
तमुवाच गणाधीशः स्वभक्तं भक्तलोलुपः ॥ ५१ ॥
श्रीगणेश उवाच ।
वरान् वृणु महाभाग ये ते चित्ते ददामि तान् ।
प्रसन्नोऽहं च ते भक्त्या स्तोत्रेण मुनिसत्तम ॥ ५२ ॥
शिवदत्त उवाच ।
भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् ।
नान्यं याचे गणाधीश त्वत्पादप्रवणो ह्यहम् ॥ ५३ ॥
श्रीगणेश उवाच ।
मदीया भक्तिरुग्रा ते भविष्यति महामते ।
स्मृतिमात्रेण ते कार्यं भविष्यति सुसिद्धिदम् ॥ ५४ ॥
त्वया कृतमिदं स्तोत्रं मदीयं पठनान्नृणाम् ।
श्रवणात् सिद्धिदं सर्वं भविष्यति निरन्तरम् ॥ ५५ ॥
यद्यदिच्छति तत्तत्तु सफलं प्रभविष्यति ।
स्तोत्रपाठेन विप्रर्षे मयि भक्तिप्रदं तथा ॥ ५६ ॥
एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
शिवदत्तो गणेशानं सञ्चिन्त्य स्वाश्रमे स्थितः ॥ ५७ ॥
सदा योगीन्द्रवन्द्यः स बभूवे गाणपाग्रणीः ।
अन्ते विघ्नेश्वरे योगी लीनो बभूव शौनक ॥ ५८ ॥
एवं वैशाखजं मुख्यं व्रतं सर्वार्थदं परम् ।
कथितं ते महाभाग श्रवणात् सर्वसिद्धिदम् ॥ ५९ ॥
वैशाखव्रतसंयुक्तं शिवदत्तचरित्रकम् ।
यः पठेच्छृणुयाद् वाऽपि स सर्वफलभाग्भवेत् ॥ ६० ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये शिवभक्तिप्रदानं नाम एकोनत्रिंशोऽध्यायः ॥
[[६८]]