२८ शुकगीताकथनम्

॥ श्रीगणेशाय नमः ॥

शिवदत्त उवाच ।

वद तात महायोगिन् सर्वसंशयनाशकृत् ।
योगिनः प्रवदन्तीह नानामतयुतं वचः ॥ १ ॥

केचिच्छिवं तथा विष्णुं रविं शक्तिं गणेश्वरम् ।
कर्मज्ञानं विदेहं चात्मानं श्रेष्ठं वदन्ति च ॥ २ ॥

योगं साङ्ख्यमथाऽनन्दमव्यक्तं बोधसञ्ज्ञितम् ।
अन्नं प्राणं मनो योगिन्नित्यादिबहवो मताः ॥ ३ ॥

श्रेष्ठं गणेश्वरं त्वं तु वदसे सर्वभावतः ।
सर्वमान्यं वद स्वामिंस्त्वमस्माकं परा गतिः ॥ ४ ॥

गर्ग उवाच ।

अत्र ते वर्णयिष्यामि चेतिहासं पुरा भवम् ।
शृणुष्वैकमना वत्स सर्वमान्यं वचो महत् ॥ ५ ॥

एकदा नैमिषारण्ये यज्ञं चकार हर्षतः ।
वसिष्ठस्तत्र विप्रेन्द्रा देवेन्द्राश्च समायुयः ॥ ६ ॥

नानावर्णाश्रमप्रज्ञाः श्रेष्ठाः त्रैलोक्यवासिनः ।
आययुर्हर्षसंयुक्ता वसिष्ठस्य महोत्सवे ॥ ७ ॥

योगिनः शुकमुख्याश्च नागाः शेषादयोऽपरे ।
सर्वे सम्मिलितास्तत्र कथां चक्रुः परस्परम् ॥ ८ ॥

तत्र वेदान्तवादेषु कुशला अवदन् मिथः ।
नानामतसमायुक्ताः श्रेष्ठं स्वस्वमते स्थिरम् ॥ ९ ॥

नानावादपराः सर्वे निश्चयं नैव लेभिरे ।
ततः शुकं नमस्कृत्योचुः सर्वे शान्तिधारकम् ॥ १० ॥

सर्वश्रेष्ठा ऊचुः ।
भगवन् सर्वसारज्ञ योगीन्द्रेषु महामते ।
श्रेष्ठस्त्वं शास्त्रवादेषु वद सारं हिताय नः ॥ ११ ॥

योगीन्द्रेषु शुकश्रेष्ठो विभूतिपदगो भवान् ।
त्वयोक्तं निश्चयं सर्वे भजिष्यामो विशेषतः ॥ १२ ॥

तेषां तद्वचनं श्रुत्वा शुको गणपतिं स्मरन् ।
जगाद सर्वसारज्ञः सभायां सर्वसन्निधौ ॥ १३ ॥

श्रीशुक उवाच ।

अन्नकोशमयं ब्रह्मान्नसञ्ज्ञं राजसम्मतम् ।
जागृत् स्थूलस्वरूपस्थं ज्ञातव्यं वेदवादतः ॥ १४ ॥

प्राणो ब्रह्म तथा प्राणकोशानां तत् प्रकाशकम् ।
मनः कोशमयं ब्रह्म मनोमयं प्रकीर्तितम् ॥ १५ ॥

विज्ञानकोशगं ब्रह्म विज्ञानपदवाचकम् ।
त्रिकोशस्थं क्रमात् सूक्ष्मं स्वाप्नमन्तरगं मतम् ॥ १६ ॥

आनन्दकोशसंस्थं यद्ब्रह्मानन्दमयं बुधैः ।
सौषुप्तमुभयत्रस्थं समं वेदविचारतः ॥ १७ ॥

[[६३]]

चैतन्यं चेतनासंस्थं ब्रह्मात्मप्रत्ययात्मकम् ।
तुरीयमस्मिताख्यं तन्नाददेहप्रकाशकम् ॥ १८ ॥

बिन्दुमयं समाख्यातं ब्रह्मदेहात्मधारकम् ।
चतुर्णां देहभूतानां संयोगे त्वम्पदाश्रितम् ॥ १९ ॥

उत्पत्तिस्थितिनाद्युक्तं ब्रह्म चतुर्विधं मतम् ।
प्रचुराख्यं चतुर्देहैः तस्मात् त्वम्पदसञ्ज्ञितम् ॥ २० ॥

चतुर्विधेषु देहेषु स्मृतो देही सदात्मकः ।
उत्पत्तिस्थितिनाशेभ्यो हीनः सोऽहम्पदाश्रयः ॥ २१ ॥

बिन्दुमोहयुतो नित्यं भ्रान्त्या नानाऽवभासते ।
एक एव स्वयं वेदे कथितस्तत्पदाश्रयः ॥ २२ ॥

देहाभिमानयुक्तः स जीवः सर्वैः प्रकथ्यते ।
देहाभिमानहीनश्चेत् परमात्मा स एव तु ॥ २३ ॥

देहदेहिसमायोगे योगोऽसि पदसञ्ज्ञकः ।
मनोवाणीविहीनत्वात् बोधरूपोऽयमुच्यते ॥ २४ ॥

न बाह्यो नान्तरस्थो यन्न समो नास्मितात्मकः ।
न चतुर्णां हि संयोगे बिन्दुमात्रात्मकः स्मृतः ॥ २५ ॥

न सोऽहङ्काररूपस्थः सदा भेदविवर्जितः ।
अतः किं कथनीयं स्यात्तत्रैवं बोधरूपिणि ॥ २६ ॥

बोधेन ज्ञायते सर्वं बोधस्य बोधकं च न ।
अतो बोधमयं ब्रह्मासिपदाख्यं प्रकीर्तितम् ॥ २७ ॥

प्रकृतिसङ्गतो बोधो बोधः पुरुषधारकः ।
प्रकृतिपुम्भवं सौख्यं बोधो जानाति सर्वदा ॥ २८ ॥

प्रकृतिपुम्भवं सौख्यं ज्ञात्वा सृष्ट्वा स्वयं प्रभुः ।
द्वैधं तत्र विशेषेण खेलत्यसिपदात्मकम् ॥ २९ ॥

तेनायं स्वत उत्थानवाचकः परिकीर्तितः ।
बोधादुत्थानभावश्च जायते सुविचक्षणाः ॥ ३० ॥

ततः परं विबोधाख्यं ब्रह्म खेलविवर्जितम् ।
बोधनाशेन योगेन लभ्यते योगिभिर्मुदा ॥ ३१ ॥

बोधनाशे प्रसङ्ख्यातुं कः समर्थो भवेन्नरः ।
अतः साङ्ख्यपरं ब्रह्म सङ्ख्यानाशात् प्रकथ्यते ॥ ३२ ॥

देहदेहिमये नित्यं ब्रह्मणि द्वैतमास्थितम् ।
स्वस्वभावविहीनेन तस्मात् परं विबोधकम् ॥ ३३ ॥

विषयादिषु बोधेनोत्थानं सञ्जायते नृणाम् ।
बोधनाशाद्विबोधाख्यमुत्थानवर्जितं मतम् ॥ ३४ ॥

ब्रह्मणि ब्रह्मभूतस्योत्थानं नैव प्रवर्तते ।
उत्थानवर्जितं साङ्ख्यं योगिभिर्ब्रह्म वर्ण्यते ॥ ३५ ॥

यदोत्थानयुतं ब्रह्म वर्तते सर्ववित्तमाः ।
तदोत्थानविहीनत्वं मते भवति योगिनाम् ॥ ३६ ॥

अतः परत उत्थानसंयुतं साङ्ख्यसञ्ज्ञितम् ।
ब्रह्मोत्थानविहीनत्वादुत्थानं जायतेऽन्यतः ॥ ३७ ॥

तयोः परं स्वसंवेद्यं ब्रह्म संयोगधारकम् ।
सर्वेषां ब्रह्मणां विप्राः संयोगस्तत्र तन्मयः ॥ ३८ ॥

स्वस्वरूपात् परं ब्रह्म संयोगाख्यं न वर्तते ।
तदेवोत्थानहीनं न नैवोत्थानविवर्जितम् ॥ ३९ ॥

तदेव पञ्चधा जातं ब्रह्म स्वानन्दवाचकम् ।
असत् सत् समानेतिस्वानन्दभेदैः प्रकथ्यते ॥ ४० ॥

अन्नं ब्रह्मेति यत् प्रोक्तं तत्रान्नमयमुच्यते ।
नाम तस्य न सन्देहोन्नोपाधित्वाद्विचक्षणाः ॥ ४१ ॥

तस्यानुभवरूपं यद्योगिनां हृदि जायते ।
तदेव रूपकं तस्य नामरूपात्मकं ततः ॥ ४२ ॥

समाधिना महायोगी तत्त्यक्त्वा प्राणब्रह्मणि ।
गच्छति चेत्तदान्नस्य लयस्तत्र भवत् स्वयम् ॥ ४३ ॥

[[६४]]

तद्वत् क्रमेण योगीन्द्राः स्वानन्दस्था भवन्ति हि ।
त्यक्त्वा ब्रह्माणि सर्वाणि प्राणाद्यानि समाधिना ॥ ४४ ॥

तदा तेषां लयस्तत्र जायते ब्रह्मणां किल ।
अत उत्पत्तिनाशाभ्यां तानि युक्तानि योगिनः ॥ ४५ ॥

उत्पत्तिनाशसंयुक्तमसद्रूपं प्रकथ्यते ।
अतो सन्मूलकानि स्युर्ब्रह्माणि स्वस्वमोहतः ॥ ४६ ॥

बोधसाङ्ख्यात्मके यस्माज्जायते स्वस्वरूपतः ।
तत्रान्ते योगभावेन गच्छतो लयमञ्जसा ॥ ४७ ॥

अतोऽसद्रूपस्वानन्दो नानाब्रह्मसु संस्थितः ।
सा शक्तिर्वेदवादेषु शाक्तं ब्रह्म तदुच्यते ॥ ४८ ॥

असति जीवनं यच्च सदा खण्डमयं परम् ।
सद्रूपं स्वस्वरूपं तदात्मा भानुः प्रकथ्यते ॥ ४९ ॥

तयोः स्रष्टा समः साक्षात् स्वानन्दः परिकीर्तितः ।
विष्णुः स तत् प्रवेशात्तु ब्रह्म वेदे प्रकथ्यते ॥ ५० ॥

त्रयाणां नेति कर्ता स्वस्वाधीनोऽव्यक्तकः शिवः ।
चतुर्णां मन्त्रसंयोगे स्वानन्दः पूर्ण उच्यते ॥ ५१ ॥

चतुर्विधं प्रसृष्टं तु स्थापितं संहृतं पुरा ।
स्वानन्देन सदा ब्रह्म तस्मात्तन् मायया युतम् ॥ ५२ ॥

ब्रह्मणां जगतां तस्माद्भावस्तेन प्रकथ्यते ।
भवप्रत्ययसज्ञं तद्ब्रह्म यत् स्वस्वरूपकम् ॥ ५३ ॥

समाधिसञ्ज्ञितं ब्रह्मान्वयात् सर्वत्र कीर्तितम् ।
भवप्रत्यययोगस्थं स्वस्वरूपं महौजसः ॥ ५४ ॥

ततः परमयोगाख्यं ब्रह्म मायाविवर्जितम् ।
मायया वर्णनं सर्वं जायते तद्विवर्जितम् ॥ ५५ ॥

मायया जगतामत्र ब्रह्मणां खेल उच्यते ।
तेषां संयोगभावश्चायोगे किं तैः प्रकथ्यते ॥ ५६ ॥

यद्युत्थानयुतं ब्रह्म तदा बोधमयं भवेत् ।
उत्थानवर्जितं चैतद्भवेत् साङ्ख्यविबोधगम् ॥ ५७ ॥

समाधिसञ्ज्ञं यदि तत्तदा स्वानन्द उच्यते ।
स्वस्य प्रवेशनाशाद् वै किमयोगे वदत्ययम् ॥ ५८ ॥

ब्रह्म ब्रह्मणि संस्थं तन्नागतं न गतं भवेत् ।
व्यतिरेकात्मयोगेन गतिर्ब्रह्मणि योगिनाम् ॥ ५९ ॥

सदा निवृत्तिसञ्ज्ञं तद्ब्रह्म मायाविवर्जितम् ।
स्वस्वरूपेण हीनत्वान्निवृत्तिर्लभ्यते ततः ॥ ६० ॥

मायानाशार्थमत्यन्तमुपायो ह्ययमेकलः ।
उपायप्रत्ययाख्यं तद्ब्रह्मायोगात्मकं परम् ॥ ६१ ॥

अयोगात् परमं ब्रह्म योगाख्यं शान्तिदायकम् ।
संयोगायोगयोर्योगे लभ्यते योगिनायकैः ॥ ६२ ॥

तदेव गणराजश्च ब्रह्मणस्पतिवाचकः ।
ब्रह्मणां ब्रह्मरूपः स शान्त्या योगेन लभ्यते ॥ ६३ ॥

संयोगे गणराजस्तु गकाराक्षरगो मतः ।
अयोगे स णकाराख्यस्तयोः पतिः प्रकथ्यते ॥ ६४ ॥

इदं वेदान्तसारं यत् कथितं योगमार्गतः ।
तं भजध्वं महाभागा यदि शान्तिं समिच्छथ ॥ ६५ ॥

गर्ग उवाच ।

एवमुक्त्वा शुको योगी तूष्णीं भावेन संस्थितः ।
सर्वे विस्मितचित्तास्तं साधु साध्विति चाब्रुवन् ॥ ६६ ॥

निःसंशयाः कृतास्तेन त्यक्त्वा स्वस्वमतं ततः ।
गणेशभजने सक्ता वयं पुत्र महामते ॥ ६७ ॥

क्रमेण शान्तिमापन्ना गाणपा अभवंश्च ते ।
गता गणेश्वरं योगशान्तिदं त्वां वदाम्यहम् ॥ ६८ ॥

[[६५]]

शुकगीता मया तुभ्यं कथिता ब्रह्मदायिनी ।
शृणुयाद्यः पठेत् सोऽपि ब्रह्मभूतो भविष्यति ॥ ६९ ॥

नानेन सदृशं ज्ञानं योगदं कुत्र वर्तते ।
श्रवणात् सर्वसिद्धिदं भविष्यति क्रमादिदम् ॥ ७० ॥

यं यमिच्छति तं तं स लभते मानवो ध्रुवम् ।
अन्ते स्वानन्दवासी स ब्रह्मभूतो भविष्यति ॥ ७१ ॥

शुकगीतासमं किञ्चित् विद्यते नैव निश्चितम् ।
वेदोपनिषदाद्येषु सारभूता हि कथ्यते ॥ ७२ ॥

न श्राव्या दुर्जनायेयं वेदगुह्यमयी परा ।
योगिभिः शुद्धचित्तेभ्यः सुत श्राव्या प्रयत्नतः ॥ ७३ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते शुकगीताकथनं नामाष्टाविंशोऽध्यायः ॥