२७ शिवदत्तबोधः

॥ श्रीगणेशाय नमः ॥

शौनक उवाच ।

वैशाखस्यैव माहात्म्यं श्रावणस्य वद प्रभो ।
मलमासस्य चित्रं त्वं सूत सर्वार्थकोविद ॥ १ ॥

सूत उवाच ।

वृत्रासुरो महादैत्यो जित्वा त्रैलोक्यमोजसा ।
कर्मखण्डनमार्गेण देवान् हन्तुं समुद्यतः ॥ २ ॥

ततो देवगणाः सर्वे भयभीता बभूविरे ।
शरणं स्वगुरुं जग्मुरुपोषणपरायणाः ॥ ३ ॥

तानुवाच महातेजा बृहस्पतिरुदारधीः ।
सेन्द्रान् वैशाखजं देवाः कुरुध्वं व्रतमुत्तमम् ॥ ४ ॥

तेन व्रतप्रभावेण समर्थः सुरनायकः ।
दधीच्यस्थिजवज्रेण हनिष्यति महासुरम् ॥ ५ ॥

सुरर्षयस्ततस्ते तं नमस्कृत्य ययुर्वनम् ।
गुप्तरूपेण वैशाखव्रतं चक्रुः प्रहर्षिताः ॥ ६ ॥

गाणेशपञ्चकं नित्यं सिषेविरे सुरर्षयः ।
गणेशस्मरणं ध्यानं चक्रुः परमभाविकाः ॥ ७ ॥

वैशाखी पूर्णिमायां ते स्वप्ने सर्वसुखावहम् ।
ददृशुर्गणराजं वै मूर्तिस्थं पूजने रताः ॥ ८ ॥

मूर्तिस्तान् प्रत्युवाचेदं वाक्यं वाक्यविशारदा ।
इन्द्रदेहं समाश्रित्य हनिष्यामि महासुरम् ॥ ९ ॥

अमरा मुनयः सर्वे प्रबुद्धा विस्मिता जगुः ।
परस्परं विचार्यैवं सर्वैकस्वप्नभावतः ॥ १० ॥

ततः क्रोधसमायुक्तो बभूव देवनायकः ।
देवान् गृह्य ययौ तत्र दधीचिं मुनिभिः पुरा ॥ ११ ॥

तं प्रार्थ्य वज्रमादाय तदस्थिजं महाबलः ।
देवैः समावृतो युद्धं वज्रेणैव चकार सः ॥ १२ ॥

वृत्रेन्द्रयोर्महद्युद्धं देवानां दैत्यपैः सह ।
बभूव दारुणं विप्र मया वक्तुं न शक्यते ॥ १३ ॥

इन्द्रो गणपतिं स्मृत्वा तं वज्रेण महासुरम् ।
जघान तं मृतं दृष्ट्वा दैत्याः पातालमाविशन् ॥ १४ ॥

देवा हर्षसमायुक्ता ब्रह्मणा गणपं पुनः ।
बदरारण्यदेशस्थं समाजग्मुः प्रतुष्टुवुः ॥ १५ ॥

[[६१]]

देवर्षय ऊचुः ।
नमो नमस्ते परमात्मने वै सदा गणानां पतये गणात्मने ।
अनन्तमायामयखेलकारिणे परेश ब्रह्मेश नमो नमस्ते ॥ १६ ॥

नमस्तुभ्यं महाविघ्ननाशनाय महात्मने ।
विघ्नेशाय सुभक्तानां पालकाय नमो नमः ॥ १७ ॥

हेरम्बाय महादीनपालकाय च ढुण्ढये ।
लम्बोदराय देवाय देवदेवेश ते नमः ॥ १८ ॥

अनाथानां प्रणाथाय नाथहीनाय ते नमः ।
नाथानां नाथरूपाय वक्रतुण्डाय वै नमः ॥ १९ ॥

परात्परतमायैव योगशान्तिप्रदाय ते ।
योगानां पतये तुभ्यं नमो योगाय ते नमः ॥ २० ॥

सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ।
सगुणनिर्गुणाभ्यां च वर्जिताय नमो नमः ॥ २१ ॥

अनन्तमायया देव चारिणे ते नमो नमः ।
मायाहीनाय मायायै मायिनां मोहकारिणे ॥ २२ ॥

मूषकोपरि संस्थाय मूषकध्वजधारिणे ।
सिद्धिबुद्धिपते तुभ्यं स्वानन्दस्थाय ते नमः ॥ २३ ॥

किं स्तुमस्त्वां गणाध्यक्ष शान्तिरूपं परात्परम् ।
वेदादयः समर्था न योगिनः शास्त्रसंयुताः ॥ २४ ॥

एवमुक्त्वा प्रणेमुस्तं देवर्षयो महामुने ।
स्वस्वस्थानं ययुः सर्वे हर्षयुक्तेन चेतसा ॥ २५ ॥

वर्णाश्रमयुता लोका बभूवुर्विगतज्वराः ।
सर्वे देवर्षयस्तत्र भागयुक्ता बभूविरे ॥ २६ ॥

एवं वैशाखमासस्य व्रतेन देवनायकः ।
हत्वा वृत्रासुरं विप्र देवैः सुखयुतोऽभवत् ॥ २७ ॥

अन्यच्च शृणु माहात्म्यं वैशाखव्रतसम्भवम् ।
सर्वपापहरं दुःखनाशनं श्रवणान्नृणाम् ॥ २८ ॥

गार्ग्यः कोऽपि द्विजो नाम्ना शिवदत्तो बभूव ह ।
स गणेशपरो नित्यमभजद्गणनायकम् ॥ २९ ॥

स्वधर्मसंयुतो नित्यं भार्यापुत्रसमन्वितः ।
अग्निहोत्रपरो भूत्वाऽतिष्ठत् स्वतेजसा युतः ॥ ३० ॥

तत्रागतं स योगीन्द्रं गर्गं सर्वार्थकोविदम् ।
तं प्रणम्य महाभागं शिवदत्तः पुपूज ह ॥ ३१ ॥

नित्यं सेवापरं दृष्ट्वा सुतं विनयसंयुतम् ।
मुक्तिमिच्छन्तमत्यन्तं गर्गः संहर्षितोऽभवत् ॥ ३२ ॥

उवाच शिवदत्तं स पुत्र वाञ्छसि किं वद ।
तत्करिष्यामि ते शीलसन्तुष्टोऽहं न संशयः ॥ ३३ ॥

तस्य तद्वचनं श्रुत्वा शिवदत्तः कृताञ्जलिः ।
तं प्रणम्य महात्मानं जगाद सुखदं वचः ॥ ३४ ॥

शिवदत्त उवाच ।

गुह्यं वेदरहस्यं मे वद योगीन्द्रसत्तम ।
येनाहं कृतकृत्यश्च भविष्यामि सुसेवनात् ॥ ३५ ॥

गर्ग उवाच ।

लक्षचतुरशीतिषु योनिषु मानवात्मिका ।
योनिः श्रेष्ठा महाभाग सुज्ञो यदुद्भवो भवेत् ॥ ३६ ॥

धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य सर्वदा ।
पात्रता तस्य सम्भूता तस्माच्छ्रेष्ठं न विद्यते ॥ ३७ ॥

तेषु ब्राह्मणवर्णस्थः श्रेष्ठः शास्त्रेषु सम्मतः ।
सर्वकर्माधिकारित्वात्तेषु शास्त्रज्ञ एव च ॥ ३८ ॥

तेषु स्वधर्मसंयुक्तोऽधिकस्तेषु तपोयुतः ।
तेषु ज्ञानी महाश्रेष्ठः सर्वत्रात्मप्रदर्शनात् ॥ ३९ ॥

तेषु योगी विशेषेणाधिकस्तेषु महामते ।
गाणपत्योऽधिको योगी परस्तस्मान्न विद्यते ॥ ४० ॥

यत्र तत्राऽपि वर्णस्थो गाणपत्योऽधिको मतः ।
योगी वेदादिषु प्रोक्तं पश्य संशयनाशनम् ॥ ४१ ॥

[[६२]]

इदं वेदान्तसम्भूतं सारं ते सम्प्रकाशितम् ।
तस्माद्भज गणेशानं कृतकृत्यो भविष्यसि ॥ ४२ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेअष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये शिवदत्तबोधो नाम सप्तविंशोऽध्यायः ॥